शाम्भवप्रोक्तं श्रीशैलादिलिङ्गानिमहिमावर्णनम्
लिङ्गानि बहुधा सन्ति भुक्तिमुक्तिप्रदान्यापि ।
तेषु सर्वेषु लिङ्गेषु नार्मदं लिङ्गमुत्तमम् ॥ १॥
यद् दत्तं नार्मदे लिङ्गे जलं कुसुममेव वा ।
फलं बिल्वदलं वापि तदानन्दाम्बुधिप्रदम् ॥ २॥
दुर्लभं नार्मदं लिङ्गं दुर्लभा बिल्वमञ्जरी ।
दुलभा शाम्भवी विद्या दुर्लभः शाङ्करः कलौ ॥ ३॥
शाङ्करत्वं समासाद्य रेवालिङ्गे मनोहरे ।
बिल्वाधैरर्चनं कृत्वा मुक्तो भवति मानवः ॥ ४॥
अत्रापि सन्ति लिङ्गानि श्रीशैले शङ्करालये ।
पर्वताराधितं लिङ्ग त्रिपुरान्तकसंज्ञितम् ॥ ५॥
तल्लिङ्गपूजनादेव मुक्तः स्यादघसागरात् ।
तस्य दर्शनमात्रेण मुक्तः स्यादघसागरात् ॥ ६॥
त्रिपुरासुरसंहारं कृत्वा भालविलोचनः ।
लिङ्गाकारं समासाद्य स्थितः श्रीपर्वते खलु ॥ ७॥
भूमण्डलेषु तीर्थानि यानि तानि विशेषतः ।
श्रीशैले मूर्तिमासाद्य तिष्ठत्येव न संशयः ॥ ८॥
तल्लिङ्गार्चनजं पुण्यं सम्पन्मुक्तिकरं परम् ।
तत्र येनार्पितं द्रव्यं तदनन्तफलप्रदम् ॥ ९॥
दूर्वाङ्कुरैर्बिल्वपत्रैः नीरैर्वा त्रिपुरान्तकम् ।
यः पूजयति पुष्पेण स मुक्तो भवति ध्रुवम् ॥ १०॥
तत्र गोक्षीरकलशं यो दद्याभक्तिपूर्वकम् ।
शाम्भवाय स पुण्यात्मा सुधासागरराड् भवेत् ॥ ११॥
श्रीपर्वते शाम्भवाय यो दद्यादन्नमादरात् ।
स तावदन्नराशीनामधिपो भवति ध्रुवम् ॥ १२॥
तत्र रत्नानि यो दद्यात् भक्त्या शिवपरायणः ।
स रत्नकोशाधिपतिः भवत्येव न संशयः ॥ १३॥
त्रिपुरान्तकमुद्दिश्य यः सुवर्ण प्रयच्छति ।
स सुवर्णपतिर्भूत्वा मुक्तो भवति मानवः ॥ १४॥
शिवचिन्तनशीलं चेदसृतं चित्तमन्ततः ।
वित्तेशो याति पत्तित्वं पतिपत्तेरपि स्वतः (?)॥ १५॥
शिवचिन्तनशीलानां यो दद्याद्वित्तमन्ततः ।
सोऽपि वित्तेशतां याति ऋषिवर्यैरपि स्तुतः ॥ १६॥
घण्टाकर्णेश्वरं नाम लिङ्गमस्त्येकमुत्तमम् ।
तत्पूजनेन पापानि विनश्यन्ति न संशयः ॥ १७॥
तत्रापि कुण्डमस्त्येकं सुधाकुण्डमिति श्रुतम् ।
तत्र स्नात्वा नरः सद्यः शुद्धो भवति सर्वथा ॥ १८॥
तत्कुण्डजलमध्यस्थो घण्टाकर्णेश्वरं स्मतत् ।
सर्वपापविनाशानां हेतुरेव प्रजायते ॥ १९॥
घण्टाकर्णेश्वरं नत्वा सम्पूजय कुसुमादिभिः ।
तत्पुष्पसङ्ख्यया तत्र सम्पत् (?) प्राप्नोति मानवः ॥ २०॥
सारङ्गेश्वरालोक्य तत्र स्नात्वाऽतिपावने ।
तत्परोजलपानेन मुक्तो भवति मानवः ॥ २१॥
पुण्यकोटिसमाक्रान्तः शिखरेश्वरपूजनम् ।
करोति पुण्यकालेषु बिल्वदूर्वादिभिर्मुदा ॥ २२॥
विभूतिकुण्डमस्त्येकं तत्तु पावनपावनम् ।
तस्मिन् कुण्डे प्रविष्टानि तीर्थानि विमलान्यपि ॥ २३॥
तत्कुण्डजलयोगेन तीर्थानां तीर्था मता ।
ततः सर्वाणि तीर्थानि तत्र यान्ति दिने दिने ॥ २४॥
श्रीशैलो दुर्लभो लोके भस्मकुण्डं च दुर्लभम् ।
त्रिपुरान्तकलिङ्गं च दुर्लभं जगतीतले ॥ २५॥
शिखरेश्वरमालोक्य विमुक्तः पापपञ्जरात् ।
पश्चान्मुक्तो भवत्येव यत्र कुत्रापि वा मृतः ॥ २६॥
तत्रास्ति हाटकेशाख्यं लिङ्गं हाटकनिर्मितम् ।
तत्रास्ति हाटकं कुण्डं तालं पापनाशनम् ॥ २७॥
तत्र स्नात्वा प्रयत्नेन तल्लिङ्गं भक्तिपूर्वकम् ।
बिल्वपत्रैः समभ्यर्च्य मुक्तो भवति मानवः ॥ २८॥
श्रीशैलभ्रमराम्बायाः कृत्वा दर्शनमादरात् ।
सर्वपापविनिर्मुक्तः सम्पन्नाथो भविष्यति ॥ २९॥
भ्रमराम्बापदाम्भोजं कोमलैर्बिल्वपत्रकैः ।
समभ्यर्च्य प्रयत्नेन सर्वराष्ट्राधिपो भवेत् ॥ ३०॥
भ्रमराम्बां समभ्यर्च्य यस्तु रात्रौ प्रदक्षिणम् ।
करोति तत्करस्था सात् सर्वसम्पद्वराङ्गना ॥ ३१॥
तस्य स्यान्महदैश्वर्यं सन्ततिस्तस्य वर्धते ।
यच्चित्तं भ्रमराम्बायाश्चरणाम्बुरुहार्चने ॥ ३२॥
तस्य तावद्विपत्तिः स्यात् यावन्नाराधिता शिवा ।
आराधितायां तस्यां तु सम्पवृद्धिर्दिने दिने ॥ ३३॥
तत्र सम्पत्प्रदानाय दीक्षिता भ्रमराम्बिका ।
तत्पादाम्बुरुहोत्पन्नाः सर्वदा सर्वसम्पदः ॥ ३४॥
सम्पत्खनिरिति ख्याता श्रीशैले भ्रमराम्बिका ।
तस्याः प्रभावो वेदैर्वा न ज्ञातः सर्वथा खलु ॥ ३५॥
अलमलमभिलापैरिन्दुमौलेः प्रसादात सकलभुवननाथो जायते मानवोऽपि ।
इति मनसि विचिन्त्यानुग्रमुग्रं विदित्वा भज भज भगवन्तं पार्वतीकान्तमेकम् ॥ ३६॥
॥ इति शिवरहस्यान्तर्गते शाम्भवप्रोक्तं श्रीशैलादिलिङ्गानिमहिमावर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ३२। ७०-१०५ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 32. 70-105 ..
Proofread by Ruma Dewan