श्रीशिववेदपादस्तोत्रम् अथवा श्रीशिववेदपादस्तवः

श्रीशिववेदपादस्तोत्रम् अथवा श्रीशिववेदपादस्तवः

श्रीजैमिनिमहर्षिणा प्रणीतो ॥ अथ श्रीवेदपादस्तोत्रप्रारम्भः ॥ (॥ अथ वेदपादस्तवप्रारम्भः ॥) वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ । निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ १॥ कुण्डलीकृतनागेन्द्रं खण्डेन्दुकृतशेखरम् । पिण्डीकृतमहाविघ्नं ढुण्डिराजं नमाम्यहम् ॥ २॥ मातामहमहाशैलं महस्तदपितामहम् । कारणं जगतां वन्दे कण्ठादुपरिवारणम् ॥ ३॥ ऋषय ऊचुः - पुण्डरीकपुरं प्राप्य जैमिनिर्मुनिसत्तमः । किं चकार महायोगी नूतनो वक्तुमर्हसि ॥ १॥ सूत उवाच - भगवान् जैमिनिर्धीमान्पुण्डरीकपुरे पुरा । महर्षिसिद्धगन्धर्वयक्षकिन्नरसेविते ॥ २॥ नृत्यद्भिरप्सरस्सङ्घैर्दिव्यगानैश्च शोभिते । नृत्यन्तं परमीशानं ददर्श सदसि प्रभुम् ॥ ३॥ ननाम दूरतो दृष्ट्वा दण्डवत्क्षितिमण्डले । वपावुत्थाय देवस्य ताण्डवामृतमङ्गलम् ॥ ४॥ (पपा?वुत्थाय, ताण्डवाऽमृतमागलम्) पार्श्वस्थितां महादेवीं पश्यन्तीं तस्य ताण्डवम् । दृष्ट्वा सुसंहृष्टमनाः पपात पुरतो मुनिः ॥ ५॥ ततश्शिष्यास्समाहूय वेदशास्त्रार्थपारगान् । (सर्वशास्त्रार्थ) अग्निकेशमकेशं च सतयोगं च माधवम् ॥ ६॥ (शतयागं जटाधरम्) वक्रनासं समित्पाणिं धूमगन्धिं कुशासनम् । एतैस्सार्थं महादेवं पूजयामास जैमिनिः ॥ ७॥ (एतैस्सार्धम्) ततोऽपि वेदवेदान्तसारार्थं तत्प्रसादतः । कृताञ्जलिरुवाचेदं वेदान्तस्तवमुत्तमम् ॥ ८॥ श्रीजैमिनिरुवाच - ॐ विघ्नेशविधिमार्ताण्डचन्द्रेन्द्रोपेन्द्रवन्दित । नमो गणपते तुभ्यं ब्रह्म॑णां ब्रह्मणस्पते ॥ १॥ ऋ. २.६.२९ उमाकोमलहस्ताब्जसम्भावितललाटिकम् । हिरण्यकुण्डलं वन्दे कुमारं पुष्क॑रस्र॑जम् ॥ २॥ य. ३४.१ शिवं विष्णोश्च दुर्दर्शं नरः कस्स्तोतुमर्हति । तस्मान्मत्तस्स्तुतिस्सेयम॒भ्राद्वृष्टिरि॑वाजनि ॥ ३॥ ऋ. ५.६.१७ नमः शिवाय साम्बाय नमः शर्वाय शम्भवे । नमो नटाय रुद्राय सद॑स॒स्पत॑ये॒ नमः॑ ॥ ४॥ य. ३.२.४.४ पादभिन्नाहिलोकाय मौलिभिन्नाण्डभित्तये । भुजभ्रान्तदिगन्ताय भू॒तानां॒ पत॑ये॒ नमः॑ ॥ ५॥ य. ११.२.१९ क्वणन्नूपुरयुग्माय विलसत्कृत्तिवाससे । फणीन्द्रमेखलायास्तु पशू॒नां पत॑ये॒ नमः॑ ॥ ६॥ य. ४.५.२.१ कालकालाय सोमाय योगिने शूलपाणये । अस्थिभूषाय शुद्धाय जग॑तां॒ पत॑ये॒ नमः॑ ॥ ७॥ य. ४.५.२.१ पात्रे सर्वस्य जगतो नेत्रे सर्वदिवौकसाम् । गोत्राणां पतये तुभ्यं क्षेत्रा॑णां॒ पत॑ये॒ नमः॑ ॥ ८॥ य. ४.५.२.१ शङ्कराय नमस्तुभ्यं मङ्गलाय नमोऽस्तु ते । धनानां पतये तुभ्यमन्ना॑नां॒ पत॑ये॒ नमः॑ ॥ ९॥ य. ४.५.२.१ अष्टाङ्गयोगहृष्टाय क्लिष्टभक्तेष्टदायिने । (अष्टाङ्गायातिहृष्टाय) इष्टिघ्नास्तुतयूष्टाय पुष्टा॑नां॒ पत॑ये॒ नमः॑ ॥ १०॥ य. ४.५.२.१ (इष्टिघ्नायेष्टितुष्टाय) पञ्चभूताधिपतये कालाधिपतये नमः । नम आत्माधिपतये दि॒शां च॒ पत॑ये॒ नमः॑ ॥ ११॥ य. ४.५.२.१ विश्वकर्त्रे महेशाय विश्वभर्त्रे पिनाकिने । विश्वहर्त्रेऽग्निनेत्राय वि॒श्वरू॑पाय॒ वै नमः॑ ॥ १२॥ य. ११.१०.१२ ईशान ते तत्पुरुष नमो घोराय ते सदा । वामदेव नमस्तुभ्यं स॒द्योजा॒ताय॒ वै नमः॑ ॥ १३॥ य. ११.१०.४३ (नमस्तेऽस्तु) भूतिभूषाय भक्तानां भीतिभङ्गरताय ते । नमो भवाय भर्गाय नमो॑ रु॒द्राय॑ मी॒ढुषे॑ ॥ १४॥ य. १०.७.८ सहस्राङ्गाय साम्बाय सहस्राधीश ते नमः । (सहस्राभीषवे नमः ) सहस्रबाहवे तुभ्यं सहस्रा॒क्षाय॑ मी॒ढुषे॑ ॥ १५॥ य। ४.५.१.३ सुकपोलाय सोमाय सुललाटाय सुश्रुवे । (सुभ्रुवे) सुदेहाय नमस्तुभ्यं सुमृडीकाय मी॒ढुषे॑ ॥ १६॥ ऋ. २.१.२६ भवक्लेशनिमित्तोरुभयच्छेदकृते सताम् । (भवक्लेशनिमित्ताय भवच्छेदकृते) नमस्तुभ्यमषाढाय सह॑मानाय वे॒धसे॑ ॥ १७॥ ऋ. २.६.२७ (नमस्तुभ्यमषाह्ळाय) वन्देऽहं देवमानन्दसन्दोहं लास्यसुन्दरम् । समस्तजगतां नाथं सद॑स॒स्पति॒मद्भु॑तम् ॥ १८॥ ऋ. १.१.३५ सुजङ्घं सूदरं सूरुं सुकण्ठं सोमभूषणम् । (सुन्दरं सूरुं) सुगण्डं सुदृशं वन्दे सुगन्धिं᳚ पुष्टिवर्धनम् ॥ १९॥ ऋ. ५.४.३० भिक्षाहारं हरित्क्षौमं रक्षाभूषं क्षितिक्षमम् । (तक्षाभूषं) यक्षेशेष्टं नमामीशम॒क्षरं॑ पर॒मं प्र॒भुम् ॥ २०॥ य. ११.१०.१३ (परमं प॒दम्) अर्धालकमवस्रार्धमस्थ्युत्पलदलस्रजम् । अर्ध पुंलक्षणं वन्दे पुरुषं॑ कृष्ण॒पिङ्ग॑लम् ॥ २१॥ य. ११.१०.१२ सकृत्प्रणतसंसारमहासागरतारकम् । प्रणमामि तमीशानं जग॑तस्त॒स्थुष॒स्पति॑म् ॥ २२॥ ऋ. ५.५.१० त्रातारं जगतामीशं दातारं सर्वसम्पदाम् । (धातारं) नेतारं मरुतां वन्दे जेता॑र॒मप॑राजितम् ॥ २३॥ ऋ. ४.१.१८ तं त्वामन्तकहन्तारं वन्दे मन्दाकिनीधरम् । ततानि विदधे योऽयमि॒मानि॒ त्रीणि॑ वि॒ष्टपा॑ ॥ २४॥ ऋ. ६.६.१४ (विष्टपान्) सर्वज्ञं सर्वगं सर्वं कविं वन्दे तमीश्वरम् । यतश्च यजुषा सार्धमृचः॒ सामा॑नि जज्ञिरे ॥ २५॥ ऋ. ८.४.१८ (सार्थम्) भवन्तं सुदृशं वन्दे भूतभव्यभवत्पतिम् । (भूतभव्यभवन्ति च) त्यजन्तीतरकर्माणि यो विश्वा॒भि वि॒पश्य॑ति ॥ २६॥ ऋ. ८.८.४५ (विश्वा भुवि पश्यति) हरं सुरनियन्तारं परं तमहमानतः । यदाज्ञया जगत्सर्वं व्या॒प्य ना॑राय॒णः स्थि॑तः ॥ २७॥ य. ११.१०.१३ तं नमामि महादेवं यन्नियोगादिदं जगत् । कल्पादौ भगवान् धाता य॑थापू॒र्वम॑कल्पयत् ॥ २८॥ ऋ. ८.८.४८ ईश्वरं तमहं वन्दे यस्य लिङ्गमहर्निशम् । यजन्ते सह भार्याभिरिन्द्र॑ज्येष्ठा॒ मरु॑द्गणाः ॥ २९॥ ऋ २.८.९ नमामि तमिमं रुद्रं यमभ्यर्च्य सकृत्पुरा । अवापुस्स्वं स्वमैश्वर्यं देवा॑सः॒ पूष॑रातयः ॥ ३०॥ ऋ. १.२.९ तं वन्दे देवमीशानं यं शिवं हृदयाम्बुजे । सततं यतयः शान्ताः स॒ञ्जाना॒ना उ॒पास॑ते ॥ ३१॥ ऋ. ८.८.४९ तदस्मै सततं कुर्मो नमः कमलकान्तये । (तदस्यै) उमाकुचपदोरस्का या ते॑ रुद्र शि॒वात॒नूः ॥ ३२॥ य. ४.५.१.