दक्षकृता शिवस्तुतिः
दक्ष उवाच ।
नमामि शङ्करं साक्षाद्यदाधारमिदं जगत् ।
कालरूपं यथाकालं बोधयामास तं शिवम् ॥ १॥
कालेन फलमूलानि जायतेऽन्नादिकानि च ।
शीतोष्णसमभावश्च सदा कालेन जायते ॥ २॥
सूर्यस्तपति कालेन ज्योतिषां गण एव च ।
कालेन जायते वृष्टिरनावृष्टिस्तथा विभो ॥ ३॥
कालेन मृज्यते सृष्टिब्रह्मणा वै पुनः पुनः ।
कालन पालनं तत्र कुरुने विष्णुरव्ययः ॥ ४॥
कालेन स्वेच्छया शम्भुः संहारं प्रकरोति च ।
यत्किचिदिह तत्सर्वं कालाधीनं न संशयः ॥ ५॥
स एव कालो भगवानीश्वरो ब्रह्मसंज्ञितः ।
शिवः साक्षाच्च वेदेषु कथ्यते वेदवादिभिः ॥ ६॥
क्षमस्व मेऽपराधं त्वं त्वन्मायागर्वितस्य च ।
यत्कृतं तद्दयासिन्धो नमस्ते परमेश्वर ॥ ७॥
सगुणाय नमस्तुभ्यं निर्गुणाय नमो नमः ।
सृष्टिकर्त्रे च संहर्त्रे पात्रे नानास्वरूपिणे ॥ ८॥
अनन्तगुणराशिस्त्वं वर्णनीयं किमप्यहो ।
नान्तं ब्रह्मादयो जग्मुर्मादृशानां च का कथा ॥ ९॥
नमो नमो ब्रह्ममयाय देवादये शिवायाथ च पूर्णमूर्ते ।
अनादिमध्यान्तविहीनभूम्ने नमो नमो भक्तभयापहन्त्रे ॥ १०॥
इति श्रीमुद्गलपुराणे प्रथमे खण्डे वक्रतुण्डचरिते
चतुर्थाध्यायान्तर्गता दक्षकृता शिवस्तुतिः समाप्ता ॥ १.४
- ॥ मुद्गलपुराणं प्रथमः खण्डः । अध्यायः ४ । १.४ ९१-१००॥
- .. mudgalapurANaM prathamaH khaNDaH . adhyAyaH 4 . 1.4 91-100..
Proofread by PSA Easwaran