कैलासकृता शिवस्तुतिः
भव शिव भगवन् पिनाकपाणे सुरवरकिन्नरमौलिशोभिताङ्घ्रे ।
निरवधिकरुणापयोधिराजच्छशिधामन् प्रणतोऽस्मि ते पदाब्जम् ॥ २५॥
गुणगणनन्दितनामरूपहीन त्रिगुणातीत जराविहीन शम्भो ।
हरिरुद्राब्जजसार्वभौम भूमन् स्तुतवेदोत्थितदेवजालमौले ॥ २६॥
शशिसूर्यानलशोभिताक्षिफाल स्फुरदुरुसोमकलाधर प्रसीद ।
स्फुरदुरु(जटाधारित)गाङ्गसत्कपर्द शम्भो मयि दृष्टिं वितराशु सप्रसादाम् ॥ २७॥
मुनिजनकुवलोत्थचन्द्रमौले दुरितापह पारतार धीर ।
दृशि शशिविहितेन चक्षुषा मां परिपाहीश दयाकटाक्षसारैः ॥ २८॥
सुरगणनुत वेदवेद्य शम्भो उरगेन्द्रामलहार नीलकण्ठ ।
अव शिव दयया ममैव मौलौ वसतिस्तेऽस्तु गणेन्द्रता ममाद्य ॥ २९॥
- -
भगवन्भव भूतनाथ शम्भो उरगेन्द्रामलहार पार्वतीश ।
परिपश्यामलचक्षुषा प्रसादैस्तव पादाब्जरजोत्थमौलयो नः ॥ ३६॥
तव सन्निधिरेव शोकहारी स्मृतिमात्रेण तवागता वयम् ।
वद किङ्करवाम देवदेव तव दृष्ट्या विवशेषु देहि चाज्ञाम् ॥ ३७॥
( वद किङ्करवाम देवदेव तव दृष्ट्या विततां विधेहि चाज्ञाम्)॥ ३७॥
- -
प्रालेयाचलकन्यकापरिलसद्वामार्धभागं सदा
ज्वालाजालयुतानलाक्षितिलकम्फाले त्रिपुण्ड्रोज्वलम् ।
लीलावीक्षितदग्धकामवपुषं कल्पद्रुमूले स्थितं
लीलाचालितलोकजालमनिशं कालान्तकं भावये ॥ ४४॥
त्रिशूलविलसत्करं तदपरेण बालादरं
कुरङ्गविलसत्करं कुमुदिनीशभूषामणिम् ।
नीलोद्दामतमालसन्निभगलं गङ्गाजलाप्लावितं
स्फारोत्कूटजटाकुटीरविलसत्सोमार्धचूडं सदा ॥ ४५॥
वन्देसुन्दरताण्डवादिचतुरं कैलासमौलिस्थितम् ॥ ४६॥
इलामिलन्मौलिरुवाच शम्भुं नमो नमस्ते गिरिशेति शैलः ।
(अपीन्दु मौलिं प्राहस्वमौळौ निवसेति शैलः) ।
स्वमौलिगापारमहोरुलिङ्गपालीषु च प्रीतियुतश्च भूयाः ॥ ४७॥
वेदोऽपि स्वयमाद्यमाह भगवन्रुद्रैर्नमोन्तैः पदैः
त्वत्सर्वात्मकतां गदत्यथ तरां भक्त्या परं त्वां सदा ।
त्वत्सान्निध्यबलेन मामपि विभो स्तोष्यन्नमस्यन्पुनः
मन्त्रैर्यत्र निषीदसीति च पुनर्धन्यो मदन्यो हि कः ॥ ४८॥
- -
ईश्वरः -
इत्थं कैलासशैलस्य श्रुत्वा वचनमम्बिके ।
तमब्रुवं महाशैलं कैलासं वरभूधरम् ॥ ४९॥
- -
शिवः -
कैलासशैल वरसानुगतोर्ध्वसौधलिङ्गावलीषु सततन्निवसामि कामम् ।
पापं हरामि सुतरां जनतादिलोकदुःखं च मुक्तिमथ भुक्तिमथो दिशामि ॥ ५०॥
॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलासकृता शिवस्तुतिः ॥
- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ४५ - कैलासवरप्रदानम् । वावृत्तश्लोकाः ॥
- .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 45 - kailAsavarapradAnam . vAvRRittashlokAH ..
Notes:
Īśvara ईश्वर narrates to Devī देवी; the eulogy to Śiva शिव recited by Kailāsa कैलास following which, Śiva शिव grants him a boon.
Encoded and proofread by Ruma Dewan