शिवेन ऋभुं प्रति शिवार्चनोपदेशः
वेदान्तपाठपठनेन हठादियोगैः श्रीनीलकण्ठपदभक्तिविकुण्ठभावाः ।
ये कर्मठा यतिवरा हरिसौरिगेहे सालावृकैर्वरकठोरकुठारघातैः ॥ १॥
भिन्नोत्तमाङ्गहृदयाश्च भुसुण्डिभिस्ते भिक्षाशना जरठरासभवद्भ्रमन्ति ॥ २॥
विद्युच्चञ्चलजीवितेऽपि न मनागुत्पद्यते शाम्भवी
भक्तिर्भीमपदाम्बुजोत्तमपदे भस्मत्रिपुण्ड्रेऽपि च ।
रुद्राक्षामलरुद्रसूक्तिजपने निष्ठा कनिष्ठात्मनां
विष्ठाविष्टकुनिष्ठकष्टकुधियां दुष्टात्मनां सर्वदा ॥ ३॥
भ्रष्टानां दुरदृष्टतो जनिजरानाशेन नष्टात्मनां
ज्येष्ठश्रीशिपिविष्टचारुचरणाम्भोजार्चनानादरः ।
तेनानिष्टपरम्परासमुदयैरष्टाकृतेर्न स्मृतिः
विष्ठापूरितदुर्मुखेषु नरके भ्रष्टे चिरं संस्थितिः ॥ ४॥
अज्ञायत्तेष्वभिज्ञाः सुरवरनिकरं स्तोत्रशास्त्रादितुष्टं
सत्राशं मन्त्रमात्रैर्विधिविहितधिया सामभागैर्यजन्ति ।
श्राद्धे श्रद्धाभरणहरणभ्रान्तरूपान्पितॄंस्ते
तत्तच्छ्रद्धासमुदितमनः स्वान्तरा शम्भुमीशम् ॥
नाभ्यर्चन्ति प्रणतशरणं मोक्षदं मां महेशम् ॥ ५॥
आर्याः शर्वसमर्चनेन सततं दूर्वादलैः कोमलैः
बिल्वाखर्वदलैश्च शङ्करमहाभागं हृदन्तः सदा ।
पर्वस्वप्यविशेषितेन मनसा गर्वं विहायादरात्
दुर्गाण्याशु तरन्ति शङ्करकृपापीयूषधारारसैः ॥ ६॥
श्रीचन्द्रचूडचरणाम्बुज पूजनेन कालं नयन्ति पशुपाशविमुक्तिहेतोः ।
भावाः परं भसितभाललसत्त्रिपुण्ड्ररुद्राक्षकङ्कणलसत्करदण्डयुग्माः ॥ ७॥
पञ्चाक्षरप्रणवसूक्तधिया वदन्ति नामानि शाम्भवमनोहरदानि शम्भो ।
मुक्तिप्रदानि सततं शिवभक्तवर्याः ये बिल्वमूलशिवलिङ्गसमर्चनेन ॥ ८॥
कालं नयेद्विमलकोमलबिल्वपत्रैः नो तस्य कालजभयं भवतापपापम् ।
सन्तापभूपजनितं भजतां महेशम् ॥ ९॥
शश्वद्विश्वेशपादौ यमशमनियमैर्भूतिरुद्राक्षगात्रो
विश्वत्रस्तो भुजङ्गाङ्गदवरगिरिजानायके लब्धभक्तिः ।
मुग्धोऽप्यध्यात्मविद् यो भवति भवहरस्यार्चया प्राप्तकामः ॥ १०॥
शब्दैरब्दशतेऽपि नैव स लभेत् ज्ञानं न तर्कभ्रमैः
मीमांसा द्वयतः (हृयतो) तथाद्वयपदं किं साङ्ख्यसङ्ख्या वद ।
योगायासपरम्परादिविहितैर्वेदान्तकान्तारके
श्राम्यन्भक्तिविवर्जितेन मनसा शम्भोः पदे मुक्तये ॥ ११॥
किं गङ्गया वा मकरे प्रयागस्नानेन वा योगमखक्रियाद्यैः ।
यत्रार्चितं लिङ्गवरं शिवस्य तत्रैव सर्वार्थपरम्परा स्यात् ॥ १२॥
श्रीशैलो हिमभूधरोऽरुणगिरिर्वृद्धाद्रिगोपर्वतौ
श्रीमद्धेमसभाविहार भगवन्नृत्तं त्रिनेत्रो गिरिः ।
कैलासोत्तरदक्षिणौ च भगवान्यत्रार्चने शङ्करो लिङ्गे
