देवैः कृतं शिवस्तोत्रम्
(सौरपुराणे ४५-अध्यायान्तर्गतम्)
देवा ऊचुः-
य एष भगवान्रुद्रो ब्रह्मा विष्णुर्महेश्वरः ॥ २१॥
स्कन्दश्चाग्निस्तथा चन्द्रो भुवनानि चतुर्दश ।
भूतानि च तथा सूर्यः सोमाद्यष्टौ ग्रहास्तथा ॥ २२॥
प्राणः कालो यमो मृत्युरमृतं परमेश्वरः ।
भूतं भव्यं भविष्यं च वर्तमानं महेश्वरः ॥ २३॥
विश्वं कृत्स्नं जगत्सर्व सत्यं तस्मै नमो नमः ।
ओमादौ च तथा मध्ये भूर्भुवः स्वस्तथैव च ॥ २४॥
अन्ते त्वं विश्वरूपोऽसि शीर्षं च जगतः सदा ।
ब्रह्मैकस्त्वं द्वित्रिधोर्ध्वमधस्तत्त्वं सुरेश्वरः ॥ २५॥
शान्तिश्च त्वं तथा पुष्टिस्तुष्टिश्चाप्यहुतं हुतम् ।
विश्वं चैव तथाऽविश्वं दत्तं चादत्तमीश्वरः ॥ २६॥
ऋतं वाऽप्यथवा देव परमप्यपरं ध्रुवम् ।
परायणं सतां चैव असतामपि शङ्कर ॥ २७॥
अपाम सोगमभृता अभूमागन्म ज्योतिरविदाम देवान् ।
किं नूनमस्मान्कृणवदरातिः किमु धूर्तिरमृत मर्त्यस्य ॥
एतज्जगद्वेदितव्यमक्षरं सूक्ष्ममव्ययम् ।
प्राजापत्यं पवित्रं वा सौम्यमग्राह्यमग्रियम् ॥ २९॥
आग्नेयेनापि चाऽऽग्नेयं वायव्येन समीरणम् ।
सौम्येन सौम्यं ग्रसते तेजसा स्वेन लीलया ॥ ३०॥
तस्मै नमोऽपसंहर्त्रे महाग्रासाय शूलिने ।
हृदिस्था देवताः सर्वा हृदि प्राणाः प्रतिष्ठिताः ॥ ३१॥
हृदि त्वमसि योनिस्त्वं तिस्रो मात्राः परस्तु सः ।
शिरश्चोत्तरतस्तस्य पादो दक्षिणतस्तथा ॥ ३२॥
स यो जीवोत्तरः साक्षात्स आकारः सनातनः ।
ओङ्कारो यः स वै देवः प्रणवो व्याप्य तिष्ठति ॥ ३३।
अनन्ततारः सूक्ष्मश्च शुक्लं वैद्युतमेव च ।
परब्रह्म स इशान एको रुद्रः स एव च ॥ ३४॥
भवान्महेश्वरः साक्षान्महादेवो न संशयः ।
ऊर्ध्वमुन्नामयत्येवं स ओङ्कारः प्रकीर्तितः ॥ ३५॥
प्राणान्नयति यत्तस्मात्प्रणवः परिभाषितः ।
सर्वं व्याप्नोति यत्तस्मात्सर्वव्यापी सनातनः ॥ ३६॥
ब्रह्मा हरिश्च भगवानाद्यन्तं नोपलब्धवान् ।
यथाऽन्ये च ततोऽनन्तो रुद्रः परमकारणम् ॥ ३७॥
यत्तारयति संसारात्तार इत्यभिधीयते ।
सूक्ष्मो भूत्वा शरीराणि सर्वदा ह्यधितिष्ठति ॥ ३८॥
तस्मात्सूक्ष्मः सदा ख्यातो भगवान्नीललोहितः ।
नीलश्च लोहितश्चैव प्रधानपुरुषान्वयात् ॥ ३९॥
स्कन्दतेऽस्य यतः शुक्रं ततः शुक्रमयीति च ।
विद्योतयति यत्तस्माद्वैद्युतं परिगीयते ॥ ४०॥
बृहत्त्वाद्बृंहणाद्ब्रह्म बृंहते च परापरस् ।
तस्माद्बृहति यत्तस्मात्परं ब्रह्मेति कीर्तितम् ॥ ४१॥
अद्वितीयोऽथ भगवांस्तुरीयः शिव ईशते (?) ।
ईशानमस्य जगतः स्वर्दृशं बभ्रुमीश्वरम् ॥ ४२॥
इशानमिन्द्र तस्थुषः सर्वेषामपि सर्वदा ॥
ईशानः सर्वविद्यानां यत्तदीशानमुच्यते ॥ ४३॥
यदीक्षते च भगवान्निरीक्षयति चान्यथा ।
आत्मज्ञानं महादेवो योगो भ्रमयति स्वयम् ॥ ४४॥
भगवांश्चोच्यते तेन देवदेवो महेश्वरः ।
सर्वाल्लोकान्क्रमेणैव वो गृह्णाति महेश्वरः ॥
विसृजत्येष देवेशो वासयत्यपि लीलया ॥ ४५॥
एष हि देवः प्रदिशो नु सर्वाः पूर्वो हि जातः स उ गर्भे अन्तः ।
स एव जातः स जनिष्यमाणः प्रत्यङ्जनास्तिष्ठति सर्वतोमुखः ॥ ४६॥
उपासितव्यं यत्नेन तदेतत्सद्भिरग्रियम् ।
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ॥ ४७॥
तदग्रहणमेवेह याद्वाग्वदति यत्नतः ।
अपरं च परं चेति पारायणमिति स्वयम् ॥ ४८॥
वदन्ति वाचः सर्वज्ञ शङ्करं नीललोहितम् ।
एष सर्वो नमस्तस्मै पुरुषः पिङ्गलः शिवः ॥ ४९॥
स एकः स महारुद्रो विश्वं भूतं भविष्यति ।
भुवनं बहुधा जातं जायमानमितस्ततः ॥ ५०॥
हिरण्यबाहुर्भगवान्हिरण्यमपि चेश्वरः ।
अम्बिकापतिरीशानो हेमरेता वृषध्वजः ॥ ५१॥
उमापतिर्विरूपाक्षो विश्वभुग्विश्वभावनः ।
ब्रह्माणं विदधे योऽसौ पुत्रमग्नेः सनातनम् ॥ ५२॥
प्रहिणोति स्म तस्मै च ज्ञानमात्मप्रकाशकम् ।
तमेकं पुरुषं रुद्रं पुरुहूतं पुरुष्टुतम् ॥ ५३॥
वालाग्रमात्रं हृदयस्य मध्ये विश्वदेवं वह्निरूपं वरेण्यम् ।
तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम् ॥ ५४॥
महतोऽपि महीयान्स अणोरप्यणुरव्ययः ।
गुहायां निहितश्चात्मा जन्तोरस्य महेश्वरः ॥ ५५॥
इति देवैः कृतं शिवस्तोत्रं सम्पूर्णम् ।
Encoded and proofread by PSA Easwaran