सनन्दनप्रोक्तं शिवविद्यामहिमावर्णनम्
सत्यव्रतः -
सनन्दनापूर्वमिदं प्रपश्य ज्योतिः कदाचिन्न विलोकितं च ।
न वा श्रितं किञ्चिदिदं वदाशु लोकस्य तत्त्वं विदितं त्वया तु ॥ ५॥
सनन्दनः -
श्रीपञ्चाक्षरविद्यया स्थिरमतिर्नित्यं शिवाराधको
भस्मोद्धूलितविग्रहः श्रुतिलसद्भूतित्रिपुण्ड्राङ्कितः ।
त्यक्त्वा देवमुमासहायचरणध्यानातिपूतोऽधुना
गौरीनाथपदारविन्दभजनं कर्तुं प्रयाति ध्रुवम् ॥ ६॥
अयं पुण्यपुञ्जस्वरूपोप्यपापो विघूताधितापो विशेषेण दृष्टः ।
अदृष्टं समुद्भूतमेवाद्य सत्यं किमेतादृशालोकने शोकशूकम् ॥ ७॥
अपाररविमण्डलप्रकरमालिकासन्निभं
प्रयाति शिवमन्दिरं सकललोकशोकापहम् ।
विलोकय विलोकय स्मरहरोरुविद्यानिधिं
पुनर्नयनगोचरः किमयमद्य भूयो नृप ॥ ८॥
विभाति शिवविद्यया तरणिमण्डलस्याप्ययं
निरोधकतया मितोप्यमितभानुमालायितः ।
इदं खलु महत्तरं भवति भाग्यमीशार्चना-
दयं भवति शङ्करप्रवणमानसः सर्वदा ॥ ९॥
शिवार्चनफलं परं भवति तावदेतादृशं
प्रभूतबहुपुण्यवानयमुमासहायार्चकः ।
अयं गुरुरिति श्रुतः शिवपरायणानां परं
प्रदर्शनमयं करोत्यनघशैवमार्गस्य किम् ॥ १०॥
महान् खलु शिवार्चको भुवनमण्डलाखण्डलः
प्रचण्डतरपातकप्रचलपर्वतानां पविः ।
किमेवमिदमद्भुतं शिवपदाम्बुजाराधनं
महाघवनपावकं सकललोकसन्तोषदम् ॥ ११॥
स याति शिवमन्दिरं शिवपदाम्बुजाराधना-
दिहैतदवलोकनाद्भवति पुण्यराशिः स्थिता ।
सुखाम्बुनिधिरुत्थितः शिवजनेष्टचन्द्रोदया-
दहो भवति देहिनां शिवपदार्चनं पुण्यतः ॥ १२॥
स किं मम सखा पिता किमुत सोदरो वा हित-
स्त्वयापि शिवपूजकः सकृदवेक्षितो वा भृशम् ।
प्रयच्छति कथं सुरप्रवरशङ्कराराधकः
कदम्बवनभूरुहो भवति दुर्लभो दुर्लभः ॥ १३॥
अनेन जननोत्तरं शिवपदाम्बुजाराधना-
दवाप्तमतुलं जगद्भवति भाग्यमानन्ददम् ।
प्रयच्छति कथं सुरप्रवरशङ्कराराधकः
स तेन शिवपूजनं पुनरपारभाग्यप्रदम् ॥ १४॥
शिवव्रतरतः सदा शिवकथाविचारे रतः
शिवप्रवणमानसः शिवकथानुमोदप्रियः ।
शिवं वदति सन्ततं शिवशिवेति नाम स्मरन्
शिवं भवति भावितं सुकृतराशिभिः केवलम् ॥ १५॥
शिवं सुखकरं परं वदति साधु वीरेश्वरं
शिवं भवति चेतसा कमलकुन्दबिल्वीदलैः ।
समर्चयति सादरं गिरिकुमारिकावल्लभं
परं स्वकुलदैवतं सततमेव मेने मुदा ॥ १६॥
शृणोति शिवविद्यया परमुदारकीर्तिं हरं
महेश्वरमहेश्वरेत्यमरसार्वभौमं हृदि ।
विचिन्त्य पुनरादरात् कनककेतकीचम्पकैः
करोति विकटार्चनं समभिपूज्य वीरेश्वरम् ॥ १७॥
अपारजलधारया शिरसि चैकवीरेश्वरं
चकार सुमुखं मुहुः स खलु कालकालार्चने ।
चकार करणं वयो विरत एव संसारतो
युवापि युवतीं वधूमपि विहाय तन्मातरि ॥ १८॥
यदेव धनमार्जितं विविधशास्त्रविद्यात्मकं
तदप्यगसुतापतिस्मरणकारणं केवलम् ।
मनोऽपि शिवविद्यया परमपावनं तस्य वै
प्रयाति शिवमन्दिरं सुरकृतार्यडिण्डीरवैः ॥ १९॥
न तेन सुखसाधनं शिवपदाम्बुजाराधनात्
विभिन्नमपि निर्मितं नियमतोऽथवा निश्चितम् ।
तदेव सकलार्थदं परममुक्तिदानक्षमं
न हातुमपि वाञ्छित प्रबलसङ्कटेऽपि ध्रुवम् ॥ २०॥
॥ इति शिवरहस्यान्तर्गते सनन्दनप्रोक्तं शिवविद्यामहिमावर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः २९। ५-२०॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 29. 5-20..
Proofread by Ruma Dewan