शिवस्तवः ब्रह्मविष्णुकृतः
श्रीगणेशाय नमः ।
ब्रह्मविष्णू ऊचतुः ।
नमस्ते शङ्करायैव नमस्ते शूलपाणये ।
रुद्राय कालरूपाय त्र्यम्बकाय नमो नमः ॥ ४२॥
उमापते नमस्तुभ्यं वृषभेश्वरवाहन ।
आदिदेवाय देवाय महादेवाय ते नमः ॥ ४३॥
प्रसीद भगवन् शम्भो नान्तं पश्यावहे विभो ।
किंरूपं किंस्वभावं त्वां न जानीवः कथञ्चन ॥ ४४॥
दर्शय स्वात्मरूपं भो महेश्वर नमोऽस्तु ते ।
येन ते भजनं देव जनाः कुर्वन्ति निर्भयाः ॥ ४५॥
तयोर्वचनमाकर्ण्य शम्भुः प्राकट्यमास्थितः ।
ततस्तं तौ ददृशतुर्हरिश्च भगवान् विधिः ॥ ४६॥
वामभागे स्थितं विष्णुं दक्षिणाङ्गे पितामहम् ।
विश्वं चराचरं सर्वं लिङ्गं तत्रास्य संस्थितम् ॥ ४७॥
अपारमहिमानं तं दृष्ट्वा नेमतुरादरात् ।
उपसंहर रूपं तत्त्वमेव परमेश्वरः ॥ ४८॥
तयोर्वचनमाकर्ण्य हृष्टः सन् शङ्करः प्रभुः ।
भगवान् पूर्वरूपेण सन्तस्थौ वृषभध्वजः ॥ ४९॥
उवाच तौ महादेवो वृणुतं वरमीप्सितम् ।
दास्यामि भवतोर्भावात् स्तोत्रसन्तुष्टमानसः ॥ ५०॥
य एतत्पठति स्तोत्रं स कामान् लभतेऽखिलान् ।
मत्प्रियः सोऽपि भवति मल्लोकेऽन्ते प्रगच्छति ॥ ५१॥
इति ब्रह्मविष्णुकृतः शिवस्तवः । १.१३