नारदकृताशिवस्तुतिः एवं शिवप्राकट्य
शिव शिव भव हर देवशासन नगशर पाहि दयाकटाक्षसारैः ।
भव भवजनितां रुजं हराशु प्रमथाधीश्वर वीर धीर पाहि ॥ ३५॥
शिव शिव दहनाब्जमित्रसोमप्रकटविलोचन कृत्तिवास शम्भो ।
तव शिव कृपया स्मरान्धकारे भव भवशमनाद्भयं न चैव ॥ ३६॥
हरगिरिसुतया सदोपकण्ठ प्रबलगराशन नीलनीलकण्ठ ।
हृदिभवयमिनां किलोपकण्ठ प्रथितमहोरगभोगशोभिकण्ठ ॥ ३७॥
हर हर शमनैकभीतिजातं हर हर भवजातघोरदुःखम् ।
हर हर पापमपाकुरुष्व शम्भो हर हर मुरजित्सुपूजिताङ्घ्रे ॥ ३८॥
शम्भो शङ्कर चन्द्रशेखर दयासारामराधीश्वर
पापापारजलाब्धिशोषणमहाबाडव्यवह्ने शिव ।
कान्तार्धाकृतिशोभिताङ्ग कमलाकान्ताक्षिपूज्याङ्घ्रिक
विश्वेशानविधिप्रचण्डशिरसालग्नप्रयाणे हर ॥ ३९॥
शूलप्रोत्थितदक्षवक्षहरण त्र्यक्षामराधीश्वर
पाहीमञ्जनमर्भकं तव विभो भावैकलभ्यप्रभो ।
गानं ते शृणु नारदस्य हि मुखाद्वीणाक्वणन्मञ्जुलम्
(गानं संशृणु देव नारदमुखाद्वीणाक्वणन्मञ्जुलम्)
भो भो देववर प्रसीद भगवन्दृष्टिं कृपायाः कुरु ॥ ४०॥
- -
गानान्ते नारदमुखाद्वीणाक्वणनमञ्जुलम् ।
श्रुत्वैवं नन्दिकेशाद्या गणाश्शभोर्महात्मनः ॥ ४१॥
व्यजिज्ञिपंस्तेदेवाय शङ्कराय महात्मने ।
प्रणम्प नन्दिकेशोऽपि पिधायास्यं करेण वे ॥
उवाच देवं वरदं प्रसन्नास्यं त्रिलोचनम् ॥
- -
नन्दिकेश्वरः -
शम्भो शङ्कर धूर्जेटे त्रिणयनापारव्यथां संहर
पारावारमहाप्रभाव जगतां व्यापारसारादर ।
त्वन्नामामृतधारया जगदिदं प्राप्तस्तवेशान्तिकम्
सम्भाव्य प्रमथाधिनाथ पदवीं द्रष्टुं पदाब्जं तव ॥ ४३॥
द्वारे तिष्ठति वारितस्सहि मया किञ्चाज्ञयाशुप्रभो
देवाज्ञावसरेण तं गमयितुं दिव्यं मुनिं नारदम् ।
त्वत्पादाम्बुजलोलमिष्टमनसं सर्वैर्विशिष्टान्तरम्
भक्तिज्ञानविरक्तिशालिसुखितः पादो दिदृक्षुः प्रभो ॥ ४४॥
(भक्तिज्ञानपुरस्कृतस्तवपदद्वन्द्वावलोकोत्सुकः) ॥ ४४॥
- -
नन्दिकेशवचश्श्रुत्वा कटाक्षाग्रेण शङ्करः ।
संज्ञां चक्रेऽखिलेश्ञानो नारदागमनं प्रति ॥ ४५॥
नारदोऽपि च देवेशं नता तुष्टाव हिर्षितः ।
शिपिविष्टं महादेवमष्टाकृतिमनोहरः ॥ ४६॥
- -
नारदः -
जय जय देव महेश धूर्जटे जयजय विश्वविधान दक्षशिक्ष ।
जय जय विश्रुतवेदगीतकीर्ते जय जय भक्तजनार्पितैकभुक्ते ॥ ४७॥
जय जय भगवंस्तपःक्रियाणां फलदानोन्मुख पञ्चवक्त्र शम्भो ।
तव शिव भगवन्पदाब्जयुग्ममभिपूज्य स्वहृदा तपैकराशिः ॥ ४८॥
- -
मुनिरास्ते हिमवन्नगोर्ध्वमौलौ तव दिव्यामृतदेहलोकतैकतर्षः ।
इत्थं नारदवाक्येन जातहर्षो महेश्वरः ।
जैगीषव्यं ययो द्रष्टुं नानागणवरैर्वृतः ॥ ४९॥
- -
आरुह्य शाक्करं दिव्यं नानालङ्कारभूषितम् ।
नानागणमुखोद्गीतवाद्यवृन्दकृतारवम् ॥ ५०॥
छत्रचामरहस्तैश्च पताकाविधृतैर्गणैः ।
उमया स्कन्दहेरम्बनन्दिभृङ्गिगणावृतः ॥ ५१॥
क्षणेन हिमवन्मौलिमाजगाम महेश्वरः ।
मुनिभिर्गणमुख्यैश्च मन्दस्मितमनोहरः ॥ ५२॥
उद्यच्छाङ्कधवलधावल्याङ्कसमप्रभः ।
गङ्गातुङ्गतरङ्गौघमौलिद्युतिविराजितः ॥ ५३॥
- -
दृष्टा तं मुनिमेकाग्रमानस स महेश्वरः ।
दयाकटाक्षामृतसिन्धुवर्षैर्वल्मीकभूतम्मुनिमाववर्ष ।
स चोत्थितो देववरं प्रणम्य तुष्टाव चाष्टाकृतिमप्रमेयम् ॥ ५४॥
- -
॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये नारदकृताशिवस्तुतिः एवं शिवप्राकट्य ॥
- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ५ - जैगीषव्यप्रसादकरणम् । ३५-५४॥
- .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 5 - jaigIShavyaprasAdakaraNam . 35-54..
Notes:
Muni Nārada मुनि नारद eulogizes Śiva शिव, wishing to see Him. Śiva शिव; being apprised of the same by Nandikeśvara नन्दिकेश्वर, manifests His Divine Appearance mounted on Nandi नन्दि and accompanied by Umā उमा, Heramba हेरम्ब, Skanda स्कन्द and His gaṇa-s गणाः .
Encoded and proofread by Ruma Dewan