शिवस्तवः ५
एकं निष्कळमचलं संसक्तद्वादशान्तमतिशान्तम् ।
ज्योतिर्विज्ञानमयं परात्परं पावनं शिवं वन्दे ॥ १॥
द्वेधा शक्तत्या युक्तं पुरुषप्रकृतिप्रकारभेदेन ।
अग्नीषोमात्मानं जगत्प्रसूतिं महेश्वरं वन्दे ॥ २॥
मूर्तित्रयानुषक्तं ब्रह्मा विष्णुर्महेश्वरश्चेति ।
सृष्टिस्थितिलयहेतुं त्रिगुणात्मानं त्रिलोचनं वन्दे ॥ ३॥
वेदचतुष्टयवेद्यं चतुराश्रमवर्णधर्मकर्तारम् ।
चतुरष्टार्धावासं चतुर्भुजं चन्द्रशेखरं वन्दे ॥ ४॥
पञ्चमहाभूतमयं पञ्चेन्द्रियशक्तिविषयगुणनिलयम् ।
पञ्चविभक्तात्मानं पञ्चमुखं पार्वतीपतिं वन्दे ॥ ५॥
षड्वर्गदुर्गदूरं षट्तर्कवितर्कनिश्चयालक्ष्यम् ।
षट्कर्माङ्गसुनिष्टं षण्मुखजनकं जगद्गुरुं वन्दे ॥ ६॥
सप्तविकाराव्यक्तं सप्ताधिकसप्तविष्टपाधारम् ।
सप्ताश्विकोटिभासं सप्तावलयं पिनाकिनंवन्दे ॥ ७॥
मूर्त्यष्टकोपपन्नं नागाष्टकभूषणं महादेवम् ।
अष्टमलोकेशानां मातॄणाभष्टकार्चितं वन्दे ॥ ८॥
नवशक्तिकृताधारं नवविकसितकाशकुसुमसङ्काशम् ।
नवयौवनोपपत्रं नवग्रहाराधितं हरं वन्दे ॥ ९॥
दशमुखनतचरणयुगं दशमुखहव्यहोमसम्प्रीतिम् ।
दशमुखमण्डननमितं दशप्रहारोज्ज्वलं हरं वन्दे ॥ १०॥
एकादशप्रभेदं रुद्रं शतधा सहस्रधा भूयः ।
सङ्ख्यातीतं मूर्त्यां मायामयमच्युतं मृडं वन्दे ॥ ११॥
द्वादशसङ्ख्यातीतं माहात्म्यं सर्वभुतरमणीयम् ।
निष्कळचिन्त्येशानं सर्वेशं पापनाशनं वन्दे ॥ १२॥
करधृतशूलकपालं भसितसिताङ्गं त्रिलोचनं जटिलम् ।
भीषणपितृवननिलयं नीलग्रीवं दिगम्बरं वन्दे ॥ १३॥
उग्रं वीरयुतं महान्वितमथो विष्णुं ज्वलन्तान्वितं
सम्प्रोक्ताथ च सर्वतोमुखनृसिंहार्णांस्तथा भीषणम् ।
भद्रं मृत्युयुतं च मृत्युमपि च प्रोक्ता नमाम्या युतं
भूयोऽहं पदमुद्धरेन्मनुमिमां मन्त्री समस्तार्थदाम् ॥ १४॥
(``उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् ।
नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहं'' ॥
इति मन्त्रस्वरूपम् ॥ श्री ॥ )
(This stotra contains 14 verses in praise of Shiva.
From 1 to 12, each shloka enumerates the numbers in
Sanskrit as ekaM, dvedhA, traya etc. while
describing the glory of shiva. The last stanza
contains a mantra on Nrisimha ugraM vIraM mahAviShNuM etc.)
इति शिवस्तवः सम्पूर्णः ।
Proofread by Mohan Chettoor