शिवस्तुतिश्लोकसंनयनम् ६
(शिवरहस्यान्तर्गते महादेवाख्ये)
नमस्ते देवदेवाय शिवायाकाशमूर्तये ।
भवाय भव्यरूपाय हरभूम्यात्मने नमः ॥ ५.७४॥
व्यक्ताव्यक्ताय सोमाय जलरूपाय ते नमः ।
उग्राय भीमरूपाय वायुमूर्त्यात्मने नमः ॥ ५.७५॥
व्योमकेशाय नित्याय तेजोमूर्त्यात्मने नमः । ५.७६.१
भस्माङ्गाय भवाय भावुक हृदोत्तुङ्गाय गङ्गारय-
स्फाराघोरमहोत्तमाङ्ग विलसल्लिङ्गाय शाङ्गाय ते ।
कामाद्यङ्गविभङ्गकाय सुमहादित्याङ्गसङ्गस्फुर-
जालाङ्गाय कुरङ्गबालविलसद्धस्ताय तुभ्यं नमः ॥ १४.५१॥
ईशाय शाश्वत जगत्स्थितिनाशकेश
व्योमावकाश शशिधाम विभासि धाम्ने ।
भूम्ने विधूततमसे रभसे विशोक-
सीम्ने भवाय विभवाय नमोनमस्ते ॥ १४.५२॥
ध्यायेदीशानमव्यग्र उग्रं देवं पिनाकिनम् ॥ १५.२२.२॥
त्रिलोचनं नीलकण्ठं वरदाभयपाणिनम् ।
उमासहायं विश्वेशं विश्वाधारं सनातनम् ॥ १५.२३॥
सर्वाभरणशोभाढ्यं गन्धवासाद्यलङ्कृतम् ।
त्रिपुण्ड्रचन्द्रार्धधरं भूतिभूषितविग्रहम् ॥ १५.२४॥
मन्दस्मितमुखाम्भोजं सुन्दराननपङ्कजम् ।
ध्यायेद्देवं विरूपाक्षं निर्जित्याक्षाणि सुव्रतः ॥ १५.२५॥
ध्यात्वैवं देवमीशानं नीलकण्ठं त्रियम्बकम् ॥ २१.२१॥
सोमास्कन्दं चन्द्रचूडं दिव्यस्रग्गन्ध भूषितम् ।
व्याघ्रचर्मपरीधानं नागाभरणभूषितम् ॥ २१.२२॥
भस्माङ्गरागसुभगं मन्दस्मेरमुखाम्बुजम् । २१.२२.१
ध्यायेदेवं विरूपाक्षं नीलकण्ठमुमायुतम् ।
मृगाङ्कशेखरं शान्तं सर्वाभरणभूषितम् ॥ २२.१७॥
चन्द्रगङ्गाधरं सौम्यं सोमं कुन्दद्युतिं शिवम् ।
त्रिलोचनं नीलकण्ठं वरदाभयपाणिनम् ॥ २३.२१॥
त्रिपुण्ड्रविलसद्भालं वासोऽलङ्कारभूषितम् ।
ब्रह्मविष्ण्वादिवन्द्याङ्घ्रिं तरुणं प्रियदर्शनम् ॥ २३.२२॥
ध्यात्वा हृत्पद्मनिलये देवदेवं पिनाकिनम् । २३.२३.१
ध्यायेद्हृदा महादेवं साम्बं चन्द्रकलाधरम् ॥ २५.११.२॥
त्रिणेत्रं नीलकण्ठं च वरदाभयपाणिनम् ।
शाश्वतं शङ्करं शिवं हृत्पद्मसदनस्थितम् ॥ २५.१२॥
ध्यायेद्देवं नित्यं महेशं रजतगिरिवसं चारुचन्द्रावतंसं
रत्नाऽऽकल्पोज्जवलाङ्गं परशुमृगवराभीतिहस्तान्तरङ्गम् ।
पद्मासीनं सहाम्बं वृतगणपगणैर्व्याघ्रकृत्तिं वसानं
विश्वाद्यं विश्ववन्द्यं निखिलभयहरं सर्वपापापहारम् ॥ ३२.३५॥
गङ्गाधरान्धकरिपो प्रमथाधिनाथ
विश्वेश विश्वगतसर्जकभर्जकान्ते ।
ब्रह्मादिविष्णुसुरवर्गसुपूजिताङ्घ्रे
मामीश पाहि दयया स्मरकालनाश ॥ ३४.४८॥
शिवाय देवदेवाय महादेवाय योगिने ।
रुद्राय स्थाणवे नित्यं हरायोग्राय ते नमः ॥ ४५.४१॥
परमेशाय सिद्धाय सर्वसिद्धिप्रदायिने ।
त्र्यम्बकाय महेशाय अतिशान्ताय ते नमः ॥ ४५.४२॥
॥ इति शिवरहस्यान्तर्गते शिवस्तुतिश्लोकसंनयनम् ६ सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । शिवस्तुतिश्लोकसंनयनम् ५ । वावृत्तश्लोकाः ॥
- .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . shivastutishlokasaMnayanam 5 . vAvRRittashlokAH ..
Notes:
The shlokas eulogizing Shiva शिव; that eventuate sporadically in various Adhyaya-s of Shiva Rahasyam Amsa-11, are collated on this page.
Proofread by Ruma Dewan