शिवोत्कर्षमञ्जरी
या लक्ष्मीस्त्रिजगच्छरण्य-चरणा तस्याः पतिर्यच्छरो
यद्देयं निखिलैर्वदान्य-निवहैस्तद्यस्य जीर्णं धनुः ।
या संविच्छ्रुतिषु स्मृता रहसि सा यत्पाद-संसेविनी
स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ १॥
अर्चामीति धिया यदेव कुसुमं क्षिप्त्वा जनो मुच्यते
विध्यामीति धिया तदेव विकिरन् भस्मीकृतो मन्मथः ।
इत्याभ्यन्तर-वृत्तिमात्र-रसिको बाह्यानपेक्षश्च यः
स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ २॥
यत्केशाग्र-विलग्नमम्बु जगतां तीर्थं परं पावनं
यद्वीर्यं भुवि दक्षिणेति विहितं यज्ञेषु सर्वेष्वपि ।
श्वानो यस्य तपस्विनां च महतां कामप्रदा धेनवः
स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ३॥
वक्त्राब्जेषु पितामहस्य जगतां वक्षःस्थले श्रीपतेः
सर्वाङ्गेषु शतक्रतोरपि दृढानुच्छ्रित्य जैत्र-ध्वजान् ।
संप्राप्तो मदनोऽपि यस्य निटिलज्योतिःपतङ्गायितः
स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ४॥
यद्दातुं कृतलोभ एव परमं धाम स्वभक्तान् पुरा
काकुत्स्थोऽप्यतिसन्दधे स भुवनान्यन्यानि सृष्ट्वा तदा ।
आवेधो-मशकं तदेव तृणवद्दत्तेऽविमुक्ते तु यः
स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ५॥
सेतुं यत्र निबद्ध्य यत्र वसुधामुद्धृत्य मग्नां पुरा
विख्यातो मधुसूदनः स जलधिः यत्स्रोतसा पूरितः ।
सा जाह्नव्यपि यज्जटा-तनुशिखा-लम्बाम्बु-लेशायिता
स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ६॥
दातव्यस्त्रिदिवः प्रतिक्षण-परिक्षीणः समस्तैः सुरैः
तद्दानाय च ते कियत्कियदिव व्यापारयन्ते जनान् ।
अक्षय्यं पदमाप्यमत्र च सकृद्यत्कीर्तनं साधनं
स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ७॥
मन्त्रे वा क्वचिदर्थवाद-शकले दिष्टया गृहीते सकृत्-
स्वे नाग्नि त्रिदशा वहन्ति महतीं कीर्तिं यदीयोक्तिषु ।
श्वानस्ते निगमा यदीय-भवनद्वारे चरन्ति स्वतः
स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ८॥
यः सान्तानिक-लोकदस्तनुभृतां यः सर्व-लोकेश्वरः
सोऽप्याहूयत मर्त्यभाव-भजनात् काले न कालेन किम् ।
तादृक्षोऽपि स कस्यचिद्-द्विज-वटोस्त्राणाय येनाहतः
स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ९॥
कस्मैचिद्-द्विजबन्धवे कियदपि क्षीरं पुरा याचते
दत्तो येन दयारसैक-वपुषा दुग्धोद एवार्णवः ।
श्रीश्रीवल्लभ-कल्पपादप-सुधा-चिन्तामणीभिः समं
स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ १०॥
केनास्मानतिशेरते दिविचराः श्रुत्या गृहीता हि ते
किं नास्मान् श्रुतिराह तान् परतया ब्रूते किमस्मान् स्वकान् ।
सर्वे चेत्पशवो वयं किमितरैः सर्वस्य यो मोचकः
स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ११॥
बाणो यस्य न बाणकर्म सहते चक्रे च ये द्वे तयोः
एकं चक्रकुल-प्रतीपमितरच्चक्रानुकूल-क्रियम् ।
ज्या तु ज्यां शिरसा बिभर्ति भुवने सूतो न सूतः क्वचित्-
स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ १२॥
क्रत्वात्मा पुरुषः क्रतुः क्रतुभुजो वक्ता क्रतूनां क्रतोः
आधारः क्रतुकाल-कल्पनपरौ सर्वेऽप्यमी संहताः ।
यस्यातिक्रमतः सह क्रतुकृता भ्रष्टाश्च नष्टाः क्षणात्-
स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ १३॥
