श्रीशिवोत्कर्षसाक्षिपञ्चकम्
गायत्रीवल्लभत्वाद्दशरथतनयस्थापिताराधितत्वात्
शौरेः कैलासयात्राव्रतमुदिततयाभीष्टसन्तानदानात् ।
नेत्रेण स्वेन साकं दशशतकमलैर्विष्णुना पूजितत्वात्
तस्मै चक्रप्रदानादपि च पशुपतिः सर्वदेवप्रकृष्टः ॥ १॥
कन्दर्पध्वंसकत्वाद्गरलकबलनात् कालगर्वापहृत्त्वात्
दैतेयावासभूतत्रिपुरविदलनाद्दक्षयागे जयित्वात् ।
पार्थस्य स्वास्त्रदानान्नरहरिविजयान्माधवे स्त्रीशरीरे
शास्तुः सम्पादकत्वादपि च पशुपतिः सर्वदेवप्रकृष्टः ॥ २॥
वाराणस्यां च पाराशरिनियमिभुजस्तम्भनात् प्राक्पुराणां
प्रध्वंसे केशवेनाश्रितवृषवपुषा धारितक्ष्मातलत्वात् ।
अस्तोकैर्ब्रह्मशीर्षैरनिशगलगतालङ्कृताऽऽभूषितत्वात्
दानात् प्रज्ञानमुक्त्योरपि च पशुपतिः सर्वदेवप्रकृष्टः ॥ ३॥
भूमौ लोकैरनेकैः सततविरचिताराधितत्वादमीषा-
मष्टैश्वर्यप्रदानाद्दशविधवपुषा केशवेनार्चितत्वात् ।
हंसक्रोडाङ्गधारिद्रुहिणमुरहरान्विष्टशीर्षाङ्घ्रिकत्वात्
जन्मध्वंसाद्यभावादपि च पशुपतिः सर्वदेवप्रकृष्टः ॥ ४॥
वैशिष्ट्ये योनिपीठायितमुररिपुसंश्लिष्टभावेन शम्भोः
स्वस्यैकार्धप्रतीकायितहरिवपुषालिङ्गितत्वेन यद्वा ।
अप्राधान्याद्विशिष्टाद्वयसमधिगमे दानवानामरातेः
शम्भोरुत्कृष्टभावादपि च पशुपतिः सर्वदेवप्रकृष्टः ॥ ५॥
॥ इति श्रीशिवोत्कर्षसाक्षिपञ्चकं सम्पूर्णम् ॥
Proofread by Aruna Narayanan