देवैः कृतः शिवस्तवः
को भवांस्तव किं रूपं नानाश्चर्यैकभावनः ।
नग्नोऽसि देवदेवेश ब्रह्ममुण्डलसद्गलः ॥ १६॥
त्रिणेत्रश्च गरादश्च नीलकण्ठश्च शङ्करः ।
महाहिवलयोद्भासिरत्नमालागलद्युतिः ॥ १७॥
पितृकाननसम्भूतभस्मधार्यसि सर्वदा ।
जटिलोऽसि महादेव महावृषभवाहनः ॥ १८॥
मत्स्यकूर्मवराहादिनरसिह्याजिनप्रियः ।
गजकृत्तिधरो नित्यं चन्द्रमूर्धासि शाश्वतः ॥ १९॥
मृगवालमहाशूलधारकोऽसि महेश्वरः ।
वामभागैकविलसत्कामिनीनोऽसि विश्वभुक् ॥ २०॥
सदा गिरिप्रियश्चासि ह्यसङ्गश्च चरिष्यसि ।
गणौघगणनां देव गणितुं ते न शक्यते ॥ २१॥
का निष्ठा तव देवेश वद त्वं करुणानिधे ।
सशरीरोऽसि चारित्र्यं तव ज्ञातुं न शक्यते ॥ २२॥
तव मायामयैः पाशैर्मोहिताश्चैव भूसुराः ।
(तव मायामयैः पाशैर्मोहिताश्च वयं सुराः) ।
शरीरिणं त्वां दृष्ट्वैव ह्यस्माभिस्समुपास्यसे ॥ २३॥
पुत्राभ्यां प्रीतियुक्तोऽसि द्विपाननषडानने ।
षडूर्मिरहितं देवदेवं त्वां मन्महे वयम् ॥ २४॥
वयञ्च लोकपास्सर्वे ब्रह्मविष्णुमहेश्वराः ।
रुद्रादयश्च दिक्पाला ग्रहर्क्षमनवस्सुराः ॥ २५॥
ब्रह्मा सृजति लोकांश्च विष्णुः पालयते जगत् ।
रुद्रस्संहरते चान्ते चन्द्रेन्द्रसुरनायकैः ॥ २६॥
(रुद्रस्संहरते चान्ते इन्द्रोऽयं सुरनायकः) ॥ २६॥
हन्त्याजौ सर्वदैत्यांश्च मखभुग्विष्टपाधिपः ।
विश्वे च ऋभवस्सोमं तेऽपि यज्ञे पिबन्त्यपि ॥ २७॥
सोमं तवाज्ञया शम्भो ह्यश्विनौ सोमपीथिनौ ।
वसवश्च ततश्शम्भो सूर्यःपाति गभस्तिभिः ॥ २८॥
निशानाथस्सदा चन्द्रस्ताराश्चान्ये ग्रहादयः ।
इन्द्रोऽग्निस्सूर्यतनयो निऋतिर्वरुणोमरुत् ॥ २९॥
यक्षेन्द्रोऽयं धनाधीश ईशानोऽयं (ईदृशोऽयं) महेश्वरः ।
मनवो ऋषयश्चैव स्वं स्वं कार्यमुपासते ॥ ३०॥
ताराचक्रमिदं सर्वं लोकाश्चैव चतुर्दश ।
एतेषामतिरिक्तस्त्वं कस्त्वं देव वदाधुना ॥ ३१॥
चरित्राण्यपि ते देव विश्वातीतानि दर्शय ।
नैव विश्वपरोऽसि त्वं देवो विश्वाधिको ह्यसि ॥ ३२॥
तव देव कथं रूपं रूपवानिव दृश्यसे ।
न सज्जसे गुणेषु त्वं गुणवानिव दृश्यसे ॥ ३३॥
विश्वातिगोऽसि भूतेश विश्ववानिव दृश्यसे ।
निर्गुणोऽपि च देवेश सगुणेष्विव दृश्यसे ॥ ३४॥
देव्यानया विहरसे कैलासाचलमूर्धगः ।
निष्किञ्चनोऽसि च सदा सर्व भाग्यसुधोदयः ॥ ३५॥
वत दृक्कोटिसंलग्ना भवन्त्येवेश्वरा हि ते ।
ससुरासुरगन्धर्वमानवाः पशवोऽपि हि ॥ ३६॥
यत्न यत्रोत्कृष्टतमास्तवकारुण्यतोऽखिलाः ।
रमसे प्रमथाधीशैस्स्कन्दहेरम्बसंयुतः ॥ ३७॥
तवापारचरित्राणां ज्ञेयताद्य महेश्वर ।
वेदैरीड्योऽसि भगवन्नैव किञ्चित्करोऽपि च ॥ ३८॥
तवलिङ्गं सुरैस्सर्वैरसुरैर्मुनिपुङ्गवैः ।
पूज्यसे बिल्वपत्रैश्च तेषां त्वं मोचको ह्यसि ॥ ३९॥
भवजालमयैः पाशैः किन्ते रूपं महेश्वर ।
भस्मप्रियोऽसि भगवन्यस्मनिष्ठे तु ते कृपा ॥ ४०॥
रुद्राक्षधारिणो ये तु तेऽपि त्वद्भक्तसत्तमाः ।
पञ्चाक्षरपराणाञ्च त्वं सदा मोक्षदो ह्यसि ॥ ४१॥
रुद्राध्यायार्थकथनतज्जपासक्तचेतसाम् ।
तेषां त्वं पापजालानि विनाशयसि शङ्कर ॥ ४२॥
भक्तिप्रियोऽसि भगवन्मोहितास्तव मायया ।
संशयाविष्टहृदयास्त्वां पृच्छामो महेश्वर ॥ ४३॥
तवैवरूपं देवेश कृपया वद तच्छिव ।
अस्माभिरिव लोकेषु रूपवानिव दृश्यसे ॥ ४४॥
स्त्र्यन्नपानादिभोगैश्च विहरस्य जरामरः ।
अरिमित्रेष्वपि सदा तुल्यो ह्यसि महेश्वर ॥ ४५॥
स्मरत्रिपुरदैत्येन्द्रयमान्धकगजादिहृत् ।
उत्तमोऽसि कथं देव ह्यस्माभिरपि ते सदा ॥ ४६॥
॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये देवैः कृतं शिवस्तवः ॥
- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ४९ - देववाक्यम् । १६-४६॥
- .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 49 - devavAkyam . 16-46..
Notes:
Devā-s देवाः eulogize and beseech Śiva शिव to reveal to them His Ture Nature.
Encoded and proofread by Ruma Dewan