आरोढुं वरमौपवाह्यमपहर्तुं सुन्दरीः कन्यका
भोक्तुं भोज्यमुपस्थितं सुखमलङ्कर्तुं च रत्नैस्तनुम् ।
सन्नह्यन्त्यमृतान्धसो हि शमिते येनैव हालाहले
स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ १४॥
स्वं वासो दशधा विभज्य वितरन्नेकैक-खण्डं पुरा
यश्चक्रे दश पाकशासन-हुताशादीन् दिशामीश्वरान् ।
यद्भिक्षाशन-भागभाक् त्रिजगतामन्न-प्रदात्री शिवा
स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ १५॥
स्वच्छन्दं चरतो हि यस्य चरणाङ्गुष्ठाग्र-सम्पादिता
रेखा काचन हेतिराज-पदवीं प्राप्ता जगद्विश्रुताम् ।
लब्धा दैत्यभिदा तपोभिरुपदीकृत्य स्वकं लोचनं
स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ १६॥
बाणं काचन बाणकोणमितरा बाणस्य मूलं परा
यन्तारं कतिचिद्रथाङ्गमितरा शिष्टाः पुनः स्वामिनम् ।
इत्थं संस्तुवते चिरन्तन-गिरः साक्षात् प्रणाल्यापि यं
स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ १७॥
प्राचीनेत्यधुनातनेति भुवने वाङ्नाम या यावती
ताः सर्वाः परितः परीत्य चरणे यस्यायती विश्रमम् ।
शृण्वन्नङ्गदतां गतः फणिपतिः शब्दागमं व्याकरोत्-
स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ १८॥
गान्धर्वागम-देशिकौ तनुभृतां यत्कर्णयोः कुण्डले
यत्पादाङ्गद-निर्मितं पद-महाभाष्यं भुवि स्त्यायति ।
पुण्यं पापमिति व्यवस्थितिरियं यद्वाह-हेषाकृता
स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ १९॥
ध्यात्वा वर्षगणान् बहून्विरचितं यत्नेन यद्वेधसा
यच्छौरिर्बिभराम्बभूव बहुधा भूत्वा च मृत्वा स्वयम् ।
तल्लोक-त्रयमीषदुल्लसित-यच्चक्षुःस्फुलिङ्गे हुतं
स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ २०॥
सौम्याग्नेयतया क्षराक्षरतया शब्दार्थ-भावेन वा
जीव-ब्रह्मतया जडाजडतया स्त्रीपुंस-भावेन वा ।
द्वेधा भिन्नमिदं हि यस्य वपुषी सव्यापसव्ये विदुः
स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ २१॥
यल्लाभाय पुरा कियद्भिरमरैः सिन्धौ कियद्व्यापृतं
लेभे यत्परिवेषणेन कियतीं कीर्तिं रमावल्लभः ।
यच्चूडा-कुसुम-क्षरन्मधुरस-स्रोतःकणः सा सुधा
स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ २२॥
यः स्रष्टा जगतां यतोऽयमभवत् तद्यस्य नाभेरभूत्-
शेते यत्र स तं च यश्चुलुकयाञ्चक्रे सहान्यैः क्षणात् ।
तादृक्षाः शतशः पुराण-मुनयो यच्छिष्य-वर्गे स्थिताः
स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ २३॥
निर्व्यापार-दशैव यस्य जगती-निर्वाह-धौरन्धरी
मन्दस्मेर-मुखाब्जतैव परमो यस्य द्विषां निग्रहः ।
नित्यं यस्य च मौनमेव निखिलं छिन्ते सतां संशयं
स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ २४॥
दत्ता श्रीरिषवे सिसाधयिषवे वासो गृहीतं सुरैः
सूताय व्ययिता गिरश्च किमितो दातास्म्यहं केवलः ।
इत्यालोच्य दयानिधिर्दिशति यः कैवल्यमेवार्थिनां
स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ २५॥
शारीरः पृथिवी रवीन्दुदहना वायुर्वियत्तोयमि-
त्यष्टाभिश्चिदचिद्गणैः परिणतं विश्वं तनुस्स्वेति यः ।
विश्वं विश्वविलक्षणः प्रभविता विश्वस्य विश्वाधिकः
स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ २६॥
