देवीकृता शिवस्तुतिः
श्रीशङ्कर प्रियकरामल वेदगीत
विष्ण्वब्जजार्चित महाजनिमेश्वर (महामहिमेहश्वर) त्वम् ।
पाहीश मामकधिया शशिखण्डमौले
भक्तां त्वनन्यकरुणारसवीक्षणेन ॥ ३॥
हे शङ्कर स्मरहरान्धकसूदनेश
विश्वेशभर्ग भगनेत्रनिपातनाद्य (भगनेत्रनिषाटनेश) ।
पाहीश मामकधिया शशिखण्डमौले
भक्तां त्वनन्यकरुणारसवीक्षणेन ॥ ४॥
गङ्गाधर प्रमथनाथ पिनाकपाणे
मार्तण्डनन्दन हराव्यय दीनबन्धो ।
पाहीश मामकधिया शशिखण्डमौले
भक्तां त्वनन्यकरुणारसवीक्षणेन ॥ ५॥
षड्वक्त्र सिन्धुरवरानननन्दितेन्दु-
नेत्रोरुलोकन महेश्वर दक्षशिक्ष ।
पाहीश मामकधिया शशिखण्डमौले
भक्तां त्वनन्यकरुणारसवीक्षणेन ॥ ६॥
॥ इति शिवरहस्यान्तर्गते भवाख्ये देवीकृता शिवस्तुतिः ॥
- ॥ श्रीशिवरहस्यम् । भवाख्यः द्वितीयांशः । अध्यायः ७ । ३-६॥
- .. shrIshivarahasyam . bhavAkhyaH dvitIyAMshaH . adhyAyaH 7 . 3-6..
Proofread by Ruma Dewan