देवैः कृता शिवस्तुतिः
देवाः -
कुन्दामन्दमरन्दसौभगमहामन्दारसन्मालिका-
लोलोत्तुङ्गतरङ्गरङ्गितमहागङ्गाम्बुजोत्कैरवम् ।
पर्वानन्दितशर्वरीरमणतोतुङ्गाङ्गमौलिं शिवं
ध्यायामोऽद्य महाघसंसृतिभवं दुःखं विहायादरात् ॥ १६॥
आरक्तसुन्दरतरैः कुरुविन्दबृन्दरक्तारविन्दमकरन्दपरागमौलिम् ।
बृन्दारवन्दितपदाम्बुरुहं महेशं सुन्दोपसुन्दवरदं जगदादिकन्दम् ॥ १७॥
मूर्धोर्द्धं मधुपालिझङ्कृतियुतं चञ्चज्जटानिर्झरं
शैलान्निर्झरसारिणीव भवतो दृष्टिर्भवाम्भोझरी ।
उद्यद्रागमलीमसाञ्झटिति नो नोज्झन्ति पादौ हृदि
ते धन्यास्सजलञ्झलौ स भगवान्भूयाच्छ्रियै सर्वशः ॥ १८॥
सूतः -
एवं स्तुवन्ति ते देवा मेरुमौलिस्थितं शिवम् ।
गन्धर्वाप्सरसस्सिद्धा मुनयो वीतकल्मषाः ॥ १९॥
कैलासेऽत्र महादेवस्सन्निधत्ते सदैव हि ।
देव्या मणिमये सौधे विहरत्येष शङ्करः ॥ २०॥
तद्विहारं शृणुष्वाद्य सर्वपापविनाशनम् ।
नानाचित्रविचित्राश्च क्रीडास्ताः परमेशितुः ॥ २१॥
देव्या सह सुरश्रेष्ठाः केन वा वर्ण्यते हि ताः ॥ २२॥
॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये देवैः कृता शिवस्तुतिः ॥
- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः २२ - शिवगौरीसंवादे कैलासलिङ्गवर्णनम् । १६-२२॥
- .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 22 - shivagaurIsaMvAde kailAsalingavarNanam . 16-22..
Notes:
Deva-s देवाः eulogize Śiva शिव and Sūta सूत outlines the merit of listening about the pastimes of Śiva शिव residing at the Peak of Mount Kailāsa मेरुमौलि (कैलासमौलि).
Encoded and proofread by Ruma Dewan