शिवस्तुतिश्लोकसंनयनम् ७
(शिवरहस्यान्तर्गते ईशाख्ये)
देवुवाच ।
देव देव महादेव करुणावरुणालय ।
विश्वविश्वाधिकाशास्य त्रिपुरान्धकसंहर ॥ २.१॥
ब्रह्मोवाच ।
शम्भो त्वं कनकाद्रिचापशरधिर्वाहीकृताम्नायकः
पाहीश क्षितिसुन्दरोत्तमरथ श्रीशोऽथ जिष्णुःशरः ।
मौर्वी चोरगपुङ्गवस्तव वरे चक्रे च केन्द्रत्तमे
लक्ष्यं ते त्रिपुरं सुरा भटगणाः कस्ते नमस्ते समः ॥ १२.१०॥
विष्णुरुवाच ।
गङ्गाचन्द्रललामधाम भगवन् हैमागबाणासन
भूमा त्वं खसमीरवह्निजलभूसृष्टिस्थितिग्रासकः ।
शर्व त्वं हरिसायकः क्षितिरथो वाहीकृताम्नायकः
सर्वेषां च पुमर्थदोऽसि कृपया मां पाहि साम्ब प्रभो ॥ १२.२८॥
हिमवानुवाच ।
हर हर मुरजित्पप्रपूजिताङ्घ्रे
वरकाकोदरहार सोमचूड ।
गरकण्ठानलचारुनेत्र शम्भो
सदयं मामवलोकयाशु दीनाम् ॥ १४.६५॥
नारद उवाच ।
शम्भो भर्ग महेश्वरेश्वर महादेवेश विश्वाधिक
विश्वाशास्य दयानिधे श्रुतिशतैरुद्घोषितोऽन्नप्रदः ।
तेनैवाद्य सुतृप्तदीप्तसुरता धन्यैर्मुनीन्द्रैर्गणै-
र्नान्यत्र प्रविशामहे तव कृपापूर्णाः प्रमोदामहे ॥ १९.६९॥
स्कन्द उवाच ।
नमस्ते रुद्राद्यैः प्रतिपदनमोऽन्तैर्मनुगणैः
ऋषि देवध्यानप्रतिमचन वाक्यार्थमधुरैः ।
निरुक्तैरुक्तोऽर्थः श्रुतिशिरसि बोधाय सुगमः
उपायस्ते ज्यायान् अकथयदुमायै स भगवान् ॥ २७.२३॥
सुब्रह्मण्य उवाच ।
कारुण्यामृतसारपूरितलसन्नेत्रान्तसंवीक्षणं
त्रैलोक्यावनदीक्षितं जपवटीराजत्कराम्भोरुहम् ।
साम्बं निर्जरदीर्घिकाप्रविलसत्सम्फुल्लपद्मावली-
धूलीधूसरकर्बुरोज्ज्वलजटारेखं भजे शङ्करम् ॥ ३४.११४॥
त्वय्यासक्तमनास्त्वदेकशरणो वर्ते पुनस्त्वां विना
स्वामिन् पर्वतसार्वभौमतनयाजाने न जाने परम् ।
स त्वं चेदिह न प्रसीदसि ततः कं प्रार्थयेऽहं प्रभो ॥ ३४.११५॥
वन्दे सिन्दूर वर्णं सुरसरिदमृतांशूल्लसत्सत्कपर्दं
भालोद्यन्नेत्रमीशं स्मितमुखकमलं दिव्यभूषाङ्गरागम् ।
व्यस्तोरुन्यस्तपाणिं तरुणकुवलयं सन्दधत्या उमाया
वृत्तोत्तुङ्गस्तनाग्रे निहितकरतलं नीलकण्ठं महेशम् ॥ ३४.११६॥
॥ इति शिवरहस्यान्तर्गते शिवस्तुतिश्लोकसंनयनम् ७ सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । ईशाख्यः द्वादशमांशः । शिवस्तुतिश्लोकसंनयनम् ५ । वावृत्तश्लोकाः ॥
- .. shrIshivarahasyam . IshAkhyaH dvAdashamAMshaH . shivastutishlokasaMnayanam 5 . vAvRRittashlokAH ..
Notes:
The Śloka-s श्लोकाः eulogizing Śiva शिव; that eventuate sporadically in various Adhyāya-s अध्यायाः of ŚivaRahasyam Amśa-12 शिवरहस्यम् अंशः-१२, are collated on this page.
Proofread by Ruma Dewan