शिवस्तुतिः कुबेरकृता

शिवस्तुतिः कुबेरकृता

(सौरपुराणे ४७-अध्यायान्तर्गतम्) कुबेर उवाच- नमाम्यहं। देवमजं पुराणमुपेन्द्रवेधोमरराजजुष्टम् । शशाङ्कसूर्याग्निसमाननेत्रं वृषेन्द्रचिह्नं विलयादिहेतुम् ॥ ६३॥ सर्वेश्वरैकं त्रिदशैकबन्धुं ध्यानाधिगम्यं जगतोऽधिवासम् ॥ तं वाङ्मयाधारमनन्तशक्तिं ज्ञानार्णवं स्थैर्यगुणाकरं च ॥ ६४॥ पिनाकपाशाङ्कुशशूलहस्तं कपर्दिनं मेघसहस्रघोषम् । स्कालवूटं स्फटिकावभासं नमामि शम्भुं भुवनैकनाथम् ॥ ६५॥ कपालिनं मालिनमादिदेवं जटाधरं भीमभुजङ्गहारम् । प्रशासितारं च सहस्रमूर्तिं सहस्रशीर्षं पुरुषं वरिष्ठम् ॥ ६६॥ यमक्षरं निर्गुणमप्रमेयं तं ज्योतिरेकं प्रवदन्ति सन्तः । दूरङ्गमं वेदविदां च वन्द्यं सरवस्य हृत्स्थं परमं पवित्रम् ॥ ६७॥ तेजोनिधिं बालमृगाङ्गमौलिं नमामि रद्रं स्फुरदुग्रवक्त्रम् । कालेन्धनं कामदमस्तसङ्गं धर्मासनस्थं प्रकृतिद्वयस्थम् ॥ ६८॥ अतीन्द्रियं विश्वभुजं जितारिं गुणत्रयातीतमजं निरीहम् । मनोमयं वेदमयं च हंसं प्रजापतीशं पुरुहूतमिन्द्रम् ॥ ६९॥ अनाहतैकध्वनिरूपमाद्यं ध्यायन्ति यं योगविदो यतीन्द्राः । संसारपाशच्छिदुरं विमुक्त्यै पुनः पुनस्तं प्रणमामि नित्यम् ॥ ७०॥ न यस्य रूपं न बलप्रभावो न च स्वभावः परमस्य पुंसः । विज्ञायते विष्णुपितामहाद्यैस्तं वामदेवं प्रणमाम्यचिन्त्यम् ॥ ७१॥ शिवं समाराध्य यमुग्रमूर्ति पपौ समुद्रं भगवानगस्त्यः । लेभे दिलीपोऽप्यखिलां स चोर्वीं तं विश्वयोनिं शरणं प्रपद्ये ॥ ७२॥ सम्पूजयन्तो दिवि देवसङ्घा ब्रह्मेन्द्रमुख्या विविधांश्च कामान् । तं स्तैमि नौमीह जपामि शर्वं वन्देऽभिवन्द्यं शरणं प्रपद्ये ॥ ७३ स्तुत्वैवमीशं विरराम यावत्तावत्सहस्रार्कसमानतेजाः । ददौ स तस्मै वरदोऽन्धकारिर्वरत्रयं वैश्रवणाय देवः ॥ ७४॥ इति सौरपुराणे पऽचचत्वारिंशोऽध्यायान्तर्गता कुबेरकृता शिवस्तुतिः समाप्ता । Encoded and proofread by PSA Easwaran
% Text title            : Shiva Stuti Kuberakrita
% File name             : shivastutiHkuberakRRitA.itx
% itxtitle              : shivastutiH kuberakRitA (saurapurNAntargatA)
% engtitle              : shivastutiH kuberakRitA
% Category              : shiva, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : PSA Easwaran
% Proofread by          : PSA Easwaran
% Description/comments  : From Saurapurana
% Indexextra            : (Scan)
% Latest update         : December 11, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org