व्यासकृतं शिवस्मरणस्तोत्रम्
भर्ग भीम भव शङ्करेति वा नीलकण्ठ शिव शर्व सर्वग ।
कालकाल गिरिशेति वा मुहुः चित्तपोतक शिवं स्मर स्मर ॥ १॥
चन्द्रशेखर सुरासुरार्चितानङ्गभङ्गकर तुङ्गविग्रह ।
शङ्ग लिङ्गनिलयाव्ययेति वा चित्तपोतक शिवं स्मर स्मर ॥ २॥
अन्धकासुरहरामरेश्वरापारवीरकरुणारसाकर ।
मारसंहर महेश्वरेति वा चित्तपोतक शिवं स्मर स्मर ॥ ३॥
सृष्टिपालनविनाशकारणानन्तसुन्दर विहारविग्रह ।
भूतिभूषणविशोभितेति वा चित्तपोतक शिवं स्मर स्मर ॥ ४॥
तारकारुचिरहारकन्धर व्यापृताद्रितनयाकराञ्चल ।
चञ्चलाचलसमानमानसासीम मामव हरेति वा स्मर ॥ ५॥
शैलराजतनयाकुचोल्लसत्कुङ्कुमाङ्कितपदाम्बुजाञ्चल ।
अम्बिकारमण मामवेत्यपि चित्तपोतक शिवं स्मर स्मर ॥ ६॥
कल्पकोटिकृतपातकानि मे संहर स्मरहर स्मृतोऽपि माम् ।
मामकोऽयमिति गोचरं कुरु त्राहि मामिति मनः स्मर स्मर ॥ ७॥
भूतिभूषिततनुः भवे भवे भाग्यभारपरिपाकतः शिवम् ।
पूजयामि बहुसाधनैरहं पाहि मामिति मनः स्मर स्मर ॥ ८॥
आनमामि भगवन्तमन्ततः सन्ततं च न भवन्तमेव किम् ।
शैलराजतनयापते मुहुः पाहि मामिति मनः स्मर स्मर ॥ ९॥
मत्कृतामितमहापराधभीः भूतनाथचरणाम्बुजस्मृतेः ।
यातु नाशमिति सादरं हरं नानुवारमपि किं मनः स्मर ॥ १०॥
भावलिङ्गनिलयाप्रमेय मे मङ्गलारमण मङ्गलं कुरु ।
तावकं कुरु कुरु क्रमेण वा दीनमित्यपि मनः स्मर स्मर ॥ ११॥
लीलयालमनुवेलमव्ययापायकायविषयैरलं बलैः ।
कालकालकलनेन कालभीः नेति कालहरमेव संस्मर ॥ १२॥
मन्मनःसरलिजासनाश्रयः किं क्षणार्धमपि वा सदाशिव ।
इत्यनुक्षणमुमापतिं भज भ्राजमानमनिशं मनः स्मर ॥ १३॥
मन्दिराणि तव सुन्दराणि चेत् मन्दिरेऽपि वसतिः कथं तव ।
तद्वदीश मम मानसासने संवसेति सततं मनः स्मर ॥ १४॥
शङ्करातिरुचिरं न सुन्दरं चित्तमन्दिरमथापि सुन्दरम् ।
तत्कथामृतसुधानुलेपनादित्यपि स्मरहरं स्मर स्मर ॥ १५॥
॥ इति शिवरहस्यान्तर्गते व्यासकृतं शिवस्मरणस्तोत्रं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ४५। ८४-९८ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 45. 84-98 ..
Proofread by Ruma Dewan