शिवविद्याकथनं शिवविद्याप्रश्नः
शिवविद्या महाविद्या सा विद्या मुक्तिदायिनी ।
तां विद्यां वेद वेदो वा गौरी वा शङ्करोऽथवा ॥ १॥
कुमारो वा गणेशो वा नन्दिकेशोऽपि वा स्वयम् ।
यदि स्याद्गिरिजाकान्ते भक्तिरव्यभिचारिणी ॥ २॥
तदैव शिवविद्यायाः स्वरूपप्रवणो भवेत् ।
भक्तिरीशे तथा तावत् न कम्याप्यद्भुतं तपः ॥ ३॥
शिवविद्याप्रभावज्ञो दुर्लभो भूतले मुने ।
यथा भक्तिर्महादेवे तव सा तपसा खलु ॥ ४॥
तथाऽद्यापि न दृष्टैव भक्तिरव्यभिचारिणी ।
भक्तिरत्नतया ख्याता सैव भक्तिर्महेश्वरे ॥ ५॥
सा भक्तिर्मुक्तिदा नॄणां संसारभयमोचिनी ।
महादेवश्चिदाकारः परमानन्दविग्रहः ॥ ६॥
निर्गुणोऽपीति निर्णीतः पार्वतीपतिरित्यपि ।
चन्द्रचूड इति ख्यातः त्रिपुरान्तक इत्यपि ॥ ७॥
स्मरारिरिति विख्यातः कालकण्ठ इति स्मृतः ।
त्रिशूलपाणिः सर्वेशो जटामण्डलमण्डितः ॥ ८॥
उमार्धविग्रहत्वेन प्रख्यातः परमेश्वरः ।
अन्धकारिरिति ख्यातो वृषभध्वज इत्यपि ॥ ९॥
लिङ्गाकार इति ख्यातो भस्मोद्धूलितविग्रहः ।
रुद्राक्षभूषणः शान्तो नीलकण्ठ इति स्मृतः ॥ १०॥
विरूपाक्ष इति ख्यातो दक्षो दाक्षायणीप्रियः ।
कुमारगुरुरव्यक्तो व्यक्तः सुन्दरविग्रहः ॥ ११॥
कामारिरिति विख्यातः कामदत्वेन कीर्तितः ।
अक्षरत्वेन विज्ञातो विज्ञानानन्दसागरः ॥ १२॥
ईश्वरः परमात्मा च परमात्मा परात्परः ।
इत्यन्योन्यं विरुद्धं हि नाम सर्वे चिदात्मके ॥ १३॥
चिद्विलास इति ख्यातं चिदित्यपि विशेषतः ।
इदं सर्वं वदास्मभ्यं शिवधर्मान् विशेषतः ॥ १४॥
॥ इति शिवरहस्यान्तर्गते शिवविद्याकथनं / शिवविद्याप्रश्नः सम्पूर्णः ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः २। १-१४ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 2. 1-14 ..
Proofread by Ruma Dewan