नारायणकृतं शिवस्तवः

नारायणकृतं शिवस्तवः

तारकासुरसन्त्रासदावानलसमावृताः । शिवनामसुधासारैः शीतलाः स्मः किलाधुना ॥ १॥ कथ स्मृतो महादेवः संसाराग्निविनाशकः । अकस्मादधुना दीनान् अस्मान् पालयितुं परम् ॥ २॥ स कृपालुर्नीलकण्ठः सर्वकण्टकनाशकः । करोति मङ्गलं नित्यं क्षणार्धेनापि वा स्मृतः ॥ ३॥ प्रतिक्षणं महादेवचरणस्मरणादराः । हाराः परमुदारास्ते न संसारभयातुरः ॥ ४॥ त एव धन्या मान्याश्च धरणीमण्डले मुहुः । ये स्मरन्ति महादेवमुमाऽऽलिङ्गितविग्रहम् ॥ ५॥ अहो महदिदं भाग्यं सौभाग्यनिधिरेव नः । गौरीधवोऽधुना साधु धारारूपेण संस्मृतः ॥ ६॥ महादेवपदाम्भोजभृङ्गमङ्गं सुमङ्गलम् । तनूत्तमाङ्गमुत्तङ्गं मुहुः तत्प्रणतं मुदा ॥ ७॥ हरं परात्परतरं तं महानन्दसागरम् । स्मृत्वा नत्वाऽपि दृष्ट्वा वा परमानन्दतां ययुः ॥ ८॥ ये ये कृतार्थास्ते सर्वे सर्वदा सर्वमिद्धिदम् । शरण्यं शरणं प्राप्ताः प्राप्तैश्वर्यमहोत्सवाः ॥ ९॥ यद्द्वारगाः तुङ्गतुरङ्गकोटयो यद्द्वारि मत्तेभसमूहकोटयः । तद्द्वारपालाय नमो नमो नमः स शाङ्करद्वारविचारसागरः ॥ १०॥ न शाम्भवानामशुभं कदाचित् ते शोभनानां सदनं सुखानाम् । त एव धन्याः पृथिवीतलेऽस्मिन् मान्याः सुराणां च नरेश्वराणाम् ॥ ११॥ अस्माकं कृतपण्यसङ्घविभवेः अद्याधुना शङ्करे भक्तिः काचन सापि मेरुदसद्दृशं सूते धने निर्धनाः । स्मृत्वां तं सकृदप्यपारधनभूसौभाग्यवन्तस्ततः सन्तः केऽपि किलान्तकान्तकल सत्पादाम्बुजाराधकाः ॥ १२॥ सम्पूर्णकामं परमं प्रकामं निर्दग्धकामं गिरिजार्धवामम् । धृतार्धसोमं समवामसोमं देवोत्तमं दैवतसार्वभौमम् ॥ १३॥ कृतं किमपि यत्पुरा शिवपदाम्बुजाराधनं तदेतदधुना सुखं किमपि साधु सूते मुहुः । इदे न सुरधेनुभिः न मणिनाऽपि कल्पद्रुमैः सुधानिधिनिमज्जनैः अपि तु केवलं ते नमः ॥ १४॥ ॥ इति शिवरहस्यान्तर्गते नारायणकृतं शिवस्तवः सम्पूर्णः ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः १२। १००-११३ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 12. 100-113 .. Proofread by Ruma Dewan
% Text title            : Narayanakritam Shiva Stava
% File name             : shivastavaHnArAyaNakRRitaH.itx
% itxtitle              : shivastavaH nArAyaNakRitam (shivarahasyAntargataH)
% engtitle              : shivastavaH nArAyaNakRitam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 12| 100-113 ||
% Indexextra            : (Scan)
% Latest update         : May 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org