स्कन्दकृताशिवस्तुतिः

स्कन्दकृताशिवस्तुतिः

योऽयं देवः सच्चिदानन्दरूपी रूपातीतो वेदवेदान्तवार्ताः । यस्मादस्मान्निर्गता एवं सत्यं तत्त्वं देवं तत्त्वतः कोऽपि वेद ॥ १॥ यस्मादेतज्जायते विश्वमादौ येनैवेदं लक्षितं रक्षणार्हम् । अन्ते तावन्नाशमेति प्रभूतं तत्त्वं वन्दे देवतासार्वभौमम् ॥ २॥ यत्पादाब्जं मृग्यमासीन्मुनीनां तत्त्वज्ञानापारसाराकराणाम् । तत्पादाब्जं दुर्लभं दुर्लभं मे देवाशास्यं सर्वथा दुर्लभं च ॥ ३॥ यत्पादाब्जं कामकामाः सुराद्याः सर्वे तावत् द्रष्टुमिच्छन्ति भक्त्या । तत्पादाब्जं दुर्लभं वेदगीतं तन्मच्चित्तं सन्ततं सावधानम् ॥ ४॥ यागैर्योगैः साधनैर्यन्न दृष्टं पादाम्भोजं विश्वनाथस्य तन्मे । नित्यं तावद् दुर्लभं दुर्लभानां मध्ये तावत् दुर्लभं तत्पदाब्जम् ॥ ५॥ त्वत्पादाब्जं द्रष्टुमद्यापि धन्याः योगाभ्यासं कर्तुमप्युद्यतास्ते । कृत्वा कृत्वा तं पुनः श्रान्तचित्ताः तत्पादाब्जं द्रष्टुमर्धेन्दुमौले ॥ ६॥ घोराकारापारसंसारसिन्धुः यत्पादाब्जालोकनेन प्रवृद्धः । तं त्वां सोमं देवतासार्वभौम वन्दे देवं सुन्दरानन्दकन्दम् ॥ ७॥ (वन्दे वन्दे) नित्यानन्दानन्दसन्दोहबीजं यत्पादाब्जं सर्वविज्ञानबीजम् । पादाम्भोजं तं नमामि प्रणामः त्वत्पादाब्जे दुर्लभः सर्वदा मे ॥ ८॥ (प्रपन्नः त्वत्पादाब्जे दुर्लभं मे) सुरापारकोटीरकोटिप्रभाभिः भवत्पादुकाकान्तिकान्ताभिरीश । प्रशान्तो विधुर्भानुमानिन्दुमौले कला षोडशी वा न तस्यास्तु तासाम् ॥ ९॥ भवत्पादपद्मप्रभामण्डलेन प्रभूतोऽपि माण्ड इत्येव मन्ये । जगन्मण्डलं भासयत्यम्बिकेश प्रकाशस्तवायं प्रकाशाय कस्य ॥ १०॥ तवायं प्रभावः प्रभूतः प्रभाति प्रभामण्डलस्यास्य कार्यं न विद्मः । स्फुलिङ्गेन नष्टेऽपि गाढान्धकारे क्व सूर्याद्यपेक्षाऽपि लोकेषु दृष्टा ॥ ११॥ तडित्कोटिसङ्घातजातप्रकाशं तिरस्कृत्य तेजस्तवेदं प्रवृत्तम् । स्फुरत्पादपद्मस्य तस्य स्फुलिङ्गा रविर्वह्निरिन्दुः ग्रहास्तारकाश्च ॥ १२॥ अचिन्त्यप्रभावो मनोगोचरो वा न वेदान्तवाग्गोचरो वा निवृत्ताः । यतो वाच एवेति मन्ये निवृत्ताः प्रवृत्तिः कथं तत्र मानान्तरस्य ॥ १३॥ (स्वतो वाच एवेति मन्ये सचित्ताः) (सचित्ताः) अनन्तानि पापानि नाशं प्रयान्ति स्वतस्तत्पदाम्भोरुहानुग्रहेण । किमुग्रास्त्यशक्यं तवानुग्रहस्याप्ययं ते ममानुग्रहोयं महेश ॥ १४॥ महेशाद्य याचे भवत्पादपद्मे दृढां भक्तिमेकां त्वदन्यं न याचे । त्वमेवासि माता पिताऽसि त्वमेव त्वमेव प्रभुर्मे त्वमेवासि बन्धुः ॥ १५॥ अनाथैकनाथ प्रभो विश्वनाथ प्रभो मामनाथं सनाथं कुरु त्वम् । अनन्यावनं ते कथं वा न धर्मः त्वमेवासि धर्मस्वरूपः स्मरारे ॥ १६॥ स्मरामि स्मरामि स्मरारे भवन्तं विपद्ध्वान्तसंहारहेतु प्रशान्तम् । जगद्धेतुमेकं भवन्तं स्मरामि स्मरारे शरण्यो न कोऽप्यस्ति लोके ॥ १७॥ क्व वा ते पदाब्जं क्व वा वा मनो मे मनोवृत्तिरस्मिन्कथं त्वत्पदाब्जे । स्थिरा जायतामिन्दुमौले दयालो दयापात्रमस्मि त्रिनेत्राहमेकः ॥ १८॥ अहं सर्वदा त्वत्पदाम्भोजभृङ्गः भवाम्येव शम्भो भवत्पादपद्मम् । मनःसद्म तन्मे मनः पद्मयाऽपि प्रभो मोहकालेऽपि न क्रीडतीति ॥ १९॥ भवत्पादपद्मश्रिया साकमेतत्मनः क्रीडतीति प्रमोदो ममासौ । ततस्तावता हानिरीशान का ते तवाहं तवाहं तवाहं तवाहम् ॥ २०॥ न लोके ममान्यत्किमाशास्यमस्तीत्यवश्यं त्वया शङ्कनीयं महेश । इतो नाधिकं क्वापि लोकेषु शम्भो न चात्यल्पमाशास्यमस्तीति विमः ॥ २१॥ ॥ इति शिवरहस्यान्तर्गते स्कन्दकृताशिवस्तुतिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः १४। ८-२८ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 14. 8-28 .. Proofread by Ruma Dewan
% Text title            : Skandakrita Shiva Stuti
% File name             : shivastutiHskandakRRitA.itx
% itxtitle              : shivastutiH skandakRitA (shivarahasyAntargatA)
% engtitle              : shivastutiH skandakRitA
% Category              : shiva, stuti, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 14| 8-28 ||
% Indexextra            : (Scan)
% Latest update         : May 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org