राजशेखरपाण्ड्यकृता शिवताण्डवस्तुतिः
राजशेखरपाण्ड्यः -
परिपूर्णं परानन्दं सत्यज्ञानाद्वयात्मकम् ॥ १॥
भजामि सुन्दरेशानं महदद्भुतताण्डवम् ।
श्रीमत्पञ्चाक्षरमयं पञ्चकृत्यैककारणम् ॥ २॥
भजामि सुन्दरेशानं महदद्भुतताण्डवम् ।
विश्वाधिकं विश्वरूपं विश्वात्मानं परात्परम् ॥ ३॥
भजामि सुन्दरेशानं महदद्भुतताण्डवम् ।
योगाभ्यासरतैस्सद्भिस्सदा ध्येयं सुसिद्धिदम् ॥ ४॥
भजामि सुन्दरेशानं महदद्भुतताण्डवम् ।
भक्तापद्भञ्जनपरं भक्तिगम्यं भवापहम् ॥ ५॥
भजामि सुन्दरेशानं महदद्भुतताण्डवम् ।
भोगमोक्षप्रदं पुंसामागमान्तैरभिष्टुतम् ॥ ६॥
भजामि सुन्दरेशानं महदद्भुतताण्डवम् ।
द्वादशान्तगतं सूक्ष्मं सोमसूर्याग्निकोटिभम् ॥ ७॥
भजामि सुन्दरेशानं महदद्भुतताण्डवम् ।
षट् त्रिंशत्तत्व सोपानमहाप्रासाद मध्यगम् ॥ ८॥
भजामि सुन्दरेशानं महदद्भुतताण्डवम् ।
कालातीतं कालकालं कलाधरकलाधरम् ॥ ९॥
भजामि सुन्दरेशानं महदद्भुतताण्डवम् ।
सूक्ष्मपञ्चाक्षरीभूतप्रणवागारमध्यगम् ॥ १०॥
भजामि सुन्दरेशानं महदद्भुतताण्डवम् ।
निवृत्त्यादिकलातीतं नित्यं सकलनिष्कलम् ॥ ११॥
भजामि सुन्दरेशानं महदद्भुतताण्डवम् ।
सर्वसम्पत्करं सद्यस्सर्वापद्भञ्जनक्षमम् ॥ १२॥
भजामि परमेशानं महदद्भुत ताण्डवम् ।
वीताघसन्धैर्विबुधैर्विशिष्टैः विद्याविशेषार्चितपादपद्म ।
हालास्य नाथाय नमोऽस्तु तुभ्यं श्रीसुन्दरेशाद्भुतताण्डवेश ॥ १३॥
इति स्तुत्वा सुन्दरेशं महाताण्डवपण्डितम् ॥ १४॥
भक्त्या परवशो भूत्वा प्रणिपत्य पुनः पुनः ।
कृतार्थोऽस्मि कृतार्थोऽस्मि कृतार्थोऽस्मीत्युदीर्य सः ॥ १५॥
उत्थाय प्रार्थयामास राजशेखर ईश्वरम् ।
अनुग्रहाय लोकानां किञ्चित्कुञ्चितमुन्नतम् ॥ १६॥
वामं श्रीचरणं शम्भो तव सर्वत्र दृश्यते ।
न तदाश्चर्यमेतत्तु विशिष्टं महदद्भुतम् ॥ १७॥
अस्मद्वंशविवृद्ध्यर्थं लोकानुग्रहहेतवे ।
एवमत्यद्भुतं नृत्तं सदैव कुरु शङ्कर ॥ १८॥
एवं सम्प्रार्थिते भूपे सदा सर्वेष्टसिद्धये ।
ओमोमिति तदा वाणी खादभून्मधुरस्वना ॥ १९॥
श्रुत्वा तामतिसन्तुष्टः प्रणम्य स पुनः पुनः ।
आत्मनीशस्य वात्सल्यं चिन्तयन्नतिभक्तिमान् ॥ २०॥
इति राजशेखरपाण्ड्यप्रोक्ता शिवताण्डवस्तुतिः समाप्ता ।
श्रीस्कान्दे महापुराणे अगस्त्यसंहितायां
हालास्यमाहात्म्ये अध्यायः ३०, लीला २४, श्लोकानि ३८-५७
Proofread by Rajesh Thyagarajan