श्रीशिव स्तुतिः
श्रीपरशुराम उवाच -
ईश त्वां स्तोतुमिच्छामि सर्वथा स्तोतुमक्षमः ।
अक्षराक्षयबीजं च किं वा स्तौमि निरीहकम् ॥ १॥
न योजनां कर्तुमीशो देवेशं स्तौमि मूढधीः ।
वेदा न शक्ता यं स्तोतुं कस्त्वां स्तोतुमिहेश्वरः ॥ २॥
वाग्बुद्धिमनसां दूरं सारात्सारं परात्परम् ।
ज्ञानमात्रेण साध्यं च सिद्धं सिद्धैर्निषेवितम् ॥ ३॥
यमाकाशमिवाऽद्यन्तमध्यहीनं तथाऽव्ययम् ।
विश्वतन्त्रमतन्त्रं च स्वतन्त्रं तन्त्रबीजकम् ॥ ४॥
ध्यानाऽसाध्यं दुराराध्यमतिसाध्यं कृपानिधिम् ।
त्राहि मां करुणासिन्धो दीनबन्धोऽतिदीनकम् ॥ ५॥
अद्य मे सफलं जन्म जीवितं च सुजीवितम् ।
स्वप्नेऽप्यदृष्टं भक्तैश्चाऽधुना पश्यामि चक्षुषा ॥ ६॥
शक्रादयः सुरगणाः कलया यस्य सम्भवाः ।
चराचराः कलांशेन तं नमामि महेश्वरम् ॥ ७॥
स्त्रीरूपं क्लीवरूपं च पौरुषं च बिभर्ति यः ।
सर्वाधारं सर्वरूपं तं नमामि महेश्वरम् ॥ ८॥
यं भास्करस्वरूपं च शाशिरूपं हुताशनम् ।
जलरूपं वायुरूपं तं नमामि महेश्वरम् ॥ ९॥
अनन्तविश्वसृष्टीनां संहर्तारं भयङ्करम् ।
क्षणेन लीलामात्रेण तं नमामि महेश्वरम् ॥ १०॥
॥ फलश्रुतिः ॥
इत्येवमुक्त्वा स भृगुः पपात चरणाम्बुजे ।
आशिषं च ददौ तस्मै समुत्पन्नो बभूव सः ॥ ११॥
जामदग्न्य कृतं स्तोत्रं यः पठेद्भक्तिसंयुतः ।
सर्वपापविनिर्मुक्तः शिवलोकं स गच्छति ॥ १२॥
॥ इति श्री ब्राह्मे वैवर्ते महापुराणे गणपति खण्डे
श्रीपरशुरामकृत श्रीशिवस्तुतिः समाप्ता ॥
Proofread by PSA Easwaran