श्रीशिवस्तोत्रम्
नित्यानन्दश्चिदात्मा गुणरहितपराकाशरूपो विशुद्धः
सर्वत्राद्वैतरूपो निजनिरतिशयात्पूर्णरूपः प्रशान्तः ।
माया तत्कार्यहीनो निरवधिरभितो निस्तरङ्गो महाब्धिः
सत्यं सत्यस्य यद्वै श्रुतिषु निगदितं केवलं तच्छिवोऽहम् ॥ १॥
विश्वं नेति प्रमाणाद्विगलित जगदाकारभानात्स्वपूर्णः
सम्यक्यच्चिद्घनैकामृतसुखकवलास्वादपूर्णो विवेकी ।
निर्द्वन्द्वो नित्यमुक्तो विगलितममताहङ्कृतिर्नित्यतृप्तः
आस्ते यद्ब्रह्ममात्रं श्रुतिषु निगदित केवलं तच्छिवोऽहम् ॥ २॥
आदौ मध्ये तथान्ते जनिमृतिफलदं कर्ममूलं विशालं
छित्वा संसारवृक्षं निजनिरतिषयासङ्गशस्रेण पूर्णम् ।
भासा यस्यैव सर्वं भसितमतिरुचा भासकं भासकानां
जीवो ब्रह्मैव यत्स्याच्छ्रुतिषु निगदितं केवलं तच्छिवोऽहम् ॥ ३॥
ज्ञात्वा निःसारमेवं जगदखिलमिदं भ्रान्तिमोहप्रदं यत्
त्यक्त्वा भोगैकवाञ्छां विरतियुत इतो मन्यते यद्धिसौख्यम् ।
आमृत्योर्ब्रह्मलोकं शतशतगुणितं तारतम्येन भातं
यस्मिन्नल्पं यदेवं श्रुतिषु निगदितं केवलं तच्छिवोऽहम् ॥ ४॥
मृत्योराप्नोति मृत्युं स इह जगदिदं यस्तु नानेव पश्येत्
उक्त्वा यत्पूर्णरूपं श्रुति शिरसिमतं नेह नानास्ति वाचा ।
आप्तोक्त्या भाति यद्वद्व्यपगतफणिनी रज्जुरेका भ्रमान्ते
तद्वद्ब्रह्मैव यत्स्यच्छ्रुतिषु निगदितं केवलं तच्छिवोऽहम् ॥ ५॥
इति श्रीमत् परमहंस परिव्राजकाचार्य सद्गुरु भगवता
श्रीधरस्वामिना विरचितं श्रीशिवस्तोत्रं सम्पूर्णम् ।
(रचनाकाल - आषाढ शुक्ल १३, शके १८६७)
Proofread by Paresh Panditrao