१ नमस्ते रुद्रभावाय नमस्ते रुद्रकेलये । नमस्ते रुद्रशान्त्यै च नम॑स्ते रुद्रम॒न्यवे॑ ॥ ३३॥ य. ४.५.१.१ वेदाश्चरथनिष्ठाभ्यां पादाभ्यां त्रिपुरान्तक । (क्षताश्वरथनिष्ठाभ्यां) बाणकार्मुकयुक्ताभ्यां बा॒हुभ्या॑मु॒त ते॒ नमः॑ ॥ ३४॥ य. ४.५.१.१ (कार्मुकहस्ताभ्यां) ईशानं सकलाराध्यं वन्दे सम्पत्समृद्धिदम् । यस्य चासीद्धरिः शस्त्रं ब्र॒ह्मा भ॑वति॒ सार॑थिः ॥ ३५॥ ऋ २.३.१ नमः परशवे देव शूलायानलरोचिषे । हर्यग्नीन्द्रात्मने तुभ्यमु॒तोत॒ इष॑वे॒ नमः॑ ॥ ३६॥ य ४.५.१.१ नमस्ते वासुकिज्याय विष्फाराय च शङ्कर । 36 37 swapped in newer text महते मेरुरूपाय नम॑स्ते अस्तु॒ धन्व॑ने ॥ ३७॥ य ४.५.१.१ सुरेतरवधूहार हारिणी हर यानि ते । अन्यान्यस्त्राण्यहं तूर्णमि॒दं तेभ्यो॑करं॒ नमः॑ ॥ ३८॥ ऋ. ८.३.२३ (तूर्णमहं) धराधरसुतालीला सरोजाहतबाहवे । तस्मै तुभ्यमवोचाम नमो॑ अस्मां अव॒स्यवः॑ ॥ ३९॥ ऋ १.८.६ रक्ष मामक्षमं क्षीणमक्षक्षतमशिक्षितम् । अनाथं दीनमापन्नं दरि॑द्र॒न्नील॑लोहित ॥ ४०॥ य. ४.५.१०.१ (दरि॑द्रं॒ नील॑लोहित) दुर्मुखं दुष्क्रियं दुष्टं रक्षमामीश दुर्दृशम् । (मादृशं) मादृशानामहं न त्वद॒न्यं वि॒न्दामि॒ राध॑से ॥ ४१॥ ऋ. ६.२.१७ (रायसे) भवाख्येनाग्निना शम्भो रागद्वेषमदार्चिषा । दयालो दह्यमानानाम॒स्माक॑मवि॒ता भ॑व ॥ ४२॥ ऋ. २.५.६ परदारं परावासं परवस्त्रं पराप्रियम् । हर पाहि परान्नं मां पुरु॑नाम॒न् पुरु॑ष्टुत ॥ ४३॥ ऋ. ६.६.२४ लौकिकैर्यत्कृतं पुष्टैर्नावमानं सहामहे । देवेश तव दासेभ्यो भूरि॑दा॒ भूरि॑देहिनः ॥ ४४॥ ऋ. ३.६.३० (दानेभ्यो) लोकानामुपपन्नानां गर्विणामीश पश्यताम् । अस्मभ्यं क्षेत्रमायुश्च वसु॑स्स्पा॒र्हं तदाभ॑र ॥ ४५॥ ऋ. ६.३.४९ (वसुस्सार्हं तथा भर) याञ्चादौ महतीं लज्जामस्मदीयां घृणानिधे । त्वमेव वेत्सि नस्तूर्णमिषं॑ स्तो॒तृभ्य॒ आभ॑र ॥ ४६॥ ऋ. ३.८.२२ (नस्तूर्णमिवग्) जाया माता पिता चान्ये मां द्विषन्त्यमतिं कृशम् । देहि मे महतीं विद्यां रा॒या वि॑श्व॒पुषा॑ स॒ह ॥ ४७॥ ऋ. ६.२.२७ (विद्यां राधा) अदृष्टार्थेषु सर्वेषु दृष्टार्थेष्वपि कर्मसु । मेरुधन्वन्नशक्तेभ्यो बलं॑ धेहि त॒नूषु॑ नः ॥ ४८॥ ऋ. ३.३.२२ लब्धानिष्टसहस्रस्य नित्यमिष्टवियोगिनः । (लब्धारिषसहस्रस्य) हृद्रोगं मम देवेश हरि॒माणं॑ च नाशय ॥ ४९॥ ऋ. १.४.८ ये ये रोगाः पिशाचा वा नरा देवाश्च मामिह । बाधन्ते देव तान् सर्वान् निबा॑ध॑स्व म॒हाँ अ॑सि ॥ ५०॥ ऋ. ६.४.४४ (म॒हान॑सि) त्वमेव रक्षितास्माकं नान्यः कश्चन विद्यते । तस्मात्स्वीकृत्य देवेश रक्षा॑णो ब्रह्मणस्पते ॥ ५१॥ ऋ. १.१.३४ त्वमेवोमापते माता त्वं पिता त्वं पितामहः । त्वमायुस्त्वं मतिस्त्वं श्रीरु॒त भ्रातो॒त॑ नः॒ सखा॑ ॥ ५२॥ ऋ. ८.८.४४ (भ्रातोतमस्सखा) यतस्त्वमेव देवेश कर्ता सर्वस्य कर्मणः । ततः क्षमस्व तत्सर्वं यन्म॒या दु॑ष्कृतं कृतम् ॥ ५३॥ य. ११.१०.