शिवस्तुतिश्लोकसंनयनम् ५
(शिवरहस्यान्तर्गते दशमांशे)
गावः ऊचुः ।
शम्भो चारुशशाङ्कशेखर लसद्गङ्गातरङ्गोज्ज्वल-
मौले लालितशम्बरार्भककरध्वस्तोरुनागाजिन ।
पाहीशान दयानिधान भगवन्नेनो महन्नः कृतं
वारं वारमपाकुरुष्व दयया शीघ्रं पशूनां पते ॥ ४.४७॥
भो भर्ग त्रिपुरान्धकान्तकमहादेवाद्य गङ्गाधर
भूतेशाखिलपावनामितबलालोलत्रिशूलीकर ।
रक्षास्मान् शरणागतान्(नः) करुणया गावो वयं गोपते
संवीक्ष्याद्य दृशा दशांशकरुणाकोटः कटाक्षेण नः ॥ ४.४८॥
देव्युवाच ।
देवदेव महादेव करुणावरुणालय ।
शरणं त्वां प्रपन्नाहं कारणं शरणं सताम् ॥ २४.१॥
ब्रह्मोवाच ।
नमस्ते देवेश त्रिपुरहर सोमत्रिणयन
प्रभो शम्भो विश्वाधिक हर भवोग्रामितगुण ।
विभो बन्धो बन्धं हर हर शशिद्योतितशिरः
प्रसादं मे शश्वत् कुरु शिव भवान्मेऽद्य शरणम् ॥ ३७.३१॥
॥ इति शिवरहस्यान्तर्गते शिवस्तुतिश्लोकसंनयनम् ५ सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । ईश्वराख्यः दशमांशः । शिवस्तुतिश्लोकसंनयनम् ५ । वावृत्तश्लोकाः ॥
- .. shrIshivarahasyam . IshvarAkhyaH dashamAMshaH . shivastutishlokasa.nnayanam 5 . vAvRRittashlokAH ..
Notes:
The shlokas for eulogizing Shiva; that eventuate sporadically in various Adhyaya-s of Shiva Rahasyam Amsa-10, are collated on this page.
Proofread by Ruma Dewan