शिवस्तुतिः
परशुराम उवाच -
नमस्ते देवदेवाय शङ्करायादिमूर्त्तये ।
नमः शर्वाय शान्ताय शाश्वताय नमोनमः ॥ १॥
नमस्ते नीलकण्ठाय नीललोहितमूर्त्तये ।
नमस्ते भूतनाथाय भूतवासाय ते नमः ॥ २॥
व्यक्ताव्यक्तस्वरूपाय महादेवाय मीढुषे ।
शिवाय बहुरूपाय त्रिनेत्राय नमोनमः ॥ ३॥
शरणं भव मे शर्व त्वद्भक्तस्य जगत्पते ।
भूयोऽनन्याश्रयाणां तु त्वमेव हि परायणम् ॥ ४॥
यन्मयाऽपकृतं देव दुरुक्तं वापि शङ्कर ।
अजानता त्वां भगवन्मम तत्क्षन्तुमर्हसि ॥ ५॥
अनन्यवेद्यरुपस्य सद्भावमिह कः पुमान् ।
त्वामृते तव सर्वेश सम्यक्शक्नोति वेदितुम् ॥ ६॥
तस्मात्त्वं सर्वभावेन प्रसीद मम शङ्कर ।
नान्यास्ति मे गतिस्तुभ्यं नमो भूयो नमो नमः ॥ ७॥
॥ इति ब्रह्माण्डपुराणान्तर्गता परशुरामप्रोक्ता शिवस्तुतिः ॥
ब्रह्माण्डपुराणम् ॥ मध्यभागः ३ - उपोद्घातपादः ।
अध्यायः २४ - शिवेनायुधादिदानम् । २५-३१ ॥
Encoded and proofread by Ruma Dewan