श्रावणमासकृते शिवशताष्टनामस्तोत्रम् मास ५
(शिवरहस्यान्तर्गते महादेवाख्ये)
- शिवगौरीसंवादे -
सुरथाय सुमध्याय मन्मथान्तकराय च ।
महोमयाय तीक्ष्णाय आर्द्रचर्मधराय च ॥ ३८॥
श्मशानरतिनित्याय नमोऽस्तूलूकधारिणे ।
बर्हिबर्हवसानाय घनाय बहुगर्जते ॥ ३९॥
काव्यपूज्याय हृद्याय त्रिणेत्राय पिनाकिने ।
परावराय नित्याय सत्यधर्माय ते नमः ॥ ४०॥
नमो महाध्वरेशाय तण्डुनृत्तप्रियाय च ।
विभीषणाय भीमाय भगप्रमथनाय च ॥ ४१॥
सिद्धसङ्घातगीताय महाशेषाऽङ्गदाय च ।
नमो मुक्ताट्टहासाय क्ष्वेडस्फोटकराय च ॥ ४२॥
नर्दते कुर्दते चैव नमः प्रमुदितात्मने ।
नमो मृडाय देवाय धावते विष्टिताय च ॥ ४३॥
ध्यायते नन्दते चैव रुवते द्रवते नमः ।
वलते क्रीडते चैव लम्बोदरशरीरिणे ॥ ४४॥
पिशङ्गश्मश्रुकेशाय अरुणाय क्षयाय च ।
नमो विकृतवेषाय मुण्डमालाधराय च ॥ ४५॥
नम उन्मत्तवेषाय किङ्किणीकटये नमः ।
अमर्षणाय क्रूराय विष्णुबाणधराय च ॥ ४६॥
नृसिह्मान्त्यावसानाय क्रोडदंष्ट्राविधारिणे ।
गजदन्तगदायाथ गोडजिनाम्बरवाससे ॥ ४७॥
तरुणाय शरण्याय अरण्यपतये नमः ।
अप्रमेयाय दीप्ताय निर्गुणाय गुणाय च ॥ ४८॥
वाद्यप्रियाय पाराय चूडामणिधराय च ।
नमस्तोकाय चिन्त्याय योगिध्येयाय शम्भवे ॥ ४९॥
नमो वेदान्तवेद्याय भववैद्याय भूतये ।
ओजसे तेजसे चैव भ्राजते ग्रसते नमः ॥ ५०॥
एवं वै श्रावणे पूज्यो बिल्वैर्नामशताष्टकैः ।
स्तवं पापहरं स्तुत्वा शिवं देवं प्रसादयेत् ॥ ५१॥
॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं श्रावणमासकृते शिवशताष्टनामस्तोत्रं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः १८ श्रावणार्चनम् । ३८-५१॥
- .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 18 shrAvaNArchanam . 38-51..
Notes:
Śiva शिव delivers to Devī देवी; Śrāvaṇamāsakṛte ŚivaŚatāṣṭanāmaStotram श्रावणमासकृते शिवशताष्टनामस्तोत्रम् comprising of 108 Names १०८ नामानि of Śiva शिव while detailing about His Worship during the Śrāvaṇa māsa श्रावण मास.
The count from the source text comes to less than 108 though. Perhaps there are/were meant to be more Śloka-s.
The corresponding Śrāvaṇamāsakṛte ŚivaŚatāṣṭaNāmāvaliḥ श्रावणमासकृते शिवशताष्टनामावलिः derived from the Śrāvaṇamāsakṛte ŚivaŚatāṣṭanāmaStotram श्रावणमासकृते शिवशताष्टनामस्तोत्रम्, and a Śrāvaṇamāsakṛte ŚivaStutiḥ श्रावणमासकृते शिवस्तुतिः can be accessed from one of the links provided below.
More details about worshiping Śiva शिव during individual Māsa मास are given in Chapters 13-25.
Selected Śloka-s श्लोकाः from Chapter 18 are presented on this page.
Proofread by Ruma Dewan