शब्द-ग्राम-मयी यदीय-गृहिणी ख्याता यदीयं वपुः
त्रैलोक्यं जड-चेतनाष्टक-मयं यद्बाण-गुप्तं जगत् ।
सर्वासां दयितो गिरां सकल-लोकात्मा च सर्वेश्वरः
स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ २७॥
यज्जातीय-कणाङ्किताननमहिं जीर्णं कमप्यावसन्
पार्श्व-स्थापित-पन्नगाशन-पतिर्जागर्ति नित्यं हरिः ।
यत्कण्ठाभरणायितस्त्रिजगती-भीमः स हालाहलः
स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ २८॥
अन्योन्य-श्वसिताशनैः फणधरैराविश्य सत्त्वान्बहिः
भुञ्जानैः परिचारकैस्तृणकणैरानन्दिना नन्दिना ।
भिक्षान्नोपचितैश्च दार-तनयैः पुष्णाति विश्वानि यः
स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ २९॥
केयूराङ्गद-हार-कुण्डल-कटीसूत्रोपवीतीभव-
द्भोगीन्द्रोद्भट-फूत्कृति-व्यतिकरोन्मृष्टाङ्गरागो मुहुः ।
संवर्तोपचितैस्त्रिलोक-भसितैर्भूयोऽपि यो लिप्यते
स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ३०॥
सर्वश्चेतनवर्ग एष पशुतामस्यानुमेने स्वयं
तेषामेष पतिः प्रभुर्नियमने निर्मोचने च स्वतः ।
इत्याम्नाय-गिरः स्तुवन्ति बहुशः शाखासु शाखासु यं
स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ३१॥
यच्छूलं गतसारमित्युपददे चक्रं जिघृक्षुर्हरिः
तत्खण्डो निहितस्तु येन दनुजे तेनापि दुर्निग्रहः ।
निर्जेतुं लवणं प्रतीक्ष्य-विरहः शक्त्याऽभवत् सर्वधा
स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ३२॥
मां नाम्ना श्रुतिरग्रहीदिति सुराः ख्यातिं लभन्ते परां
मां वेदाहमिति श्रुतिः कथयतीत्युत्सिच्यते माधवः ।
ता यद्दोरिषु-धन्व-मन्युषु नमोवाकान्वहन्ते शतं
स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ३३॥
सर्गश्च प्रतिसञ्चरश्च जगतां यत्पक्ष्मणी संश्रितौ
शास्त्राणि श्रुतयोऽपि वा यदधर-स्पन्दं प्रतीक्ष्यासते ।
बन्धो मोक्ष इति द्वयं तनुभृतां यस्याक्षि-कोणे स्थितं
स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ३४॥
शक्त्यर्धं विनिवेशयामि परिगृह्णीतेत्युपच्छन्दिताः
सम्भूयापि वयं तदर्ध-वहने न स्मः समर्था इति ।
जग्मुः प्रागमराः शरादि-विधया यस्य स्वयं शेषतां
स स्वामी मम देवतं तदितरो नाम्नापि नाम्नायते ॥ ३५॥
यानब्धौ विनिमज्ज्य मीनवपुषा शौरिश्चिरायावहत्-
यत्सन्धारणमेकमेव महतां माहात्म्यमुद्घुष्यते ।
यानद्यापि विधिर्बिभर्ति वदनैस्ते यं वहन्त्यागमाः
स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ३६॥
जेतुं त्रीणि पुराणि येन सहसारूढे धरित्री-रथे
वेदाश्वेषु विभुग्न-जानुषु वृषो भूत्वा प्रयस्यन्हरिः ।
वोढुं तं न रथं शशाक विधृतं शेषात्मनापि स्वयं
स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ३७॥
अम्बा यद्गृह-मेधिनी त्रिजगतां शब्दान्तराण्यन्तरा
सन्त्यज्योपपदं वदन्ति च जना एकं यमेवेश्वरम् ।
मुक्त्वा च प्रतियोगिनं वदति यत्सूनुं कुमारं श्रुतिः
स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ३८॥
विश्वं मुञ्च बधान वेति हि पराशक्तिर्यदाज्ञापिता
ज्ञानेच्छाकृति-शक्तिषु स्वयमिमं विन्यस्य सर्वं भरम् ।
आस्तेऽनुत्तर-सामरस्य-परमानन्दानुसन्धायिनी
स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ३९॥
उन्मीलच्चतुरग्र-विंशति-शत-द्वन्द्वात्मना सङ्ख्यया
