ज्ञानारिकृता शिवस्तुतिः
॥ श्रीगणेशाय नमः ॥
ज्ञानारिरुवाच ।
नमस्ते शङ्करायैव पार्वतीसहिताय ते ।
वृषध्वजाय शैलादिवाहनाय नमो नमः ॥ १७॥
अव्यक्तदेवाय च शिवाय शूलप्रधारिणे ।
निर्गुणाय गुणानां ते चालकाय नमो नमः ॥ १८॥
सदाशिवाय मायाया आधाराय नमो नमः ।
मायामोहविहीनाय शम्भवे ते नमो नमः ॥ १९॥
सृष्टेः कर्त्रे च पात्रे ते संहर्त्रे त्रिस्वरूपिणे ।
अनाथाय च सर्वेषां नाथाय परमात्मने ॥ २०॥
चराचरस्वरूपाय नमोऽचरचरात्मने ।
महादेवाय देवानां पतये ते नमो नमः ॥ २१॥
मनोवागतिरूपाय योगिध्येयाय ते नमः ।
योगिनां पतये चैव महेश्वर नमोऽस्तु ते ॥ २२॥
धन्यो वंशो मदीयोऽद्य येन दृष्टो महेश्वरः ।
तपो ज्ञानं पिता माता धन्या मे नाऽत्र संशयः ॥ २३॥
प्रसन्नोऽसि महेशान तदा देहि महाप्रभो ।
चराचरस्य वै राज्यं तस्मान् मृत्युर्न मे भवेत् ॥ २४॥
यद्यदिच्छामि देवेश तत्तत् सिद्ध्यतु सर्वदा ।
आरोग्यादि समायुक्तं मां कुरुष्व सदाशिव ॥ २५॥
तथेति शिव ऊचे तमन्तर्धानं चकार ह ।
स दैत्यो हर्षितोऽत्यन्तं स्वगृहं प्रत्यपद्यत ॥ २६॥
(फलश्रुतिः)
ज्ञानारिकृतमेतत्तु स्तोत्रं पठति यो नरः ।
शृणोति शङ्करस्तस्मै वाञ्छितं ददते परम् ॥ २७॥
इति ज्ञानारिकृता शिवस्तुतिः सम्पूर्णा ॥
- ॥ मुद्गलपुराणं तृतीयः खण्डः । अध्यायः ४४ । ३.४४। १७-२७॥
- .. mudgalapurANaM tRRitIyaH khaNDaH . adhyAyaH 44 . 3.44. 17-27..
Proofread by Yash Khasbage, Preeti Bhandare