सन्निहितो वसत्यनुदिनं शाङ्गस्य हृत्पङ्कजे ॥ १३॥
तत्राविमुक्तं शशिचूडवासमोङ्कारकालञ्जर रुद्रकोटिम् ।
गङ्गाबुधेः सङ्गममम्बिकापतिप्रियं तु गोकर्णकसह्यजातटम् ॥ १४॥
यत्राभ्यर्णगतं महेशकरुणापूर्णं तु तूर्णं हृदा
लिङ्गं पूजितमप्यपास्तदुरितं तीर्थानि गङ्गादयः ।
पुण्याश्चाश्रमसङ्घका गिरिवरक्षेत्राणि शम्भोः पदं
भक्तियुक्तभजनेन महेशे शक्तिवज्जगदिदं परिभाति ॥ १५॥
कर्मन्दिवृन्दा अपि वेदमौलिसिद्धान्तवाक्यकलनेऽपि भवन्ति मन्दाः ।
कामादिबद्धहृदयाः सितभस्मपुण्ड्ररुद्राक्ष शङ्करसमर्चनतो विहीनाः ॥ १६॥
हीना भवन्ति बहुधाप्यबुधा भवन्ति मत्प्रेमवासभवनेषु विहीनवासाः ॥ १७॥
अष्टम्यामष्टमूर्तिर्निशि शशिदिवसे सोमचूडं तु मुक्त्यै
भूतायां भूतनाथं धृतभसिततनुर्वीतदोषे प्रदोषे ।
गव्यैः पञ्चामृताद्यैः फलवरजरसैर्बिल्वपत्रैश्च लिङ्गे
तुङ्गे शाङ्गेऽप्यसङ्गो भजति यतहृदा नक्तभुक्त्यैकभक्तः ॥ १८॥
ज्ञानानुत्पत्तये तद्धरिविधिसमताबुद्धिरीशानमूर्तौ
भस्माक्षाधृतिरीशलिङ्गभजनाशून्यं तु दुर्मानसम् ।
शम्भोस्तीर्थमहत्सुतीर्थवरके निन्दावरे शाङ्करे
(द्रोहेस्तदर्थेषु च) श्रीमद्रुद्रजपाद्यद्रोहकरणाज्ज्ञानं न चोत्पद्यते ॥ १९॥
ईशोत्कर्षधियैकलिङ्गनियमादभ्यर्चनं भस्मधृक्
रुद्राक्षामल सारमन्त्र सुमहापञ्चाक्षरे जापिनाम् ।
ईशस्थाननिवासशाम्भवकथा भक्तिश्च सङ्कीर्तनं
भक्तस्यार्चनतो भवेत्सुमहाज्ञानं परं मुक्तिदम् ॥ २०॥
आद्यन्तयोर्यः प्रणवेन युक्तं श्रीरुद्रमन्त्रं प्रजपत्यघघ्नं (प्रजपदेघघ्नम्) ।
तस्याङ्घ्रिरेणुं शिरसा वहन्ति ब्रह्मादयः स्वाघनिवृत्तिकामाः ॥ २१॥
अपूर्वाथर्वोक्त श्रुतिशिरसि विज्ञानमनघं
महाखर्वाज्ञानप्रशमनकरं यो विरचयेत् ।
मुने हृत्पर्वाणां विशसनकरं सप्तमनुभिर्व्रतं
शीर्षण्यं यो विरचयति तस्येदमुदितम् ॥ २२॥
गुरौ यस्य प्रेम श्रुतिशिरसि सूत्रार्थपदगं
मयि श्रद्धा वृद्धा भवति किल तस्यैष सुलभः ।
अनन्यो मार्गोऽयमकथितमिदम्त्वय्यपि मुदा
यदा गोप्यो मुग्धे सुविहितमुनिष्वेव दिश वै ॥ २३॥
॥ इति शिवरहस्यान्तर्गते शिवेन ऋभुं प्रति शिवार्चनोपदेशः सम्पूर्णः ॥
- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः ३ । २१-४३॥
- .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 3 . 21-43..
Notes :
Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita.
Selected verses from Ribhu Gita have been compiled here based on similarity of content.
Proofread by Ruma Dewan