१ त्वत्समो न प्रभुत्वेन फल्गुत्वेन च मत्समः । अतो देव महादेव त्वम॒स्माकं॒ तव॑स्मसि ॥ ५४॥ ऋ. ६.६.२० (तवस्तसि) सुस्मितं भस्मगौराङ्गं तरुणादित्यविग्रहम् । (सुस्थितं) प्रसन्नवदनं सौम्यं गाये॑द्वा॒ मन॑सा गिरा ॥ ५५॥ ऋ. ६.४.४ (नम॑सा, मनसा) एष एव वरोस्माकं नृत्यन्तन्त्वां सभापते । (एष एवतु सोऽस्माकं नृत्यन्तं त्वावभासते ।) लोकयन्तमुमाकान्तं पश्ये॑म श॒रदः॑ श॒तम् ॥ ५६॥ ऋ. ५.५.११ अरोगिणो महाभागा विद्वांसश्च बहुश्रुताः । भवन्ति त्वत्प्रसादेन जीवे॑म श॒रदः॑ श॒तम् ॥ ५७॥ ऋ. ५.५.११ (भगवन् त्वत्प्रसादेन) सदा च बन्धुभिस्सार्धं त्वदीयं ताण्डवामृतम् । (बन्धुभिस्सार्थं) (पिबतः काममीशानं ददाम श॒रदः॑ श॒तम् ॥) पिबन्तः काममीशान नन्दा॑म श॒रदः॑ श॒तम् ॥ ५८॥ य. ११.४.४२ देवदेव महादेव त्वदीयाङ्घ्रिसरोरुहम् । कामं मधुमयं पीत्वा मोदा॑म श॒रदः॑ श॒तम् ॥ ५९॥ य. ११.४.४२ कीटा नागाः पिशाचा वा ये वा के वा भवे भवे । तव दासा महादेव भवा॑म श॒रदः॑ श॒तम् ॥ ६०॥ य. ११.४.४२ सभायामीश ते दिव्यं नृत्यवाद्यकलस्वनम् । (नृत्तवाद्य) श्रवणाभ्यां महादेव श‍ृण॑वाम श॒रदः॑ श॒तम् ॥ ६१॥ य. ११.४.४२ स्मृतिमात्रेण संसारविनाशनकराणि ते । नामानि तव दिव्यानि प्रब्र॑वाम श॒रदः॑ श॒तम् ॥ ६२॥ य. ११.४.४२ इषुसन्धानमात्रेण दग्धत्रिपुर धूर्जटे । आधिभिर्व्याधिभिर्नित्यमजी॑तास्स्याम श॒रदः॑ श॒तम् ॥ ६३॥ य. ११.४.४२ चारुचामीकराभासं गौरीकुचपदोरसम् । कदानु लोकयिष्यामि युवा॑नं वि॒श्पतिं॑ क॒विम् ॥ ६४॥ ऋ. ६.३.१४( कदानुलोपयिष्यामि, विश्रुतं कविम्) प्रमथेन्द्रावृतं प्रीतवदनं प्रियभाषिणम् । सेविष्येऽहं कदा साम्ब सु॒भासं॑ शु॒क्रशो॑चिषम् ॥ ६५॥ ऋ. ६.२.१२ (साम्बं) बह्वेनसं मामकृतपुण्यलेशं च दुर्मतिम् । स्वीकरिष्यति किन्त्वीशो नील॑ग्रीवो॒ विलो॑हितः ॥ ६६॥ य. ४.५.१ कालशूलानलासक्तभीतिव्याकुलमानसम् । (कालशूरानलासक्त) (कदानु रक्ष्यतीशो मां तु सुग्रीवो अवानतः ॥) कदा नु द्रक्ष्यतीशो मां तुवि॒ग्रीवो॒ अना॑नतः ॥ ६७॥ ऋ. ६.४.४५ गायका यूयमायात यदि रायादिलिप्सवः । धनदस्य सखेशोयमुपा॑स्मै गायता नरः ॥ ६८॥ ऋ. ६.७.३६ (सखेसायमुपास्मै) आगच्छत सखायो मे यदि यूयं मुमुक्षवः । स्तुतेशमेवं मुक्तयर्थमे॒षविप्रै॑र॒भिष्टु॑तः ॥ ६९॥ ऋ. ६.७.२१ (स्तुतेशमेनं) पदे पदे पदे देवपदं नः सेत्स्यति ध्रुवम् । (स्नेह्यति) प्रदक्षिणं प्रकुरुतमध्यक्षं॒ धर्म॑णामि॒मम् ॥ ७०॥ ऋ. ६.३.३३ (प्रकुर्वीतमध्यक्षं) सर्वं कार्यं युवाभ्यां हि सुकृतं सुहृदौ मम । अञ्जलिं कुरुतं हस्तौ रु॒द्राय॑ स्थि॒रध॑न्विने ॥ ७१॥ य. १०.८.८ मन्मूर्धन् मरुतामूर्ध्वं भवं चन्द्रार्धमूर्धजम् । (यन्मूर्धं) मूर्धघ्नं च चतुर्मूर्ध्नो न॒म॒स्या क॑ल्मली॒किन॑म् ॥ ७२॥ ऋ. २.७.१७ (मरुतामूर्ध्वं कल्मनीकिनम्) नयने नयनोद्भूतदहनालीढमन्मथम् । (दमना) पश्यन्तं तरुणं सौम्यं भ्राज॑मानं हिर॒ण्मय॑म् ॥ ७३॥ ऋ. ६.७.