देवाः एवं नन्दिकेश विरचिता शिवस्तुतिः
देवाः -
जगदुद्भवनाशसंस्थितिप्रलयापारगभीरसागरम् ।
भगवंस्तव भक्तिभावना परपारं समुनर्तुमिच्छवः ॥ ८॥
कनिष्ठं वरिष्ठं तथा ज्येष्ठमीशं
गरिष्ठं वसिष्ठादिसम्पूजिताङ्घ्रिम् ।
विशिष्टं सुगणां विशिष्टेषु पूज्यं
नताः स्मो नताः स्मो नताः स्मो नताः स्मः ॥ ९॥
नन्दिकेशः -
शम्भो चन्द्रललाम सोम भगवन् विश्वेश विश्वाधिक
ब्रध्नेन्दुस्फुरदाश्रयाशनयनापारव्यथं संहर ।
श्रीमृत्युञ्जय वेदवेद्य भवतः पादारविन्दं सदा
ध्यायं ध्यायमघं हरामि सततं त्वल्लिङ्गसम्पूजनात् ॥ १२॥
पायं ज्ञानमपायपानरहितो ध्यायं त्वदीयं पदं
हायं दुःखमशेषसंसृतिभवं त्वद्भक्तसंसेवनात् ।
त्वत्तोऽन्यामरपूजनं च भगवन् नायं ह्युपायक्रमः
कायं प्राप्य विमुक्तये हि यतते भूयस्त्वया प्रेरितः ॥ १३॥
॥ इति शिवरहस्यान्तर्गते देवाः एवं नन्दिकेश विरचिता शिवस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः ८। ८-१३॥
- .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 8. 8-13..
Notes:
The shlokas numbers have been maintained per the source text.
Proofread by Ruma Dewan