शिवस्तुतिश्लोकसंनयनम् ८
- वैद्यनाथस्थलमाहात्म्यान्तर्गतम् -
सूत उवाच ।
साम्बं सदाशिवं ध्यात्वा कालकण्ठमुमापतिम् ।
शरच्चन्द्रसमाकारमुखमण्डलशोभितम् ॥ १.२८॥
त्रिणेत्रं पञ्चवक्त्त्रं च चन्द्रलेखाशिखामणिम् ।
चारुनासापुटं रम्यं विद्रुमोष्ठविराजितम् ॥ १.२९॥
विभूत्या पाण्डरं शम्भुं कटाक्षैः काङ्क्षितार्थदैः ।
वाचामगोचरीभूतमहिमानं जगत्पतिम् ॥ १.३०॥
गौरी उवाच ।
नमस्ते देवदेवेश नमस्ते भक्तवत्सल ।
नमस्ते जगदीशान नमस्ते दिव्यमङ्गल ॥ ३.३५॥
जय देव महादेव जय सर्वजगत्पते । ३.३६.१
अगस्त्य उवाच ।
विश्वेश्वरं महादेवं विरूपाक्षं दयानिधिम् ।
अभ्यर्च्य देवदेवेशमखण्डानन्दविग्रहम् ॥ ५.१६॥
यत्र देवो महादेवो जन्तूनां सर्वदा पुनः ।
तारकब्रह्म सर्वेषामुपदेष्टा विराजते ॥ ५.१७॥
ब्रह्मा उवाच ।
वैद्यनाथ महादेव मणिमन्त्रौषधेश्वर ॥ ७.३९.२
नमस्ते देवदेवेश भक्तवत्सल ते नमः । ७.४०.१
श्रीराम उवाच ।
कृष्णश्रीगन्धकण्ठीश नमो गौरीपते शिव ।
नृत्तसुन्दर शम्भो ते नमस्ते भक्तवत्सल ॥ ९.३५॥
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं दयानिधे । ९.३६.१॥
सिद्धाः उचुः ।
देवदेव महादेव परमेश्वर ते नमः ॥ १०.५.२॥
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं दयानिधे । १०.३२.१
वेदवेद्य कृपाधार जगन्मूर्ते शुभप्रद ।
अनादिवैद्य सर्वज्ञ नमस्ते भक्तवत्सल ॥ १०.२९॥
सर्वलोकमहेशान कलिपापप्रणाशन ।
निर्गुणाकार चिद्रूप ज्ञानदायक ते नमः ॥ १०.३०॥
गृध्रेश उवाच ।
वैद्यनाथ महादेव नमस्ते भक्तवत्सल ।
विधिविष्णुमुनीन्द्राद्यैः अर्च्यमानपदाम्बुज ॥ ११.८६॥
गङ्गाधर जगन्मूर्ते चन्द्रवह्न्यर्कलोचन ।
पिनाकपाणे विश्वेश भिषगीश नमोऽस्तु ते ॥ ११.८७॥
अप्रमेय जगन्नाथ नीलकण्ठ महेश्वर ।
वेदवेद्य कृपाधार जगन्मूर्ते शुभप्रद ॥ ११.८८॥
अनादिवैद्य सर्वज्ञ त्वचिकित्साचिकित्सक ।
मदनान्तक गौरीश भिषगीश नमोऽस्तु ते ॥ ११.८९॥
॥ इति वैद्यनाथस्थलमाहात्म्यान्तर्गतं शिवस्तुतिश्लोकसंनयनं सम्पूर्णम् ॥
Notes:
The Śloka-s श्लोकाः eulogizing Śiva शिव; that eventuate sporadically in various Adhyāya-s अध्यायाः of VaidyanāthaSthalaMāhātmyam वैद्यनाथस्थलमाहात्म्यम्, are collated on this page.
Encoded and proofread by Ruma Dewan