शोणाचलशिवनामस्तोत्रम्

शोणाचलशिवनामस्तोत्रम्

गौतमाय श्रीशङ्करेणशिवमुख्यनाम्नाम्परिगणनपुरःसरं पार्वतीकृते गौतम प्रश्नेऽरुणेश्वरप्रदक्षिणामाहात्म्यवर्णनं गौतम उवाच - भगवन्नरुणाद्रीशनामधेयानितेभृशम् । विशेषाच्छ्रोतुमिच्छामिस्थानेऽस्मिन्सुरपूजिते ॥ १॥ महेश्वर उवाच - नामानिश‍ृणु मे ब्रह्मन्मुख्यानिद्विजसत्तम । दुर्लभान्यल्पपुण्यानां कामदानिसदाभुवि ॥ २॥ शोणाद्रीशोऽरुणाद्रीशो देवाधीशो जनप्रियः । प्रपन्नरक्षको धीरः शिवसेवकवर्धकः ॥ ३॥ अक्षिपेयामृतेशानः स्त्रीपुम्भावप्रदायकः । भक्तिविज्ञप्तिसन्धाता दीनबन्दिविमोचकः ॥ ४॥ मुखराङ्घ्रिपतिः श्रीमान्मृडो मृगमदेश्वरः । भक्तप्रेक्षणकृत्साक्षी भक्तदोषनिवर्तकः ॥ ५॥ ज्ञानसम्बन्धनाथश्च श्रीहलाहलसुन्दकः । आहवैश्वर्यदाता च स्मर्तृ सर्वाघनाशनः ॥ ६॥ व्यत्यस्तनृत्यद्ध्वजधृक्सकान्तिर्नटनेश्वरः । सामप्रियः कलिध्वंसी वेदमूर्तिनिरञ्जनः ॥ ७॥ जगन्नाथो महादेवस्त्रिनेत्रस्त्रिपुरान्तकः । भक्तापराधसोढा च योगीशो भोगनायकः ॥ ८॥ बालमूर्तिः क्षमारूपी धर्मरक्षो वृषध्वजः । हरो गिरीश्वरो भर्गश्चन्द्ररेखावतंसकः ॥ ९॥ स्मरान्तकाऽन्धकरिपुः सिद्धराजो दिगम्बरः । आगमप्रियईशानो भस्मरुद्राक्षलाञ्छनः ॥ १०॥ श्रीपतिः शङ्करः स्रष्टा सर्वविद्येश्वरोऽनघः । गङ्गाधरः क्रतुध्वंसो विमलो नागभूषणः ॥ ११॥ अरुणो बहुरूपश्च विरूपाक्षोऽक्षराकृतिः । अनादिरन्तरहितः शिवकामः स्वयम्प्रभः ॥ १२॥ सच्चिदानन्दरूपश्च सर्वात्मा जीवधारकः । स्त्रीसङ्गवामसुभगो विधिर्विहितसुन्दरः ॥ १३॥ ज्ञानप्रदो मुक्तिदश्च भक्तवाञ्छितदायकः । आश्चर्यवैभवः कामी निरवद्यो निधिप्रदः ॥ १४॥ शूली पशुपतिः शम्भुः स्वयम्भुगिरिशो मृडः । एतानि मम मुख्यानि नामान्यत्र महामुने ॥ १५॥ इति श्रीस्कान्दे महापुराणे प्रथमे माहेश्वरखण्डे तृतीयमरुणाचलमाहात्म्यं तत्र पूर्वार्धः प्रारभ्यते नवमोऽध्यायान्तर्गता शोणाचलशिवनामस्तोत्रं सम्पूर्णम् ।
% Text title            : shoNAchalashivanAmastotram
% File name             : shoNAchalashivanAmastotram.itx
% itxtitle              : shoNAchalashivanAmastotram (skandamahApurANAntargatam)
% engtitle              : shoNAchalashivanAmastotram
% Category              : shiva, aShTottarashatanAma
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : NA
% Description/comments  : skAndamahApurANa prathame mAheshvarakhaNDe tRitIyamarUNAchalamAhAtmyaM pUrvArdhaH navamo.adhyAyaH
% Latest update         : December 29, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org