२५ सभायां शूलिनस्सन्ध्यानृत्तवाद्यस्वनामृतम् । कर्णौ तूर्णं यथाकामं पा॒तं गौ॒रा वि॒वेरि॑णे ॥ ७४॥ ऋ. ६.६.१० नासिके वासुकिश्वासवासिताभासितोरसम् । घ्रायतं गरलग्रीवमस्म॑भ्यं॒ शर्म॑ यच्छतम् ॥ ७५॥ ऋ. १.१.३३ स्वस्त्यस्तु सुखिते जिह्वे विद्यादातुरुमापतेः । (सखि ते) स्तवमुच्चतरं ब्रूहि जय॑तामिव दुन्दु॒भिः ॥ ७६॥ ऋ. १.२.२५ चेतःपोत न शोचस्त्वं निन्द्यं विन्दाखिलं जगत् । अस्य नृत्तामृतं शम्भोर्गौ॒रो न तृ॑षि॒तः पिब ॥ ७७॥ ऋ. १.१.३० सुगन्धिं सुखसंस्पर्शं कामदं सोमभूषणम् । गाढमालिङ्ग मच्चित्त योषा॑ जा॒रमि॑व प्रि॒यम् ॥ ७८॥ ऋ. ६.८.२२ महामयूखाय महाभुजाय महाशरीराय महाम्बराय । महाकिरीटाय महेश्वराय म॒होम॒हीं सुष्टु॒तिमी॑रयामि ॥ ७९॥ ऋ. २.७.१७ (महोमहाय सुष्टुतमीरयामि) यथा कथञ्चिद्रचिताभिरीश प्रसादतश्चारुभिरादरेण । प्रपूजयामस्स्तुतिभिर्महेश मषा॑ढमुग्रं सह॑मानमा॒भिः ॥ ८०॥ ऋ. ४.६.४ नमश्शिवाय त्रिपुरान्तकाय जगत्त्रयेशाय दिगम्बराय । (जगत्त्रयीशाय) नमोऽस्तु मुख्याय हराय शम्भो (हराय भूयो) नमो॑ जघ॒न्या॑य च॒ बुध्नि॑याय च ॥ ८१॥ य. ४.५.६ नमोऽविकाराय विकारिणे ते (नमो विकाराय) नमो भवायास्तु भवोद्भवाय । बहु प्रजात्यन्त विचित्ररूपा यतः॑ प्रसू॒ता ज॒गतः प्रसू॑ती ॥ ८२॥ य. ११.१०.१ तस्मै सुरेशोरुकिरीटनाना- रत्नावृताष्टापदविष्टराय । भस्माङ्गरागाय नमः परस्मै यस्मा॒त्परं॒ नापर॒मस्ति॒ किञ्चि॑त् ॥ ८३॥ य. ११.१०.१२ सर्पाधिराजौषधिनाथ युद्ध- क्षुभ्यज्जटामण्डलगह्वराय । तुभ्यं नमस्सुन्दरताण्डवाय यस्मिन्निदꣳसं॑ च॒ विचैति॒ सर्व॑म् ॥ ८४॥ य. १०.१.११ मुरारिनेत्रार्चितपादपद्म- मुमाङ्घ्रिलाक्षापरिरक्तपाणिम् । (लाक्षारससक्तपाणिम्) नमामि देवं विषनीलकण्ठं हि॑रण्यदन्तं॒ शुचिवर्णमा॒रात् ॥ ८५॥ ऋ. ३.६.१४ नमामि नित्यं त्रिपुरारिमेनं यमान्तकं षण्मुखतातमीशम् । ललाटनेत्रार्दितपुष्पचापं विश्वं पुरा॒णं तम॑सः॒ पर॑स्तात् ॥ ८६॥ य. ११.१०.१ अनन्तमव्यक्तमचिन्त्यमेकं हरन्तमाशाम्बरमम्बराङ्गम् । अजं पुराणं प्रणमामि योऽय- म॒णोर॑णीयान्मह॒तो म॑हीयान् ॥ ८७॥ य. १०.१०.११ अन्तस्थमात्मानमजं न दृष्ट्वा भ्रमन्ति मूढा गिरिगह्वरेषु । पश्चादुदक्दक्षिणतः पुरस्ता॑- द॒धस्वि॑दा॒सी दु॒परि॑ स्विदासी३त् ॥ ८८॥ ऋ. ८.७.१७ इमं नमामीश्वरमिन्दुमौलिं शिवं महानन्दमशोकदुःखम् । हृदम्बुजे तिष्ठति यः परात्मा प॒रीत्य॒ सर्वाः॑ प्र॒दिशो॒ दिश॑श्च ॥ ८९॥ य. ११.१०.१ रागादिकापथ्यसमुद्भवेन भग्नं भवाख्येन महामयेन । विलोक्य मां पालय चन्द्रमौले भि॒षक्त॑मन्त्वा भि॒षजां॑ श‍ृणोमि ॥ ९०॥ ऋ. २.७.१६ दुःखाम्बुराशिं सुखलेशहीन- मस्पृष्टपुण्यं बहुपातकं माम् । मृत्योः करस्थं भवसर्पभीतं (भव रक्श बीतं) प॒श्चात्पुरस्ता॑दध॒रादुद॑क्तात् ॥ ९१॥ ऋ. ८.४.९ गिरीन्द्रजाचारुमुखावलोक- सुशीतया देव तवैव दृष्ट्या । (सुगीतया चारु) वयं दयापूरितयैव तूर्ण- म॒पो नना॒वा दुरि॒ता त॑रेम ॥ ९२॥ ऋ. ५.१.१२ अपारसंसारसमुद्रमध्ये निमग्नमुत्क्रोशमनल्परागम् । मामक्षयं पाहि महेश जुष्ट- (मामक्षमं) मोजि॑ष्ठया॒ दक्षि॑णयैवरा॒तिम् ॥ ९३॥ ऋ. २.४.८ स्मरन् पुरा सञ्चितपातकानि खरं यमस्याभिमुखं यमारे । बिभेमि मे देहि यथेष्टमायु- र्यदि॑ क्षि॒तायुर्यदि॑ वा॒ परे॑तः ॥ ९४॥ ऋ. ८.८.१९ सुगन्धिभिः सुन्दरभस्मगौरै- (सुगन्धगस्सुन्दर) रनन्तभोगैर्मृदुलैरघोरैः । इमं कदालिङ्गति मां पिनाकी स्थि॒रेभि॒रङ्गैः॑ पुरु॒रूप॑ उ॒ग्रः ॥ ९५॥ ऋ. २.७.१७ क्रोशन्तमीशः पतितं भवाब्धौ नागास्यमण्डूकमिवातिभीतम् । कदा नु मां रक्ष्यति देवदेवो हिरण्यरूपः स॒हिर॑ण्यसन्दृक् ॥ ९६॥ ऋ. २.७.२३ चारुस्मितं चन्द्रकलावतंसं गौरीकटाक्षार्हमयुग्मनेत्रम् । आलोकयिष्यामि कदा नु देव- मादि॒त्यव॑र्णं॒ तम॑सः॒ पर॑स्तात् ॥ ९७॥ य. ११.३.१३.१ आगच्छतात्राशु मुमुक्षवो ये यूयं शिवं चिन्तयतोऽन्तरब्जे । (चिन्तयतान्तरब्जे) ध्यायन्ति मुक्त्यर्थमिमं हि नित्यं वेदान्तवि॒ज्ञान॒सुनि॑श्चिता॒र्थाः ॥ ९८॥ य. १०.१०.११ आयात यूयं भुवनाधिपत्य- कामा महेशं सकृदर्चयध्वम् । एनं पुराभ्यर्च्य हिरण्यगर्भो भूतस्य॑ जा॒तः पति॒रेक॑ आसीत् ॥ ९९॥ ऋ. ८.७.३ ये कामयन्ते विपुलां श्रियं ते श्रीकण्ठमेनं सकृदानमन्ताम् । श्रीमानयं श्रीपतिवन्द्यपादः श्री॒णामुदा॒रो ध॒रुणो॑रयी॒णाम् ॥ १००॥ ऋ. ७.८.२८ सुपुत्रकामा अपि ये मनुष्या युवानमेनं गिरिशं यजन्ताम् । यतस्स्वयम्भूर्जगतां विधाता हिरण्यग॒र्भः सम॑वर्त॒ताग्रे॑ ॥ १०१॥ ऋ. ८.७.३ अलं किमुक्तैर्बहुभिस्समीहितं (समीरितं) समस्तमस्याश्रयणेन सिध्यति । पुरैनमाश्रित्य हि कुम्भसम्भवो दिवा॒ न नक्तं॑ पलि॒तो इवा॑जनि ॥ १०२॥ ऋ. २.२.१३ (दिवा न सक्तं) अन्यत्परित्यज्य ममाक्षिभृङ्गौ (भृङ्गाः) सर्वं सदैनं शिवमाश्रयेथाम् । (शिवमाश्रयध्वम्) आमोदवानेष मृदुश्शिवोऽयं स्वा॒दुष्कि॑ला॒यं मधु॑मां उ॒तायम् ॥ १०३॥ ऋ. ४.७.३० भविष्यसि त्वं प्रतिमानहीनो (प्रतिमाविहीना) विनिर्जिताऽशेषनरामरा च । नमोऽस्तु ते वाणि महेशमेनं स्तु॒हि श्रु॒तं ग॑र्त॒सदं॒ युवा॑नम् ॥ १०४॥ ऋ. २.७.१८ यद्यन्मनश्चिन्तयसि त्वमिष्टं तत्तद्भविष्यत्यखिलं ध्रुवं ते । दुःखे निवृत्तेः विषये कदाचि- (निवृत्तिर्विषये) द्यक्ष्वा॑म॒हे सौ॑मन॒साय॑ रु॒द्रम् ॥ १०५॥ ऋ. ४.२.१९ अज्ञानयोगादपचारकर्म यत्पूर्वमस्माभिरनुष्ठितं ते । तद्देव सोढ्वा सकलं दयालो पि॒तेव॑ पु॒त्रान्प्रति॑ नो जुषस्व ॥ १०६॥ ऋ. ५.४.२१ संसाराख्यक्रुद्धसर्पेण तीव्रैः रागद्वेषोन्मादलोभादिदन्तैः । दष्टं दृष्ट्वा मां दयालुः पिनाकी दे॒वस्त्रा॒ता त्रा॑यता॒मप्र॑यच्छन् ॥ १०७॥ ऋ. १.७.२४ इत्युक्त्वान्ते यत्समाधेर्नमन्तो (यत्समाधेर्न मन्त्रो) रुद्राद्यास्त्वां यान्ति जन्माहिदष्टाः । (रुद्रं ध्यात्वा) सन्तो नीलग्रीवसूत्रात्मनाहं (नीलग्रीवमन्त्रात्मनाहं) तत्त्वा॑यामि॒ ब्रह्म॑णां॒ वन्द॑मानः ॥ १०८॥ ऋ. १.२.१५ भवातिभीषणज्वरेण पीडितान् महाभयान- शेषपातकालयानदूरकाललोचनान् । अनाथनाथ ते करेण भेषजेन कालहन्नु- दूषणो व॒सो म॒हे मृ॒शस्व॑ शूर॒ राध॑से ॥ १०९॥ ऋ. ६.५.९ जयेम येन सर्वमेतदिष्टमष्टदिग्गजं भुवः स्थलं नभः स्थलं दिवःस्थलं च तद्गतम् । य एष सर्वदेवदानवानतः सभापतिः स नो ददातु॒ तं र॒यिं र॒यिं पि॒शङ्ग॑सदृशम् ॥ ११०॥ ऋ. ८.८.१० (पिशङ्गसन्धृतं) नमो भवाय ते हराय भूतिभासितोरसे नमो मृडाय ते हराय भूतभीतिभङ्गिने । (नमो भवारये भवार्तिभीतिभङ्गदायिने ।) नमश्शिवाय विश्वरूपशाश्वताय शूलिने न यस्य॑ ह॒न्यते॒ सखा॒ न जी॑यते॒ कदा॑चन ॥ १११॥ ऋ. ८.८.१० सुरपतिपतये नमो नमः क्षितिपतिपतये नमो नमः प्रजापतिपतये । नमो नमोऽम्बिकापतये उमापतये पशुपतये॑ नमो॒ नमः॑ ॥ ११२॥ य. ११.१०.२२ विनायकं वन्दनमस्तकाहति- प्रणामसङ्घुष्टसमस्तविष्टपम् । नमामि नित्यं प्रणतार्तिनाशनं क॒विं कवी॒नामुप॒मश्र॑वस्तमम् ॥ ११३॥ ऋ. २.६.२६ देवा युद्धे यागे विप्राः स्वीयां सिद्धिं ह्वायन् ह्वायन् । (ह्वायं ह्वायम्) यं सिद्ध्यन्ति स्कन्दं वन्दे सुब्रह्म॒ण्योꣳ सुब्रह्म॒ण्योम् ॥ ११४॥ य. ११.१.१२.३ नमश्शिवायै जगदम्बिकायै शिवप्रियायै शिवविग्रहायै । समुद्बभूवाद्रिपतेस्सुतायै चतु॑ष्कवर्दायुव॒तिस्सु॒पेशाः॑ ॥ ११५॥ ऋ. ८.६.१६ (चतु॑ष्कपर्द्रा) हिरण्यवर्णां मणिनूपुराङ्घ्रिं प्रसन्नवक्त्रांशुकपद्महस्ताम् । विशालनेत्रां प्रणमामि गौरीं व॒चो॒ विदं॒ वाच॑मुदी॒रय॑न्तीम् ॥ ११६॥ ऋ. ६.७.८ नमामि मेनातनयाममेया- मुमामिमां मानवतीं च मान्याम् । करोति या भूतिसितौ स्तनौ द्वौ प्रियं॒ सखा॑यं परिषस्वजा॒ना ॥ ११७॥ ऋ ५.१.१९ कान्तामुमाकान्त नितान्तकान्ति- (कान्तामिमां कान्त) भ्रान्तामुपान्तानतहर्यजेन्द्राम् । (भ्रान्तामुमां तां) नतोस्मियास्ते गिरिशस्य पार्श्वे (नकोस्मियास्ते) विश्वा॑नि दे॒वी भुव॑नाभि॒चक्ष्या॑ ॥ ११८॥ ऋ. १.६.२५ वन्दे गौरीं तुङ्गपीनस्तनीं त्वां (तां) चन्द्राचूडां श्लिष्टसर्वाङ्गरागाम् । (चन्द्रापीडां मृष्टसर्वाङ्गरागाम्) एषा देवी प्राणिनामन्तरात्मा दे॒वं दे॑वं॒ राध॑से चो॒दय॑न्तीम् ॥ ११९॥ ऋ. ५.५.२६ एनां वन्दे दीनरक्षाविनोदा- मेनां कन्यामानतानन्ददात्रीम् । या विद्यानां मङ्लानां च वाचा- मे॒षा ने॒त्री राध॑सस्सू॒नृता॑नाम् ॥ १२०॥ ऋ. ५.५.२३ भवाभिभीतोरुभयापहन्त्रि (भवानुभूतोरुभयापहन्त्रीं) भवानि भोग्याभरणैकभोगैः । (भवानुभागाभरणैकभोगी) श्रियं परां देहि शिवप्रिये नो (मे) ययाति॒ विश्वा॑ दुरि॒ता तरे॑म ॥ १२१॥ ऋ. ६.३.२८ शिवे कथं त्वं स्तुतिभिस्तु गीयसे (मतिभिस्तु) जगत्त्रयी केलिरयं शिवः पतिः । (जगत्कृतिः) हरिस्तु दासोऽनुचरेन्दिरा शची सर॑स्वती वा सु॒भगा॑द॒दिर्वसु॑ ॥ १२२॥ ऋ. ६.२.४ इमं स्तवं जैमिनिना प्रचोदितं (समीरितं) द्विजोत्तमो यः पठतीशभक्तितः । तमिष्टवाक्सिद्धिमतिश्रियः परं (तमिष्टवाक्सिद्धिमतिद्युतिश्रियः) परि॑ष्वजन्ते॒ जन॑यो॒ यथा॒मति॑म् ॥ १२३॥ ऋ. ७.८.२४ महीपतिर्यस्तु युयुत्सुरादरा- दिदं पठत्याशु तथैव सादरात् । (महीपतिर्यस्तु युयुत्सुरादरादिमं पठत्यस्य तथैव सुन्दरम् ।) प्रयान्ति वा शीघ्रमथान्तकान्तिकं (शीघ्रमथान्तकं) भियं परं दधा॑ना॒ हृद॑येषु॒ शत्र॑वः ॥ १२४॥ ऋ. ८.३.१९ त्रैवर्णिकेष्वन्यतमो य एनं नित्यं कदाचित् पठतीशभक्तितः । कलेवरान्ते शिवपार्श्ववर्ती निरञ्ज॒नः साम्यमुपै॑ति दि॒व्यम् ॥ १२५॥ मुण्डकोपनिषदि. ५० लभन्ते पठन्तो मतिं बुद्धिकामा लभन्ते चिरायुस्तथाऽऽयुष्यकामाः । लभन्ते तथैव श्रियं पुष्टिकामा (लभन्ते पठन्तः श्रियं) ल॒भ॒न्ते॒ ह॒ पुत्राँल्लभन्ते॑ ह पौ॒त्रान् ॥ १२६॥ ऋ. ९.१० सूत उवाच - इत्यनेन स्तवेनेशं स्तुत्वासौ जैमिनिर्मुनिः । स्नेहाश्रुपूर्णनयनः प्रणनाम सभापतिम् ॥ १२७॥ मुहुर्मुहुः पिबन्नीश-ताण्डवामृतमागलम् । सर्वान् कामानवाप्यान्ते गाणपत्यमवाप सः ॥ १२८॥ पादं वाप्यर्धपादं वा श्लोकं श्लोकार्धमेव वा । यस्तु वाचयते नित्यं समोक्षमधिगच्छति ॥ १२९॥ वेदः शिवः शिवो वेदो वेदाध्यायी सदाशिवः । तस्मात्सर्वप्रयत्नेन वेदाध्यायिनमर्चयेत् ॥ १३०॥ अधीतविस्मृतो वेदो वेदपादस्तवं पठन् । स चतुर्वेदसाहस्रपारायणफलं लभेत् ॥ १३१॥ कृपासमुद्रं सुमुखं त्रिनेत्रं जटाधरं पार्वतिवामभागम् । सदाशिवं रुद्रमनन्तरूपं विश्वेश्वरं त्वां हृदि भावयामि ॥ १३२॥ आनन्दनृत्यसमये नटनायकस्य पादारविन्दमणिनूपुरशिञ्जितानि । आनन्दयन्ति मदयन्ति विमोहयन्ति रोमाञ्चयन्ति नयनानि कृतार्थयन्ति ॥ १३३॥ अतिभीषण-कटुभाषण-यमकिङ्कर-पटली- कृतताडन-परिपीडन-मरणागम-समये । उमया सह मम चेतसि यम-शासन-निवसन् हर शङ्कर शिव शङ्कर हर मे हर दुरितम् ॥ १३४॥ इति श्रीजैमिनिमहर्षिणा प्रणीतो वेदपादस्तवस्सम्पूर्णः । (इति जैमिनिकृत-वेदपादस्तोत्रं सम्पूर्णम् ।) शुभम् ॥ Proofread by Aruna Narayanan
% Text title            : shivavedapAdastotram or shivavedapAdastavaH
% File name             : shivavedapAdastotram.itx
% itxtitle              : shivavedapAdastotram athavA shivavedapAdastavaH
% engtitle              : shivavedapAdastotram or shivavedapAdastavaH
% Category              : shiva, vedapAda
% Location              : doc_shiva
% Sublocation           : shiva
% Texttype              : svara
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Rajnarayanan
% Proofread by          : Rajnarayanan C K, Aruna Narayanan
% Indexextra            : (Scans 1, 2, 3)
% Acknowledge-Permission: Sadyojata Manasa Mandiram, Kotatattupadukerekota, karNATaka, Sharada
% Latest update         : September 19, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org