सर्वदेवकृता शिवस्तुतिः
ईश्वरः -
देवैर्गणेन्द्रैर्मुनिभिस्स्तुतोऽहं तत्र तत्र हि ।
तत्स्तुतिं सावधानेन मत्तशृणु नगात्मजे ॥ १॥
विष्णुब्रह्मादयो देवास्तथैव गणपा मम ।
मां तुष्टुवुर्महादेवं पद्यैर्गद्यैर्मनोहरैः ॥ २॥
विष्णुः -
कनज्जटाकुटीरगां विहङ्गसङ्गमण्डितां करिप्रियाङ्गसङ्गतां मुखाब्जकान्तिरङ्गिताम् ।
कपर्दकोटिसङ्गतां कथासुधातरङ्गिणीं भजामि शम्भुमौलिगां महेश्वरं नतोऽस्म्यहम् ॥ ३॥
खरादिखङ्गसंहतिप्रपञ्चबन्धनान्तक प्रखासचन्द्रहासधृक् ।
अखण्डखण्डपर्शुजप्रभावितर्दिकेवतत्क्षणज्ञपारणस्फुरत्खरादिदुष्टगर्वहृत् ॥ ४॥
ब्रह्मा -
मनोतिगं वचोतिगं गणातिगं गुणातिगं भुजङ्गराजभोगगार्चिताङ्घ्रिहृत्पथोजगम् ।
तरङ्गिणीतरङ्गजप्रफुल्लपद्मनालगं भजामि रत्नरङ्गगं कुरङ्गपाणिमीश्वरम् ॥ ५॥
हिरण्यदं महीप्रदं पशुप्रदं सुतप्रदं हराजविष्णुमर्वदप्रदानभोगमोक्षदम् ।
भजामि देवदैवतं गुहाहितं जगद्गतं प्रभावितं सुभाषितं महाश्रुतीडितं शिवम् ॥ ६॥
रुद्रः -
महाहिराजकङ्कणं धराधृगात्मजासखं ज्वलत्त्रिशूलधारिणं मुनीन्द्रबालपोषणम् ।
कुरङ्गबालधारिणं सितत्रिपुण्ड्रधारिणं भजामि सोमधारिणं करीन्द्रकृत्तिधारिणम् ॥ ७॥
प्रकृष्टसामघोषिणं सुधांशुखण्डदीधितिप्रचण्डमौलिमण्डलं
सुकुण्डलीकृताच्छगण्डकुण्डलीश्वरं प्रभुम् ।
अखण्डदिव्यदीधिमत्सुचन्द्रखण्डदेहकं विधातृमुण्डपण्डजप्रकाशमालजालकम् ॥ ८॥
भजामि चण्डताण्डवं घनाण्डजाण्डजप्रियं तुहण्डहुण्डकप्रियं महोरुबहुदण्डकम् ।
इन्द्रः -
पुरान्तकं स्मरान्तकं भगान्तकं मखान्तकं गजान्धकान्तकान्तकं शिवं सदा हृदम्बुजे ॥ ९॥
वायुः -
सुदक्षदक्षशिक्षकं महोक्षवाहकक्षगं सुपक्षिवाहनप्रियं मयस्करं यशस्करं ।
तिरस्करं महेनसां महस्करततिप्रभं तिरस्कृतं दुरात्मनां ॥ १०॥
सुमस्करीमनोगतं सुतस्करं हविष्करं भजामि शङ्करं सदा हृदन्तरे सुविस्तरम् ॥ ११॥
अग्निः -
शुभाङ्गदं शुभास्पदं सुरेषु दत्ततत्पदं महाविभूतिधारिणं सुभूतिदं सुमोक्षदम् ।
भवादिहीनबोधदं करीन्द्रचर्मवस्त्रकमखण्डसोममण्डलप्रदं भजे शिवं सदा ॥ १२॥
यमः -
हरं सुभक्ततत्परं गरन्धरं ज्वलन्धरं प्रबुद्धशत्रुसंहरं मयस्करं महेश्वरम् ।
हरीशरं महीधरोरुकार्मुकं भजामि भूरथं हरम् ॥ १३॥
सूर्यः -
शरीरभोगसंहरं भजामि देवभास्करं हरञ्च शङ्करं सदा ।
परात्परं नटेश्वरं जनार्दनार्दनं फणीन्द्रराजहारकं सुमारमारकारकम् ॥ १४॥
कुबेरः -
धनाधिपं गणादिवृन्दपाधिपमुमाधिपं वृषाधिपं जगत्सुकारणाधिपम् ।
भजामि चित्सुखाधिपं नगाधिपं हृदाधिपम् ॥ १५॥
चन्द्रः -
शरच्चशीसमछविं महोक्षपुच्छचामरं महाच्छतरुकल्पकप्रसूनगुच्छमस्तकम् ।
निरिच्छजनवल्लभं तटिच्छविकपर्दकं हृदिस्थशिवमव्ययं सुकच्छपस्तवेडितम् ॥ १६॥
