श्रीशिवस्तोत्रम्
ॐ श्रीगणेशाय नमः ।
श्रीमद्वस्तु समस्तं व्याघ्याकाशं निदानमानन्दम् ।
उपशमतः शिवमेकं सततं हृद्येव भावयेऽनन्तम् ॥ १॥
सदसद्रूपां मायां सच्चित्तुलितां समस्तजनयित्रीम् ।
देवात्मशक्तिमेकां सदयामुदयाय चिन्तयाम्यनिशम् ॥ २॥
यदपो बीजं सृष्टा स्त्रीपुंसाभ्यां विराजमसृजदिदम् ।
सदसद्रूपं दैवं परमवलम्बे हृदम्बुजोल्लासि ॥ ३॥
यन्मरणं हन्ति नृणां भक्तानामन्तरात्मपाशमयम् ।
तदमृतमवलम्बेऽहं दहरगतं ज्योतिषां ज्योतिः ॥ ४॥
धर्मार्थकाममोक्षाश्चत्वारो हन्त सन्ति पुरुषार्थाः ।
तद्विज्ञानं सरसं कृत्यामस्यां स्त्रियामिवोल्लसति ॥ ५॥
पश्यामि शास्त्रवार्धिं तदिदं कृतिसर्षपान्तरुल्लसितम् ।
कुक्षिस्थसर्वलोकं भगवन्तं मानसान्तरुदितमिव ॥ ६॥
सोऽकारो वर्णानामादिर्भगवान् जगन्मूलम् ।
अहमिति यद्वन्मूलं करणज्ञानस्य नित्यमनुभूतम् ॥ ७॥
विद्वत्तया फलं किं विस्मर्तुः सच्चिदङ्घ्रिपद्मनतिम् ।
यद्वन्मर्त्यजनोः किं हृदि मन्तव्यं विहातुरात्मानम् ॥ ८॥
हृन्नीरजस्थसच्छ्रीपदसेवी भुवि चिरं समेघेत ।
योगीश्वरः सुषुम्नासुषिरालम्बं लसेदथाकल्पम् ॥ ९॥
इष्टानिष्टसुदूरश्रीपदभाजां न जातु भुवि कष्टम् ।
प्राणापाननिरोधज्योतिर्नाड्यां यथैव निरतानाम् ॥ १०॥
न तमो न पुण्यपापे सद्धनवच्छलोकपरसमीपेऽपि ।
प्रत्यग्ज्योतिर्दहरे यद्वच्चिन्ता न नापि सुखदुःखे ॥ ११॥
आत्मानुपमाङ्घ्रिनतादन्यैः शक्या न हातुमात्मार्तिः ।
अन्तर्ज्योतिःस्फुरणादितरैर्यद्वत् तमो न वारयितुम् ॥ १२॥
योऽतीन्द्रियानलीकव्यवसितिपथिगश्चिरं स वर्धेत ।
अन्तर्धमनीरन्ध्राध्वन्यो यद्वत् कदापि न व्यथते ॥ १३॥
अष्टगुणाङ्घ्रेरनतं न शिरोगुणवन्निरार्तिकरणयुतम् ।
स्वात्मानुकूलकृत्ये विमुखं यद्वन्मनोऽपि न विवेकि ॥ १४॥
धर्माब्धिदेवचरणप्रणतान्नान्यैर्भवाब्धिरुत्तार्यः ।
चिन्तावार्धिस्तार्यो न यथा मनसो निरोधनादितरैः ॥ १५॥
प्रतरन्ति जन्मजलधिं न तरन्तीशाङ्घ्रिसेवकेभ्योऽन्ये ।
देहादिवासनाब्धि यद्वद्यमिनो यथातथान्ये न ॥ १६॥
इति परमेश्वरयोगिन् विरचितं श्रीशिवस्तोत्रं सम्पूर्णम् ।
(Appears to be a composition of
Parameshvarayogin, the author of KShamAstotra).
Proofread by