शिवस्तुतिः अथवा शिवस्तवराजः
धरापोऽग्निर्मरुद्व्योममखेशेन्द्वर्कमूर्तये ।
सर्व भूतान्तरस्थाय शङ्कराय नमो नमः ॥ १॥
श्रुत्यन्तः कृतवासाय श्रुतये श्रुतिजन्मने ।
अतीन्द्रियाय महसे शाश्वताय नमो नमः ॥ २॥
स्थूलसूक्ष्मविभागाभ्यामनिर्देश्याय शम्भवे ।
भवाय भवसम्भूत दुःखहन्त्रे नमोऽस्तुते ॥ ३॥
तर्कमार्गातिदूराय तपसां फलदायिने ।
चतुर्वर्गवदन्याय सर्वज्ञाय नमो नमः ॥ ४॥
आदिमध्यान्तशून्याय निरस्ताशेषभीतये ।
योगिध्येयाय महते निर्गुणाय नमो नमः ॥ ५॥
विश्वात्मने विचिन्त्याय विलसच्चन्द्रमौलिने ।
कन्दर्पदर्पकालाय कालहन्त्रे नमो नमः ॥ ६॥
विषाशनाय विहरद् वृषस्कन्दमुपेयुषे ।
सरिद्दामसमाबद्धकपर्दाय नमो नमः ॥ ७॥
शुद्धाय शुद्धभावाय शुद्धानामन्तरात्मने ।
पुरान्तकाय पूर्णाय पुण्यनाम्ने नमो नमः ॥ ८॥
भक्ताय निजभक्तानां भुक्तिमुक्तिप्रदायिने ।
विवाससे विवासाय विश्वेशाय नमो नमः ॥ ९॥
त्रिमूर्तिमूलभूताय त्रिणेत्राय नमो नमः ।
त्रिधाम्नां धामरूपाय जन्मघ्नाय नमो नमः ॥ १०॥
देवासुरशिरोरत्न किरणारुणिताङ्घ्रये ।
कान्ताय निजकान्तायै दत्तार्धायै नमो नमः ॥ ११॥
स्तोत्रेणानेन पूजायां प्रीणयेज्जगतः पतिम् ।
भुक्तिमुक्तिप्रदं भक्त्या सर्वज्ञं परमेश्वरम् ॥ १२॥
तस्यासाध्यं त्रिभुवने न किञ्चिदपि वर्तते ।
ऐहिकं किं फलं तत्र मुक्तिरेव करेस्थिता ॥ १३॥
इति श्रीमहामहेश्वराचार्य श्रीलक्ष्मणदेशिकेन्द्रेण विरचिता
शिवस्तुतिः (अथवा शिवस्तवराजः) समाप्ता ।
Encoded and proofread by Parameshwar Puttanmane poornapathi at gmail.com