नारायणकृतं शिवस्तवः
तारकासुरसन्त्रासदावानलसमावृताः ।
शिवनामसुधासारैः शीतलाः स्मः किलाधुना ॥ १॥
कथ स्मृतो महादेवः संसाराग्निविनाशकः ।
अकस्मादधुना दीनान् अस्मान् पालयितुं परम् ॥ २॥
स कृपालुर्नीलकण्ठः सर्वकण्टकनाशकः ।
करोति मङ्गलं नित्यं क्षणार्धेनापि वा स्मृतः ॥ ३॥
प्रतिक्षणं महादेवचरणस्मरणादराः ।
हाराः परमुदारास्ते न संसारभयातुरः ॥ ४॥
त एव धन्या मान्याश्च धरणीमण्डले मुहुः ।
ये स्मरन्ति महादेवमुमाऽऽलिङ्गितविग्रहम् ॥ ५॥
अहो महदिदं भाग्यं सौभाग्यनिधिरेव नः ।
गौरीधवोऽधुना साधु धारारूपेण संस्मृतः ॥ ६॥
महादेवपदाम्भोजभृङ्गमङ्गं सुमङ्गलम् ।
तनूत्तमाङ्गमुत्तङ्गं मुहुः तत्प्रणतं मुदा ॥ ७॥
हरं परात्परतरं तं महानन्दसागरम् ।
स्मृत्वा नत्वाऽपि दृष्ट्वा वा परमानन्दतां ययुः ॥ ८॥
ये ये कृतार्थास्ते सर्वे सर्वदा सर्वमिद्धिदम् ।
शरण्यं शरणं प्राप्ताः प्राप्तैश्वर्यमहोत्सवाः ॥ ९॥
यद्द्वारगाः तुङ्गतुरङ्गकोटयो यद्द्वारि मत्तेभसमूहकोटयः ।
तद्द्वारपालाय नमो नमो नमः स शाङ्करद्वारविचारसागरः ॥ १०॥
न शाम्भवानामशुभं कदाचित् ते शोभनानां सदनं सुखानाम् ।
त एव धन्याः पृथिवीतलेऽस्मिन् मान्याः सुराणां च नरेश्वराणाम् ॥ ११॥
अस्माकं कृतपण्यसङ्घविभवेः अद्याधुना शङ्करे
भक्तिः काचन सापि मेरुदसद्दृशं सूते धने निर्धनाः ।
स्मृत्वां तं सकृदप्यपारधनभूसौभाग्यवन्तस्ततः
सन्तः केऽपि किलान्तकान्तकल सत्पादाम्बुजाराधकाः ॥ १२॥
सम्पूर्णकामं परमं प्रकामं निर्दग्धकामं गिरिजार्धवामम् ।
धृतार्धसोमं समवामसोमं देवोत्तमं दैवतसार्वभौमम् ॥ १३॥
कृतं किमपि यत्पुरा शिवपदाम्बुजाराधनं
तदेतदधुना सुखं किमपि साधु सूते मुहुः ।
इदे न सुरधेनुभिः न मणिनाऽपि कल्पद्रुमैः
सुधानिधिनिमज्जनैः अपि तु केवलं ते नमः ॥ १४॥
॥ इति शिवरहस्यान्तर्गते नारायणकृतं शिवस्तवः सम्पूर्णः ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः १२। १००-११३ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 12. 100-113 ..
Proofread by Ruma Dewan