शिवस्तुतिश्लोकसंनयनम्
(शिवरहस्ये चतुर्थांशे)
जैगीषव्यः -
देवदेवे विरूपाक्षे शङ्करे सर्वकामदे ।
महानन्दे परानन्दे भक्तिकारणमुत्तमम् ॥ १.९॥
यस्य ज्ञानेन भक्त्या च सर्वं विज्ञातमेव हि ।
यमात्मानं महादेवं ज्ञात्वा शिवमयो भवेत् ॥ १.१०॥
यस्य ध्यानेन मुनयो निवृत्ता मुक्तिमास्थिताः ।
सगुणो निर्गुणोऽप्यात्मा शिव एव सनातनः ॥ १.११॥
सगुणो गुणरूपैश्च शिवो ज्ञेयः सुखेन हि ।
उमासहायो विश्वेशो ध्येयो ज्ञेयश्च नित्यशः ॥ १.२४॥
क्षणमेकं शिवध्यानात्सगुणे क्रतुलक्षणम् ।
फलमाप्नोति कामात्मा निर्गुणे ब्रह्म वै भवेत् ॥ १.२६॥
- -
स्कन्दः -
त्रिनेत्रो नीलकण्ठश्च सर्वाभरणभूषितः ।
पूर्णेन्दुद्युतिसर्वाङ्गो गणवृन्दनिषेवितः ॥ १२.१५॥
- -
मार्कण्डेयः -
कालकाल करुणालवाल हे नीललोहित दृशा जितकाल ।
व्यालमालगत हस्तशूलधृग्व्योमजाल अनलामलभाल ॥ १४.९॥
- -
व्यासः -
उर्वी मौर्वी रथाङ्गौ शिखिशशिहरयो बाणतूणस्तथाब्धिः
यन्ता धाता विधाता उरगतुरगका वेदसङ्घार्कचन्द्राः ।
लीलां तेऽद्यानुलोके ललितदृगुदये ज्वालकीलावलीढं
मुग्धं मुग्धेन्दुचूडत्रिपुरवरपुरं
सम्भृतैः किं तवान्यैः ॥ २०.११॥
धराधरकुमारिकावर कपालपाणे हर
प्रसीद परमेश्वर स्मरहराद्य गङ्गाधर ।
पयोधिशयबाणधृग्गरधृगुर्वीधर
धराधरणधारण प्रणतहृत्पयोजान्तिक ॥ २०.१२॥
अनाथजननाथ ते दिवसनाथ नेत्रेण मां
विलोकय सनाथय प्रमथनाथ लिङ्गार्चकम् ।
समन्मथशराहतिप्रमथितान्तरङ्गं हि मां
अनाथमगजापते अव हि विश्वनाथाधुना ॥ २०.१३॥
- -
ब्रह्मा -
शशिधामकलाललाम भालानल नीलामलकण्ठ देव शम्भो ।
कृतमालतमालपुष्पमालाकलिताजैककपालशूल पाहि ॥ २६.१३॥
यो देवः श्रुतिशेखरैर्मृगयते(?)जानन्ति यं वै हृदा
जातं येन समस्तवास्तुविषयं यस्मै च सर्वे नताः ।
यस्मान्नापरमस्ति यस्य सततं लिङ्गार्चकास्ते सुराः
यस्मिन्विश्वमिदं प्रयाति च लय वन्दे पशूनां पतिम् ॥ २६.१४॥
- -
विष्णुः -
करकलितकपालं ब्रह्ममुण्डोरुमालं
गललसदहिमालं शूलकीलाविशालम् ।
मदगजवरलीलालोकनाटोकिमालं
सुरकुवलयसोमं त्वां भजे कालकालम् ॥ २७.२६॥
करधृतमृगबालं बालविप्रानुकूलं
सुविहितगरनीलं शर्वपादाब्जलोलम् ।
सुरवरदलनाद्यैर्मद्गणप्राणलील-
मनलकलिशूलं त्वां भजे कालकालम् ॥ २७.२७॥
- -
॥ इति शिवस्तुतिश्लोकसंनयनं सम्पूर्णम् ॥
शिवशक्त्यार्पणमस्तु ॥
- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः चतुर्थांशः । संनयनम् । ॥
- .. shrIshivarahasyam . shankarAkhyaH chaturthAMshaH . various . ..
Selected Shiva Stuti Shlokas collated from various Adhyaya-s of SR Amsa04
Notes:
The shlokas for eulogizing Shiva; that eventuate
soparadically in various Adhyaya-s of Shiva
Rahasyam Amsa-04, are collated on this page.
Proofread by Ruma Dewan