शिवस्तुतिश्लोकसंनयनम्
(शिवरहस्ये भवाख्ये द्वितीयांशे)
- - अध्याय ४ - -
स्कन्दः -
ज्वलन्निटिललोचनं विषगलार्चिमेघाङ्गक-
प्रभातत(तति)विराजितं जितमहेन्दुधामाननम् ।
पटे(पुष्टे, पीने)भवरकृत्तिधृग्विधृतपोतचन्द्रं सरि-
ज्जटापटुकुटीरकोज्ज्वलितभोगिभोगाननम् ॥
फणामणिविदीपितं स्वहृदिपङ्कजाध्यासितं (निजहृदम्बुजाध्यासितं)
दधार चिरमम्बिका तपनसोमसप्तार्चितः(?) ।
प्रकाशनयनत्विषं मधुहराक्षिपद्माङ्घ्रिकं
सुबालमृगटङ्कधृक्प्रथितबाहुदण्डानटम्(नतम्) ॥
वराभयकराम्बुजं भसितपुण्ड्ररेखोज्ज्वलम् ।
सुमन्दहसिताननं प्रणत(प्रणित)पक्वबिम्बाधरम् ॥
- - अध्याय ८ - -
देव्युवाच -
देवदेव महादेव लीलाललितविग्रह ।
खट्वाङ्गपाणे भगवन् इभाजिनधराव्यय ॥
चारुचन्द्रकलामौले नागहाराङ्गभूषण ।
प्रमथाधीश मन्राथ लोकनाथ जगत्पते ॥
रुद्राणां कोटयः शम्भो जरामरणवर्जिताः ।
चन्द्रोत्तंसाः कपर्दोरुमौलयो भस्मभूषिताः ॥
- - अध्याय २८ - -
मनोन्मयुवाच -
बालार्धगात रमणीयजटोरुगङ्गा-
तुङ्गोत्तमाङ्ग शशिधामललाम शम्भो ।
विश्वेश विश्व मदनान्तकर प्रसीद
कैलासवासि निगमागमत(स)त्त्वसार ॥
॥ इति शिवरहस्यान्तर्गते भवाख्ये शिवस्तुतिश्लोकसंनयनम् ।
- ॥ श्रीशिवरहस्यम् । भवाख्यः द्वितीयांशः ॥
- .. shrIshivarahasyam . bhavAkhyaH dvitIyAMshaH ..
Notes:
The shlokas for eulogizing Shiva; that eventuate sporadically in various Adhyaya-s of Shiva Rahasyam Amsa-02, are collated on this page.
Shloka numbering was found to differ amongst the two referenced source texts; hence, Adhyaya numbers are mentioned for ease of navigation through the source text.
Proofread by Ruma Dewan