देवसङ्घकृता शिवस्तुतिः
कान्तं कारणकारणं करलसत्कल्याणभूभृद्धनुः
कर्पूराभकलेवरं क्रतुपतिं कारुण्यसाराकरम् ।
कामारातिमकामिनां सुकृतिनां कैवल्यदं कामदं
सम्प्राप्ताः शरणं कलानिधिकलाराजज्जटं शङ्करम् ॥ १॥
खद्योतेद्वग्निनेत्रं शतमखमुखखेचारखातोत्तमाङ्गं
खर्वं खर्वादखर्वं जगति तु विदिताद्वस्तुनो खर्वोऽपि ।
खण्डेनेन्दोः कपर्दे खचितमजमुखस्तुत्यमाखुप्रियेष्टं
खेदोत्खाताय प्राप्ता नखदलितककं खण्डिताखण्डलारिम् ॥ २॥
गोनेत्रं गोशयेड्यं गगनमयतनुं नित्यगोमौलिगम्यं
गोराशिं गोधिगोधिं सकलगुरुगुरं गोजगोपत्रगोपम् ।
गोवश्यं गोगुणाढ्यं गणगणसहितं गोधरेद्गासहायं
गोजाये गोजभूषं गलगिलितविषं गोभिराभिः स्तुमोऽद्यम् ॥ ३॥
घर्मान्ते दीर्घहस्ते घृणिभिरपघृणैः घर्मघृष्टैर्घनान्ते
वायोर्घैर्दीर्घदीर्घैरनिशमपघनं क्लेशयन्तो नघेन्द्राः ।
द्राधीयांसं तवाङ्घ्रिं घुसृणसमघृणिं कामघाति गृणामो
दीर्घाघ्रातान्यघौघान्यपि विमलधियः शीघ्रमेव त्यजामः ॥ ४॥
चारुस्मेरमुखं चराचरविभुं चापीभवद्भूधरं
चक्षुःश्रोत्रविभूषणं चलदृशां संश्लिष्टवामाङ्गकम् ।
चित्ते चीरवसं चिदात्मकतया सञ्चिन्त्यमानं चिरं
चेतोभूहरचक्षुषं चिरचितैः सञ्चिन्तयामः शिवम् ॥ ५॥
गच्छामो बहुबिल्वसंवृतवनं तत्राच्छकुण्डे पयः
स्नास्यामोऽद्य वसन्तसूरकिरणैः सन्तप्तगात्रा वयम् ।
रुद्राक्षैः शितभस्मपूरनिकरैरुद्धूलयामस्तनुं
यास्यामोऽद्य सुनिर्वृतिं शिव महादेवेति सङ्कीर्तनैः ॥ ६॥
॥ इति शिवरहस्यान्तर्गते देवसङ्घकृता शिवस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः ७। ५६-६१॥
- .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 7. 56-61..
Notes:
The shlokas have been renumbered for readers' convenience.
Proofread by Ruma Dewan