गोदावरीकृता शिवस्तुतिः
गोदावरी -
अनलानिलभास्करेन्दुवृत्रोद्धतदर्पघ्नमुरघ्नपद्मजान ।
मथनोत्पतितान्गरावधूनान्समरक्षत्तमुपास्महे महेशम् ॥ १॥
पद्मोत्पलानिलसखै कृतचारुनेत्रं कुबेरमित्रं हृतदक्षसत्रम् ।
गोत्रात्मजामित्रकपालपात्रं भजामि शम्भुं सुकुमारपुत्रम् ॥ २॥
मा चुक्रुधस्त्वं भगवन् महेश सुरैर्न चाह्वानमहं करोमि ।
इमं पशुं ते समुपाकरोमि पतिः पशूनामसि शङ्करोऽसि ॥ ३॥
नाद्यस्तथाऽऽद्योऽसि सुरासुराणां वैद्योऽसि संसाररुजां निहन्ता ।
अच्छेद्यभेद्योऽसि निरिन्द्रियोऽसि गद्यैस्तथा पद्मगणैः स्तुतोसि ॥ ४॥
॥ इति शिवरहस्यान्तर्गते गोदावरीकृता शिवस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः २२। ४३-४६॥
- .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 22. 43-46..
Notes:
Having sprung from the dreadlocks of Shiva for fulfilling the request of Rishi Gautama, Godavari eulogizes Shiva.
The shlokas have been renumbered for readers' convenience.
Proofread by Ruma Dewan