सर्वदेवकृता शिवस्तुतिः

सर्वदेवकृता शिवस्तुतिः

ईश्वरः - देवैर्गणेन्द्रैर्मुनिभिस्स्तुतोऽहं तत्र तत्र हि । तत्स्तुतिं सावधानेन मत्तश‍ृणु नगात्मजे ॥ १॥ विष्णुब्रह्मादयो देवास्तथैव गणपा मम । मां तुष्टुवुर्महादेवं पद्यैर्गद्यैर्मनोहरैः ॥ २॥ विष्णुः - कनज्जटाकुटीरगां विहङ्गसङ्गमण्डितां करिप्रियाङ्गसङ्गतां मुखाब्जकान्तिरङ्गिताम् । कपर्दकोटिसङ्गतां कथासुधातरङ्गिणीं भजामि शम्भुमौलिगां महेश्वरं नतोऽस्म्यहम् ॥ ३॥ खरादिखङ्गसंहतिप्रपञ्चबन्धनान्तक प्रखासचन्द्रहासधृक् । अखण्डखण्डपर्शुजप्रभावितर्दिकेवतत्क्षणज्ञपारणस्फुरत्खरादिदुष्टगर्वहृत् ॥ ४॥ ब्रह्मा - मनोतिगं वचोतिगं गणातिगं गुणातिगं भुजङ्गराजभोगगार्चिताङ्घ्रिहृत्पथोजगम् । तरङ्गिणीतरङ्गजप्रफुल्लपद्मनालगं भजामि रत्नरङ्गगं कुरङ्गपाणिमीश्वरम् ॥ ५॥ हिरण्यदं महीप्रदं पशुप्रदं सुतप्रदं हराजविष्णुमर्वदप्रदानभोगमोक्षदम् । भजामि देवदैवतं गुहाहितं जगद्गतं प्रभावितं सुभाषितं महाश्रुतीडितं शिवम् ॥ ६॥ रुद्रः - महाहिराजकङ्कणं धराधृगात्मजासखं ज्वलत्त्रिशूलधारिणं मुनीन्द्रबालपोषणम् । कुरङ्गबालधारिणं सितत्रिपुण्ड्रधारिणं भजामि सोमधारिणं करीन्द्रकृत्तिधारिणम् ॥ ७॥ प्रकृष्टसामघोषिणं सुधांशुखण्डदीधितिप्रचण्डमौलिमण्डलं सुकुण्डलीकृताच्छगण्डकुण्डलीश्वरं प्रभुम् । अखण्डदिव्यदीधिमत्सुचन्द्रखण्डदेहकं विधातृमुण्डपण्डजप्रकाशमालजालकम् ॥ ८॥ भजामि चण्डताण्डवं घनाण्डजाण्डजप्रियं तुहण्डहुण्डकप्रियं महोरुबहुदण्डकम् । इन्द्रः - पुरान्तकं स्मरान्तकं भगान्तकं मखान्तकं गजान्धकान्तकान्तकं शिवं सदा हृदम्बुजे ॥ ९॥ वायुः - सुदक्षदक्षशिक्षकं महोक्षवाहकक्षगं सुपक्षिवाहनप्रियं मयस्करं यशस्करं । तिरस्करं महेनसां महस्करततिप्रभं तिरस्कृतं दुरात्मनां ॥ १०॥ सुमस्करीमनोगतं सुतस्करं हविष्करं भजामि शङ्करं सदा हृदन्तरे सुविस्तरम् ॥ ११॥ अग्निः - शुभाङ्गदं शुभास्पदं सुरेषु दत्ततत्पदं महाविभूतिधारिणं सुभूतिदं सुमोक्षदम् । भवादिहीनबोधदं करीन्द्रचर्मवस्त्रकमखण्डसोममण्डलप्रदं भजे शिवं सदा ॥ १२॥ यमः - हरं सुभक्ततत्परं गरन्धरं ज्वलन्धरं प्रबुद्धशत्रुसंहरं मयस्करं महेश्वरम् । हरीशरं महीधरोरुकार्मुकं भजामि भूरथं हरम् ॥ १३॥ सूर्यः - शरीरभोगसंहरं भजामि देवभास्करं हरञ्च शङ्करं सदा । परात्परं नटेश्वरं जनार्दनार्दनं फणीन्द्रराजहारकं सुमारमारकारकम् ॥ १४॥ कुबेरः - धनाधिपं गणादिवृन्दपाधिपमुमाधिपं वृषाधिपं जगत्सुकारणाधिपम् । भजामि चित्सुखाधिपं नगाधिपं हृदाधिपम् ॥ १५॥ चन्द्रः - शरच्चशीसमछविं महोक्षपुच्छचामरं महाच्छतरुकल्पकप्रसूनगुच्छमस्तकम् । निरिच्छजनवल्लभं तटिच्छविकपर्दकं हृदिस्थशिवमव्ययं सुकच्छपस्तवेडितम् ॥ १६॥ वरुणः - विशिष्टाद्विशिष्टादिशिष्टेष्टनष्टं गिरिष्टं महिष्टं तथा ज्येष्टमीशम् । भजामीष्टमष्टाकृतिं भक्तितुष्टं कनिष्टञ्च कष्टादिकष्टैकनाशम् ॥ १७॥ अश्विनौ - कटितटकरटित्वचं जटाकुटीरात्सुरपाटीरतटीतटोरुगङ्गातटबद्धेन्दुकलासटम् । वटोरुधारानिकटाटङ्कटकोटिटङ्कहस्तम् ॥ १८॥ वसवः - भुजङ्गराजहारकं महाविषाग्निधारकं भवाम्बुधेस्सुतारकं भयानकं महेनसाम् । भजामहेऽन्तकान्तकं महेश्वरत्वदायकं सुरासुरेन्द्रनायकं जटाङ्गनार्धकायकम् ॥ १९॥ मरुतः - महारिखं भुजांसुखान्तरङ्गमद्रजासखं सुसामजातसन्मुखं त्रिदद्वयोन्मुखोन्मुखम् । बहिर्मुखैस्सुदुर्मुखं हसन्मुखं समस्तदुःखदुर्मुखं भजे शिवं हृदा सदा ॥ २०॥ शिखीसखासखं जलासखं नटत्वशेषसन्मुखं हृदि ॥ २१॥ रुद्राः - दृगञ्चलस्फुलिङ्गलेशभस्मिताङ्गनङ्गभस्मसङ्गतम् । पतङ्गदृक्समान्तरङ्गमिन्दुधामगं विहङ्गवाहनार्चितम् ॥ २२॥ भजे शिवं दृगङ्गतं शिवाङ्गकं पाथोजगार्चिताङ्गमौलिसङ्गतम् । सुदक्षदक्षशिक्षकं महोक्षवाहकक्षगं सुपक्षिवाहनप्रियं भजाम्यधोक्षजार्चितम् ॥ २३॥ हृदक्षही नमक्षतं त्वपक्षयादिवर्जितं भजामि भक्तजालके ह्यपेक्षया सुवर्जितम् ॥ क्षपेशमौलिमीक्षणीकृतान्जमित्रकाननमलक्षमक्षता- क्षदृश्यविग्रहं विरूपकाक्षमीश्वरं भजे सदा हृदन्तरे ॥ २४॥ आदित्याः - गणाधिनाथनाथिताखिलप्रपञ्चगाधिजातसन्नुतं दिगाधिगायकातिथीकृताब्जदिव्यपादुकम् । भजामि रात्रिनाथमौलिकस्फुरत्सुरञ्जनीतरङ्गिणीदिवासनाथगं सदा ॥ २५॥ गणेशः - अशेषशोषिताखिलप्रपञ्चजातशेषकं मुनीष्टजातपोषकं महाहिशेषभूषकम् । समुद्रनीरशोषकं प्रकाममिष्टलोचनं महाम्बुदप्रकर्षणं तटित्समानघोषणम् ॥ २६॥ भजामि वेदभाषिणं विधेस्तु सृष्टिकारणम् ॥ २७॥ स्कन्दः - घनस्तनयुगक्षकं घनस्तनितनिम्नमेरुदाघघृणायुतसुचक्षुषम् । निराकृताघदसङ्घकं घृणायुतं स्वभक्तके धृताक्षभूतिसुप्रियं धनाभकण्ठमण्डलम् ॥ २८॥ स्वनन्नखाग्रनिस्सृतविधीजमुण्डमण्डलं भजेऽन्तरङ्गचिद्धनं सदाशिवं सदाहृदि । नन्दीश्वरः - चराचरं सुचङ्करं कृपीडयोनिधारकं निशाचरान्तकं चतुर्मुखाननारविन्दवेदजालमसंस्तुतं शिवम् । विचारमात्रगोचरं सुपञ्चवक्त्रगोचरं सुनिश्चलं हृदन्तरे सुचामरौघवीजितं महोक्षगं भजे शिवम् ॥ ३०॥ चण्डी - हरिज्जटातटीनिकङ्कटेभचर्मधारकं (नटानटिकदम्बचर्मधारकं) कवाटहृत्तटीनिकाटहंसकं वटोरुमूलगं शिवं महोत्कटम् ॥ ३१॥ भृङ्गी - मृडं दृढं परीबृढं सुबाढगाढहृद्गतं सुमूढव्यूढसन्मुखं क्रियासमूहतर्पितम् । अनूढकन्यकाद्रिजासखं समूहगूढहृद्गतं महाकराम्बुजोत्थितप्रकाशढक्कवाद्यकम् ॥ ३२॥ ईश्वरः - गीर्वाणैरगृतार्थिभिः किल शिवे क्षीराब्धिधारार्णवे कृत्वा वासुकिरज्जुमज्जनविधौ मन्थानमन्द्राचलम् । तस्मादप्युदभून्महामणिगणं धेनूगणं पङ्कजा- ज्जाता चोषधिनायकस्सुरतरुस्सारङ्गतीरङ्गकौ ॥ ३३॥ धूमोत्कीलितकालकूटशबलज्वालातिगं ते तताः कान्दीशीकृतदेवदैत्यनिवहं दृष्ट्वाहमेको घृणी । तत्प्राश्याखिलदेवसङ्घविनुतो नीलाच्छकण्ठोऽभवम् ॥ ३४॥ अकपटपटुवाक्यमौलिगुम्फैस्तटिनीजालकमौलिरागहाखिलाग्रः । करटित्वक्पटभूतभूतटोपो कपटितदूरहृदब्जनृत्तटोपः ॥ ३५॥ सन्ध्याताण्डवडम्बरव्यसनिनो भर्गस्य चण्डभ्रमे प्रोन्नृत्यद्भुजचण्डमण्डलभुवो जञ्झानिलाः केवलम् । येषामुच्चलतां जवेन झटिति व्यूहेषु भूमीभृता- मुड्डीनेषु बिडौजसा पुनरसौ दम्भोलिरालोकितः ॥ ३६॥ सर्वदेवाः - त्वल्लिङ्गार्चनतो महेश शरदां जीवेम शम्भोशतं त्वन्नामानि सदा ब्रुवाम च विभो भक्तान्हि नन्दाम ते । लिङ्गं बिल्वदलोत्तमाङ्गमसकृत्पश्येम पुण्याः कथा- श्श‍ृण्वामः प्रतिवासरं च विगतैनस्का भवामो वयम् ॥ ३७॥ शेषः - वसुधाधरधारकं महेशं वसुधाराधिपमित्रमित्रसंस्थम् । हिमकरहिमभेषजाक्षियुग्मं हिमगिरिसुतयानतोऽस्मि देवमाद्यम् ॥ ३८॥ ईश्वरः - पृष्टेष्टलमकमठाकृतिलोकनाट्यं भूदारदारितर मातलतोऽतिदूरम् । (पृष्टोष्टलग्नकमठाकृतिलोकनाथं भूदारदारितर मातलतोऽतिदूरम्)। ब्रह्माण्डखर्परमतीत्य गतोर्ध्वमौलिं लोकेशदृष्टिविरहान्मम लिङ्गमेतत् ॥ ३९॥ तल्लिङ्गपूजनमुमे श्रुतिमौलिवाक्यसिद्धान्तगर्भितपदप्रपथेन भाव्यम् । तत्कश्चिदेव कुरुते मम च प्रसादानो वा सुरा भरितभक्तिरसा हि केचित् ॥ ४०॥ चण्डांशुप्रकटप्रदीपिततमस्स्तोमैकसीमा दिशः खद्योतद्योतनेव प्रभवति भवतां देवजालं समग्रम् । किं निम्बाकतरुस्सुरद्रुमसमो भूयात्ततो मे शिवे ह्यज्ञानं किमु वेदनेन सदृशं विष्ण्वादयः किं समाः ॥ ४१॥ गगनातिगलिङ्गमौलिमेतद्वरपातालतलात्तमूलभागम् । महसाधवलीकृताखिलाशं भवदाशास्यसमं ममेष्टवासम् ॥ ४२॥ गगनगतमपारतेजसेद्धं जनितानन्दभरेण देवसङ्घाः । अवनितलनिवासमस्तकास्ते परिबद्धाञ्जलयो ददर्शुरीशम् ॥ ४३॥ सूतः - सुरकुवलयसोमं सोमधामोत्तमाङ्गं मधुरिमगुणसीमं भूमसामादिगीतम् । सुमसममृदुकायं भीममीशं च सोमं कुमतिपथविदूरं कामदं कामनाशम् ॥ ४४॥ कमलामलनेत्रपूज्यपादं कमलारातिजटातटोरुभूषम् । कलितालकगाङ्गतुङ्गलीलं कलशोद्भूतमुनिप्रपूजिताङ्गम् ॥ ४५॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये शिवप्रोक्तं क्षेत्रपूजनम् ॥ - ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ५७ - सर्वदेवस्तुतिः । १-४५॥ - .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 57 - sarvadevastutiH . 1-45.. Notes: Śiva शिव narrates to Devī देवी, the eulogies offered by the various Devā-s देवाः unto Him. Encoded and proofread by Ruma Dewan
% Text title            : Sarvadevakrita Shiva Stuti
% File name             : shivastutiHsarvadevakRRitA.itx
% itxtitle              : shivastutiH sarvadevakRitA (shivarahasyAntargatA)
% engtitle              : shivastutiH sarvadevakRitA
% Category              : shiva, shivarahasya, stuti, pUjA
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 57 - sarvadevastutiH | 1-45||
% Indexextra            : (Scans 1)
% Latest update         : December 17, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org