श्रीशिवस्तुतिः १५
(इयं स्तुतिः शिवविष्णुब्रह्मबुद्धपरा, अनन्वितपदार्था च भवति)
त्रैलोक्यं सकलं त्रिकालविषयं सालोकमालोकितं
साक्षाद्येन यथास्वयं करतले रेखात्रयं साङ्गुले ।
रागद्वेषभयप्रियान्तकजरालोलत्वलोभादयो
नालं यत्पदलङ्घनाय स महादेवो मया वन्द्यते ॥ १॥
दग्धं येन पुरत्रयं शरभुवा तीव्रार्चिषा वह्निना
योऽपानृत्यति मत्तवत् पितृवने यस्यात्मजो वा गुहः ।
सोऽयं किं मम शङ्करो भयतृषारोषार्तिमोहक्षयं
कृत्वा यः स तु सर्ववित्तनुभृतां क्षेमङ्करः शङ्करः ? ॥ २॥
यत्नाद्येन विदारितं कररुहैर्दैत्येन्द्रवक्षस्स्थलं
सारथ्येन धनञ्जयस्य समरे योऽमारयत्कौरवान् ।
नासौ विष्णुरनेककालविषयं यज्ज्ञानमव्याहतं
विश्वं व्याप्य विजृम्भते स च महाविष्णुर्विशिष्टो मम ॥ ३॥
यो जग्ध्वा पिशितं समत्स्यकबलं जीवन्ती शून्यं पदं (?)
कर्ता कर्मफलं न भुङ्क्त इति यो वक्ता स बुद्धः कथम् ।
यज्ज्ञानं क्षणवर्तिं वस्तु सकलं ज्ञातुं न शक्तं सदा
यो जानन् युगपज्जगत्त्रयमिदं साक्षात्स बुद्धो मम ॥ ४॥
पूर्वस्यामुदपादि रागबहुलं चेतो यदीयं पुनः
पात्रं दण्डकमण्डलुप्रभृतयो यस्याकृतार्था स्थितिम् ।
आविर्भावयुतं भवन्ति स कथं ब्रह्मा भवेन्मादृशं
क्षुत्तृष्णाश्रमरागरोषरहितो ब्रह्मा कृतार्थोऽस्तु नः ॥ ५॥
ब्रह्मा चर्माक्षसूत्रीसुरयुवतिरसावेशविभ्रान्तचेताः
शम्भुः खट्वाङ्गधारी गिरिपतितनयापाङ्गलीलानुबद्धः ।
विष्णुश्चक्राधिपः सन् दुहितरमगमद्गोपनाथस्य मोहा-
दस्मिन् विध्वस्तरागो जितभयमरणः कोऽयमेष्वाप्तनाथः ॥ ६॥
यो विश्वं वेद वेद्या जनभजलनिधेर्भङ्गिनः पारदृश्वा (?)
पौर्वापर्याविरुद्धं वचनमनुपमं निष्कलङ्कं यदीयम् ।
तं वन्दे साधु वन्धं सकलगुणनिधिं ध्वस्तदोषं द्विषन्तो
बुद्धं वा वर्धमानं शतदलनिलयं केशवं वा शिवं वा ॥ ७॥
ईशः किं छिन्नलिङ्गो यदि विगतभयः शूलपाणिः कथं स्यात्
नाथः किं भैक्षचारी यतिरिति स कथं सङ्गनः सात्मजश्च ।
आद्राजः किं त्वजन्मा सकलविदिति किं वेत्ति नात्मान्तरायं
सङ्क्षेपात्सम्यगुक्तं पशुपतिमपशुः कोऽत्र धीमानुपास्ते ॥ ८॥
नाहङ्कारवशीकृतेन मनसा न द्वेषिणा केवलं
नैरात्म्यं प्रतिपद्य नश्यति जने कारुण्यबुद्ध्या मया ।
राज्ञः श्रीहिमशीतलस्य सदसि प्रायो विदग्धात्मनो
बौद्धौघान् सकलान् विजित्य सघटः पादेन विस्फाटितः ॥ ९॥
॥ इति श्रीशिवस्तुतिः सम्पूर्णा ॥
Proofread by Aruna Narayanan