शिवशिवास्तुतिः ३
विधिक्रियाज्ञानगणैरलभ्यं-
समस्त शास्त्रोदधिसारभूतम् ।
स्वतः प्रकाशं हृदये वसन्तमं
भवं भवानीसहितं नमामि ॥ १॥
गर्भीकृताशैषजगत्स्वरूपं
स्थितं प्रतिप्राणिनिजात्मभूतम् ।
अनादिमेकं बहुधा विभक्तं
भवं भवानीसहितं नमामि ॥ २॥
सर्वस्वरूपेण विभासमान-
मगुह्यगुह्यं मनसाप्यगम्यम् ।
विस्रम्भदृश्यं हृदये बहिश्च
भवं भवानीसहितं नमामि ॥ ३॥
विकल्पजालैः प्रसृतार्थजालै-
र्विभासमानं त्वविकल्परूपम् ।
मूढैदृश्यं विदुषैकगम्यं
भवं भवानीसहितं नमामि ॥ ४॥
प्रकाशितैः स्वेन विभास्यते यो
वेदादिशब्दैर्निखिलैश्च भूतैः ।
तमेकमेवाहमिति (स्वशक्त्या)प्रकाश्यं
भवं भवानीसहितं नमामि ॥ ५॥
वेत्तृस्वरूपं ननु वेद्यरूपं
विभाति यो वेदनरूपमेकः ।
तमेव नित्यं त्रिपुटीविहीनं
भवं भवानीसहितं नमामि ॥ ६॥
देवैर्मनुष्यैरसुरैरवेद्यं
संस्तूयमानं स्तुतिभिर्महेशम् ।
स्वच्छं स्वतन्त्रं जगदेकवन्द्यं
भवं भवानीसहितं नमामि ॥ ७॥
वेलां भवाब्धेस्तरणीञ्च तस्य
हेतुं निधानं करणं क्रियां च ।
भोगस्य मोक्षस्य विधातृसिंहं
भवं भवानीसहितं नमामि ॥ ८॥
इति शिवशिवास्तुतिः सम्पूर्णा ।
Encoded and proofread by Ruma Dewan