वरुणः -
विशिष्टाद्विशिष्टादिशिष्टेष्टनष्टं गिरिष्टं महिष्टं तथा ज्येष्टमीशम् ।
भजामीष्टमष्टाकृतिं भक्तितुष्टं कनिष्टञ्च कष्टादिकष्टैकनाशम् ॥ १७॥
अश्विनौ -
कटितटकरटित्वचं जटाकुटीरात्सुरपाटीरतटीतटोरुगङ्गातटबद्धेन्दुकलासटम् ।
वटोरुधारानिकटाटङ्कटकोटिटङ्कहस्तम् ॥ १८॥
वसवः -
भुजङ्गराजहारकं महाविषाग्निधारकं भवाम्बुधेस्सुतारकं भयानकं महेनसाम् ।
भजामहेऽन्तकान्तकं महेश्वरत्वदायकं सुरासुरेन्द्रनायकं जटाङ्गनार्धकायकम् ॥ १९॥
मरुतः -
महारिखं भुजांसुखान्तरङ्गमद्रजासखं सुसामजातसन्मुखं त्रिदद्वयोन्मुखोन्मुखम् ।
बहिर्मुखैस्सुदुर्मुखं हसन्मुखं समस्तदुःखदुर्मुखं भजे शिवं हृदा सदा ॥ २०॥
शिखीसखासखं जलासखं नटत्वशेषसन्मुखं हृदि ॥ २१॥
रुद्राः -
दृगञ्चलस्फुलिङ्गलेशभस्मिताङ्गनङ्गभस्मसङ्गतम् ।
पतङ्गदृक्समान्तरङ्गमिन्दुधामगं विहङ्गवाहनार्चितम् ॥ २२॥
भजे शिवं दृगङ्गतं शिवाङ्गकं पाथोजगार्चिताङ्गमौलिसङ्गतम् ।
सुदक्षदक्षशिक्षकं महोक्षवाहकक्षगं सुपक्षिवाहनप्रियं भजाम्यधोक्षजार्चितम् ॥ २३॥
हृदक्षही नमक्षतं त्वपक्षयादिवर्जितं भजामि भक्तजालके ह्यपेक्षया सुवर्जितम् ॥
क्षपेशमौलिमीक्षणीकृतान्जमित्रकाननमलक्षमक्षता-
क्षदृश्यविग्रहं विरूपकाक्षमीश्वरं भजे सदा हृदन्तरे ॥ २४॥
आदित्याः -
गणाधिनाथनाथिताखिलप्रपञ्चगाधिजातसन्नुतं
दिगाधिगायकातिथीकृताब्जदिव्यपादुकम् ।
भजामि रात्रिनाथमौलिकस्फुरत्सुरञ्जनीतरङ्गिणीदिवासनाथगं सदा ॥ २५॥
गणेशः -
अशेषशोषिताखिलप्रपञ्चजातशेषकं मुनीष्टजातपोषकं महाहिशेषभूषकम् ।
समुद्रनीरशोषकं प्रकाममिष्टलोचनं महाम्बुदप्रकर्षणं तटित्समानघोषणम् ॥ २६॥
भजामि वेदभाषिणं विधेस्तु सृष्टिकारणम् ॥ २७॥
स्कन्दः -
घनस्तनयुगक्षकं घनस्तनितनिम्नमेरुदाघघृणायुतसुचक्षुषम् ।
निराकृताघदसङ्घकं घृणायुतं स्वभक्तके धृताक्षभूतिसुप्रियं धनाभकण्ठमण्डलम् ॥ २८॥
स्वनन्नखाग्रनिस्सृतविधीजमुण्डमण्डलं भजेऽन्तरङ्गचिद्धनं सदाशिवं सदाहृदि ।
नन्दीश्वरः -
चराचरं सुचङ्करं कृपीडयोनिधारकं निशाचरान्तकं
चतुर्मुखाननारविन्दवेदजालमसंस्तुतं शिवम् ।
विचारमात्रगोचरं सुपञ्चवक्त्रगोचरं सुनिश्चलं
हृदन्तरे सुचामरौघवीजितं महोक्षगं भजे शिवम् ॥ ३०॥
चण्डी -
हरिज्जटातटीनिकङ्कटेभचर्मधारकं (नटानटिकदम्बचर्मधारकं)
कवाटहृत्तटीनिकाटहंसकं वटोरुमूलगं शिवं महोत्कटम् ॥ ३१॥
भृङ्गी -
मृडं दृढं परीबृढं सुबाढगाढहृद्गतं सुमूढव्यूढसन्मुखं क्रियासमूहतर्पितम् ।
अनूढकन्यकाद्रिजासखं समूहगूढहृद्गतं
महाकराम्बुजोत्थितप्रकाशढक्कवाद्यकम् ॥ ३२॥
ईश्वरः -
गीर्वाणैरगृतार्थिभिः किल शिवे क्षीराब्धिधारार्णवे
कृत्वा वासुकिरज्जुमज्जनविधौ मन्थानमन्द्राचलम् ।
