सनन्दनप्रोक्तं शिवविद्यामहिमावर्णनम्

सनन्दनप्रोक्तं शिवविद्यामहिमावर्णनम्

सत्यव्रतः - सनन्दनापूर्वमिदं प्रपश्य ज्योतिः कदाचिन्न विलोकितं च । न वा श्रितं किञ्चिदिदं वदाशु लोकस्य तत्त्वं विदितं त्वया तु ॥ ५॥ सनन्दनः - श्रीपञ्चाक्षरविद्यया स्थिरमतिर्नित्यं शिवाराधको भस्मोद्धूलितविग्रहः श्रुतिलसद्भूतित्रिपुण्ड्राङ्कितः । त्यक्त्वा देवमुमासहायचरणध्यानातिपूतोऽधुना गौरीनाथपदारविन्दभजनं कर्तुं प्रयाति ध्रुवम् ॥ ६॥ अयं पुण्यपुञ्जस्वरूपोप्यपापो विघूताधितापो विशेषेण दृष्टः । अदृष्टं समुद्भूतमेवाद्य सत्यं किमेतादृशालोकने शोकशूकम् ॥ ७॥ अपाररविमण्डलप्रकरमालिकासन्निभं प्रयाति शिवमन्दिरं सकललोकशोकापहम् । विलोकय विलोकय स्मरहरोरुविद्यानिधिं पुनर्नयनगोचरः किमयमद्य भूयो नृप ॥ ८॥ विभाति शिवविद्यया तरणिमण्डलस्याप्ययं निरोधकतया मितोप्यमितभानुमालायितः । इदं खलु महत्तरं भवति भाग्यमीशार्चना- दयं भवति शङ्करप्रवणमानसः सर्वदा ॥ ९॥ शिवार्चनफलं परं भवति तावदेतादृशं प्रभूतबहुपुण्यवानयमुमासहायार्चकः । अयं गुरुरिति श्रुतः शिवपरायणानां परं प्रदर्शनमयं करोत्यनघशैवमार्गस्य किम् ॥ १०॥ महान् खलु शिवार्चको भुवनमण्डलाखण्डलः प्रचण्डतरपातकप्रचलपर्वतानां पविः । किमेवमिदमद्भुतं शिवपदाम्बुजाराधनं महाघवनपावकं सकललोकसन्तोषदम् ॥ ११॥ स याति शिवमन्दिरं शिवपदाम्बुजाराधना- दिहैतदवलोकनाद्भवति पुण्यराशिः स्थिता । सुखाम्बुनिधिरुत्थितः शिवजनेष्टचन्द्रोदया- दहो भवति देहिनां शिवपदार्चनं पुण्यतः ॥ १२॥ स किं मम सखा पिता किमुत सोदरो वा हित- स्त्वयापि शिवपूजकः सकृदवेक्षितो वा भृशम् । प्रयच्छति कथं सुरप्रवरशङ्कराराधकः कदम्बवनभूरुहो भवति दुर्लभो दुर्लभः ॥ १३॥ अनेन जननोत्तरं शिवपदाम्बुजाराधना- दवाप्तमतुलं जगद्भवति भाग्यमानन्ददम् । प्रयच्छति कथं सुरप्रवरशङ्कराराधकः स तेन शिवपूजनं पुनरपारभाग्यप्रदम् ॥ १४॥ शिवव्रतरतः सदा शिवकथाविचारे रतः शिवप्रवणमानसः शिवकथानुमोदप्रियः । शिवं वदति सन्ततं शिवशिवेति नाम स्मरन् शिवं भवति भावितं सुकृतराशिभिः केवलम् ॥ १५॥ शिवं सुखकरं परं वदति साधु वीरेश्वरं शिवं भवति चेतसा कमलकुन्दबिल्वीदलैः । समर्चयति सादरं गिरिकुमारिकावल्लभं परं स्वकुलदैवतं सततमेव मेने मुदा ॥ १६॥ श‍ृणोति शिवविद्यया परमुदारकीर्तिं हरं महेश्वरमहेश्वरेत्यमरसार्वभौमं हृदि । विचिन्त्य पुनरादरात् कनककेतकीचम्पकैः करोति विकटार्चनं समभिपूज्य वीरेश्वरम् ॥ १७॥ अपारजलधारया शिरसि चैकवीरेश्वरं चकार सुमुखं मुहुः स खलु कालकालार्चने । चकार करणं वयो विरत एव संसारतो युवापि युवतीं वधूमपि विहाय तन्मातरि ॥ १८॥ यदेव धनमार्जितं विविधशास्त्रविद्यात्मकं तदप्यगसुतापतिस्मरणकारणं केवलम् । मनोऽपि शिवविद्यया परमपावनं तस्य वै प्रयाति शिवमन्दिरं सुरकृतार्यडिण्डीरवैः ॥ १९॥ न तेन सुखसाधनं शिवपदाम्बुजाराधनात् विभिन्नमपि निर्मितं नियमतोऽथवा निश्चितम् । तदेव सकलार्थदं परममुक्तिदानक्षमं न हातुमपि वाञ्छित प्रबलसङ्कटेऽपि ध्रुवम् ॥ २०॥ ॥ इति शिवरहस्यान्तर्गते सनन्दनप्रोक्तं शिवविद्यामहिमावर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः २९। ५-२०॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 29. 5-20.. Proofread by Ruma Dewan
% Text title            : Sanandanaproktam Shivavidyamahimavarnanam 1
% File name             : shivavidyAmahimAvarNanam1.itx
% itxtitle              : shivavidyAmahimAvarNanam 1 sAnandanaproktam (shivarahasyAntargatam)
% engtitle              : shivavidyAmahimAvarNanam 1 sAnandanaproktam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shivarahasyam | harAkhyaH tRitIyAMshaH | uttarArdham | adhyAyaH 29 | 5-20 ||
% Indexextra            : (Scan)
% Latest update         : January 30, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org