शिवेन कुमारोपदेशे प्रपञ्चस्य चिन्मयत्वकथनम्
(सर्वं चिन्मयमेव हि)
तन्मात्रं सर्वचिन्मात्रमखण्डैकरसं सदा ।
एकवर्जितचिन्मात्रं सर्वं चिन्मयमेव हि ॥ ६.२६॥
इदं च सर्वं चिन्मात्रं सर्वं चिन्मयमेव हि ।
आत्माभासं च चिन्मात्रं सर्वं चिन्मयमेव हि (चिन्मात्रान्नास्ति किञ्चन) ॥ ६.२७॥
सर्वलोकं च चिन्मात्रं सर्वं चिन्मयमेव हि ।
त्वत्ता मत्ता च चिन्मात्रं चिन्मात्रान्नास्ति किञ्चन ॥ ६.२८॥
आकाशो भूर्जलं वायुरग्निर्ब्रह्मा हरिः शिवः ।
यत्किञ्चिदन्यत्किञ्चिच्च सर्वं चिन्मयमेव हि ॥ ६.२९॥
अखण्डैकरसं सर्वं यद्यच्चिन्मात्रमेव हि ।
भूतं भव्यं च चिन्मात्रं सर्वं चिन्मयमेव हि ॥ ६.३०॥
द्रव्यं कालश्च चिन्मात्रं ज्ञानं चिन्मयमेव च ।
ज्ञेयं ज्ञानं च चिन्मात्रं सर्वं चिन्मयमेव हि ॥ ६.३१॥
सम्भाषणं च चिन्मात्रं वाक्च चिन्मात्रमेव हि ।
असच्च सच्च चिन्मात्रं सर्वं चिन्मयमेव हि ॥ ६.३२॥
आदिरन्तं च चिन्मात्रं अस्ति चेच्चिन्मयं सदा ।
ब्रह्मा यद्यपि चिन्मात्रं विष्णुश्चिन्मात्रमेव हि ॥ ६.३३॥
रुद्रोऽपि देवाश्चिन्मात्रं अस्ति नरतिर्यक्सुरासुरम् ।
गुरुशिष्यादि सन्मात्रं ज्ञानं चिन्मात्रमेव हि ॥ ६.३४॥
दृग्दृश्यं चापि चिन्मात्रं ज्ञाता ज्ञेयं ध्रुवाध्रुवम् ।
सर्वाश्चर्यं च चिन्मात्रं देहं चिन्मात्रमेव हि ॥ ६.३५॥
लिङ्गं चापि च चिन्मात्रं कारणं कार्यमेव च ।
मूर्तामूर्तं च चिन्मात्रं पापपुण्यमथापि च ॥ ६.३६॥
द्वैताद्वैतं च चिन्मात्रं वेदवेदान्तमेव च ।
दिशोऽपि विदिशश्चैव चिन्मात्रं तस्य पालकाः ॥ ६.३७॥
चिन्मात्रं व्यवहारादि भूतं भव्यं भवत्तथा ।
चिन्मात्रं नामरूपं च भूतानि भुवनानि च ॥ ६.३८॥
चिन्मात्रं प्राण एवेह चिन्मात्रं सर्वमिन्द्रियम् ।
चिन्मात्रं पञ्चकोशादि चिन्मात्रानन्दमुच्यते ॥ ६.३९॥
नित्यानित्यं च चिन्मात्रं सर्वं चिन्मात्रमेव हि ।
चिन्मात्रं नास्ति नित्यं च चिन्मात्रं नास्ति सत्यकम् ॥ ६.४०॥
चिन्मात्रमपि वैराग्यं चिन्मात्रकमिदं किल ।
आधारादि हि चिन्मात्रं आधेयं च मुनीश्वर ॥ ६.४१॥
यच्च यावच्च चिन्मात्रं यच्च यावच्च दृश्यते ।
यच्च यावच्च दूरस्थं सर्वं चिन्मात्रमेव हि ॥ ६.४२॥
यच्च यावच्च भूतानि यच्च यावच्च वक्ष्यते ।
यच्च यावच्च वेदोक्तं सर्वं चिन्मात्रमेव हि ॥ ६.४३॥
चिन्मात्रं नास्ति बन्धं च चिन्मात्रं नास्ति मोक्षकम् ।
चिन्मात्रमेव सन्मात्रं सत्यं सत्यं शिवं स्पृशे ॥ ६.४४॥
सर्वं वेदत्रयप्रोक्तं सर्वं चिन्मात्रमेव हि । ४५अ
॥ इति शिवरहस्यान्तर्गते शिवेन कुमारोपदेशे प्रपञ्चस्य चिन्मयत्वकथनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः ६ । २६-४५अ ॥
- .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 6 . 26-45a ..
Notes :
Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita.
Selected verses from Ribhu Gita have been compiled here based on similarity of content.
Proofread by Ruma Dewan