तस्मादप्युदभून्महामणिगणं धेनूगणं पङ्कजा-
ज्जाता चोषधिनायकस्सुरतरुस्सारङ्गतीरङ्गकौ ॥ ३३॥
धूमोत्कीलितकालकूटशबलज्वालातिगं ते तताः
कान्दीशीकृतदेवदैत्यनिवहं दृष्ट्वाहमेको घृणी ।
तत्प्राश्याखिलदेवसङ्घविनुतो नीलाच्छकण्ठोऽभवम् ॥ ३४॥
अकपटपटुवाक्यमौलिगुम्फैस्तटिनीजालकमौलिरागहाखिलाग्रः ।
करटित्वक्पटभूतभूतटोपो कपटितदूरहृदब्जनृत्तटोपः ॥ ३५॥
सन्ध्याताण्डवडम्बरव्यसनिनो भर्गस्य चण्डभ्रमे
प्रोन्नृत्यद्भुजचण्डमण्डलभुवो जञ्झानिलाः केवलम् ।
येषामुच्चलतां जवेन झटिति व्यूहेषु भूमीभृता-
मुड्डीनेषु बिडौजसा पुनरसौ दम्भोलिरालोकितः ॥ ३६॥
सर्वदेवाः -
त्वल्लिङ्गार्चनतो महेश शरदां जीवेम शम्भोशतं
त्वन्नामानि सदा ब्रुवाम च विभो भक्तान्हि नन्दाम ते ।
लिङ्गं बिल्वदलोत्तमाङ्गमसकृत्पश्येम पुण्याः कथा-
श्शृण्वामः प्रतिवासरं च विगतैनस्का भवामो वयम् ॥ ३७॥
शेषः -
वसुधाधरधारकं महेशं वसुधाराधिपमित्रमित्रसंस्थम् ।
हिमकरहिमभेषजाक्षियुग्मं हिमगिरिसुतयानतोऽस्मि देवमाद्यम् ॥ ३८॥
ईश्वरः -
पृष्टेष्टलमकमठाकृतिलोकनाट्यं भूदारदारितर मातलतोऽतिदूरम् ।
(पृष्टोष्टलग्नकमठाकृतिलोकनाथं भूदारदारितर मातलतोऽतिदूरम्)।
ब्रह्माण्डखर्परमतीत्य गतोर्ध्वमौलिं लोकेशदृष्टिविरहान्मम लिङ्गमेतत् ॥ ३९॥
तल्लिङ्गपूजनमुमे श्रुतिमौलिवाक्यसिद्धान्तगर्भितपदप्रपथेन भाव्यम् ।
तत्कश्चिदेव कुरुते मम च प्रसादानो वा सुरा भरितभक्तिरसा हि केचित् ॥ ४०॥
चण्डांशुप्रकटप्रदीपिततमस्स्तोमैकसीमा दिशः
खद्योतद्योतनेव प्रभवति भवतां देवजालं समग्रम् ।
किं निम्बाकतरुस्सुरद्रुमसमो भूयात्ततो मे शिवे
ह्यज्ञानं किमु वेदनेन सदृशं विष्ण्वादयः किं समाः ॥ ४१॥
गगनातिगलिङ्गमौलिमेतद्वरपातालतलात्तमूलभागम् ।
महसाधवलीकृताखिलाशं भवदाशास्यसमं ममेष्टवासम् ॥ ४२॥
गगनगतमपारतेजसेद्धं जनितानन्दभरेण देवसङ्घाः ।
अवनितलनिवासमस्तकास्ते परिबद्धाञ्जलयो ददर्शुरीशम् ॥ ४३॥
सूतः -
सुरकुवलयसोमं सोमधामोत्तमाङ्गं मधुरिमगुणसीमं भूमसामादिगीतम् ।
सुमसममृदुकायं भीममीशं च सोमं कुमतिपथविदूरं कामदं कामनाशम् ॥ ४४॥
कमलामलनेत्रपूज्यपादं कमलारातिजटातटोरुभूषम् ।
कलितालकगाङ्गतुङ्गलीलं कलशोद्भूतमुनिप्रपूजिताङ्गम् ॥ ४५॥
॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये शिवप्रोक्तं क्षेत्रपूजनम् ॥
- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ५७ - सर्वदेवस्तुतिः । १-४५॥
- .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 57 - sarvadevastutiH . 1-45..
Notes:
Śiva शिव narrates to Devī देवी, the eulogies offered by the various Devā-s देवाः unto Him.
Encoded and proofread by Ruma Dewan