शिवस्तुतिश्लोकाः

शिवस्तुतिश्लोकाः

बालः - गौरीमनोहरपदाम्बुजमादरेण वन्दे मुकुन्दनयनाम्बुजपूजितं मे । आनन्दसुन्दरमरन्दविनोदधारा धारावरं सुखदमाशु मुहुः स्मरामि ॥ १६.४॥ उमाकटितटस्फुरत्करिवराननालोकन- प्रसन्नहृदयं धिया सदयमिन्दुचूडं मृडम् । उमापरिबृढं भजे भजनमातृदत्तेप्सितं स्मिताननमनामयं प्रियमुमासहायं मुदा ॥ १६.४॥ राज्ञी - हारोपहारपरिकल्पितनीरधारा- माहारमेत्य कुरुतोदरपूरणाय । विश्वेश्वरस्मरणमेव करोमि चित्ते कृत्वा शिवापतिपदाम्बुजमादरेण ॥ १८.११३॥ रतिपतिहितभूतक्रोडया क्रीडयाऽलं रमणिचरणघातैः तत्करावेष्टनैश्च । अलमलमनुवेलं कालकालाबलायाः चरणकमलशोभामेव नित्यं स्मरामि ॥ १८.११४॥ गौरीमनोहरपदाम्बुजमादरेण स्मृत्वा तरन्ति खलु पातकपावकाधीन् । तस्मादनन्यशरणः शिवपादपद्मं पद्मापतिप्रियमहं शरणं व्रजामि ॥ १८.११५॥ नान्यन्मनोहरमघापहमस्ति लोके गौरीमनोहरपदाम्बुरुहं विहाय । तत्केवलं शरणमित्यहमादरेण स्मृत्वा वसामि विपिने शिवमन्दिरेषु ॥ १८.११६॥ संसारदुःखमघकोटिकुलाकुलत्वात् त्याज्यं मनागपि न तेन सुखं कदापि । जन्मव्यपायकरणं परमिन्दुमौलिपादार- विन्दभजनं प्रवदन्ति धीराः ॥ १८.११७॥ अहो महापातकराशिकोटितूलानलः शङ्करलिङ्गपूजा । सा दुर्लभा भाग्यवशेन लोके तपस्यया स्यात् सुलभा विमुक्त्यै ॥ १८.१२१॥ चित्रकेतुः - भवानीपते पाहि पाहि त्रिशूलिन् भवत्पादुकाराधका लोकनेन । मनो मे प्रवृत्तं भवत्पादपद्मे प्रणासप्रवाहस्तवायं महेश ॥ २२.९७॥ सत्यमूर्तिः - प्रभावमीशार्चनतत्पराणां वक्तुं न शक्तोऽस्ति न वेदराशिः । श्रान्ताश्च वेदान्तविचारतान्तास्ते शाङ्कराराधनसेवकाः स्युः ॥ ४६.२१०॥ धन्यं चित्तं शङ्करध्यानलोलं धन्ये नेत्रे लिङ्गसन्दर्शनेन । धन्यौ हस्त लिङ्गसम्पूजनाद्यैः धन्या जिह्वा शाङ्गसङ्कीर्तनेन ॥ ४६.२१३॥ ॥ इति शिवरहस्यान्तर्गते हराख्ये शिवस्तुतिश्लोकाः सम्पूर्णाः ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । वावृत्तश्लोकाः ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . vAvRRittashlokAH .. Proofread by Ruma Dewan
% Text title            : Shivastutishlokah
% File name             : shivastutishlokAH.itx
% itxtitle              : shivastutishlokAH (shivarahasyAntargatAH)
% engtitle              : shivastutishlokAH
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shivarahasyam | harAkhyaH tRitIyAMshaH | uttarArdham | vAvRittashlokAH ||adhyAyaH 1 | 17\-51||
% Indexextra            : (Scan)
% Latest update         : January 30, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org