निर्भक्तैर्भुवनैः सनेतृभिरपि व्याप्तं कला-पञ्चकम् ।
यत्कोट्यंश-पराख्य-शक्ति-कणिका-लेशस्य लेशायते
स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ४०॥
यस्यानन्द-महार्णवस्य कणिका या काप्यविद्यानिल-
व्याधूता शतधा विभिद्य भुवनं व्याप्ता श्रुतीनां गणैः ।
ब्रह्म त्वं तदसीति वाद-मुखरैरद्यापि चान्विष्यते
स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ४१॥
श्रेयः संसरतां किमस्ति परमं नामापवर्गाच्च नः
तद्दानादधिको न कश्चन गुणोऽस्त्यस्मद्धियां गोचरः ।
तद्यद्-दर्पण-संप्रसाद-सुलभं नालं यदीय-स्तुतौ
स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ४२॥
प्लुष्टे स्थावर-जङ्गमे शतधृतौ नष्टे जगत्स्रष्टरि
व्याप्ते दैत्यरिपौ हरेण विहरत्यस्मिन् महेशात्मना ।
अन्तर्भावयितुं स्वयं तमपि यस्येमे गणाः साक्षिणः
स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ४३॥
नाश-व्याप्यममङ्गलं तदितरं माङ्गल्यमेवं स्थिते
नश्यद्-दैवत-धारितैरलमलङ्कारैरभव्यैरिति ।
नित्यैर्भस्मभिरेव भूषयति यः स्वाङ्गं जगन्मङ्गलं
स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ४४॥
गङ्गाम्भःपरिशोषणं स्मर-मदोच्छेदो जगद्-दाह इ-
त्याद्यं निग्रह-वैशसं कलयते कण्ठादुपर्येव यः ।
अन्तः सन्ततमीहते तु शिवमाकीटं जगन्मात्रके
स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ४५॥
अभ्यर्चन्ति यमामनन्ति यमनुध्यायन्ति यं सन्ततं
गीर्वाणाः फणिनो नरा इति किमित्याश्चर्यमाचक्ष्महे ।
यो देवः स्वयमप्यसौ शिवमनुध्यायन् शिवत्वं गतः
स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ४६॥
यास्वप्सु द्रुहिणोऽजनिष्ट धरणौ यत्रावतारो हरेः
लिल्ये यत्र हुताशने त्रिजगतां माता विदेहात्मजा ।
तद्भूत-त्रयमप्यभूदचतुरं यत्तेजसो धारणे
स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ४७॥
यद्धर्मानुचिकीर्षया प्रववृते भिक्षाश्रमोऽनुत्तमो
यद्दास्य-व्रत-लाञ्छनं परमिति ख्याता विभूतिः श्रुतौ ।
यत्सूक्ति-श्रवणेच्छया सुकृतिनो मुञ्चन्ति काश्यामसून्
स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ४८॥
यत्सारथ्य-पदस्थितेः शतधृतेरायुः परार्धाधिकं
शौरेर्यं प्रति मार्गणत्वमयतो जागर्ति लक्ष्मीः स्थिरा ।
यत्पादाश्रयिणः फणाधर-पतेर्वाचः प्रथन्तेतरां
स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ४९॥
पारम्ये निगमागमाः परम-सौलभ्ये पिशाचादयो
वाञ्छातीत-पदार्पणे स भगवान् वैयाघ्रपादो मुनिः ।
सर्वागःसहनेऽन्धकश्च दनुजो यस्य स्थिताः साक्षिणः
स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ५०॥
साराः शब्द-कुलस्य येन निगमा वाहा इति स्वीकृताः
सारावद्रिषु कार्मुकं गृहमिति द्वौ हेम-रूप्यौ हृतौ ।
सारा वारिषु जाह्नवीति विधृता भक्तानुकम्पाच्छलात्-
स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥ ५१॥
भूमिर्भ्राम्यति बद्ध एव मरुति प्रत्यग्भ्रमोऽत्यद्भुतो
भ्राम्यन्त्येव सहाश्रयेण च दिवि ज्योतींषि सर्वाण्यपि ।
आवर्तोऽयमपां भ्रमः परिणतो मूर्तिर्हरस्याष्टमी
याऽसावप्पयदीक्षितो जयति सा त्वेका निरस्तभ्रमा ॥ ५२॥
इति श्रीनीलकण्ठदीक्षितविरचिता शिवोत्कर्षमञ्जरी समाप्ता ।
Proofread by Rajani Arjun Shankar