देवीकृतः शिवस्तवः
देवदेव महादेव शङ्कर करुणालय ।
(देवदेव महादेव करुणावरुणालय) ।
एणाङ्कमौले सर्वज्ञ गङ्गाजलजटाधर ॥ ७॥
भव भर्गामरेन्द्रेन्द्र फणामणिविभूषित ।
वृषध्वजेश कामारे पुरान्तक यमान्तक ॥ ८॥
खट्वाङ्गडमरूद्दामघोषघोषितविष्टप ।
त्रिशूलपाणे भूतेश व्योमकेश दिगम्बर ॥ ९॥
त्रिजगज्जालनिर्माणस्थितिनाशकर प्रभो ।
विस्मयस्तव नास्त्येव लीलेयं तव शङ्कर ॥ १०॥
लोका लोक्या ब्रह्मविष्णुहरामरवरास्सुराः ।
तेषामुत्थानसंस्थानविनाशनमपीश्वर ॥ ११॥
॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये देवीकृतं शिवस्तवः ॥
- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ३८ - कैलासलिङ्गवर्णनम् । ७-११॥
- .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 38 - kailAsalingavarNanam . 7-11..
Notes:
Encoded and proofread by Ruma Dewan