शुक्रकृतं १ शिवस्तोत्रम्
शुक्रोऽपि हरपार्वत्योः सन्निधौ वटवृक्षके ।
अधःशिरास्तपश्चोग्रं करोति शङ्कराज्ञया ॥ ५८॥
पूर्णे वर्षसहस्रे तु विगते शङ्करः स्वयम् ।
दिव्यरूपेण निकटेऽदृश्यतागत्य वै वटे ॥ ५९॥
शुक्रस्तुष्टाव शम्भुं तं लम्बमानो वटेऽपि च ।
``नमोऽस्तु शितिकण्ठाय कपर्दिने च शम्भवे ॥ ६०॥
मीढुषे वसुवीर्याय रुद्राय रोहिताय ते ।
गिरीशायाऽर्कनेत्राय तक्षकक्रीडनाय च ॥ ६१॥
पिनाकिने च श्वेताय भीमायोग्राय ते नमः ।
महादेवाय शर्वाय मृगव्याधाय ते नमः ॥ ६२॥
स्थाणवे बहुरूपाय त्रिनेत्राय च मृत्यवे ।
त्र्यम्बकाय नमस्तेऽस्तु शङ्कराय शिवाय च ॥ ६३॥
ध्यानिने व्यापिने सद्योजातायेशाय ते नमः ।
वामदेवाय च कृत्तिवस्त्राय प्रभवे नमः ॥ ६४॥
भगनेत्रविहन्त्रे ते पशूनां पतये नमः ।
भूतानां पतये पूषाहन्तघ्नाय च ते नमः ॥ ६५॥
अर्करूपाय च न्यग्रोधाय कालाय ते नमः ।
सङ्कर्षणाय रुद्राय वह्नये योगिने नमः ॥ ६६॥
पृथिव्याद्यष्टरूपाय लिङ्गायाऽलिङ्गिने नमः ।
पार्वतीपतये तुभ्यं गोपतये नमो नमः ॥ ६७॥
महेशाय च डमरूवादित्राय च ते नमः ।
कैलासस्थाय देवानां स्तुत्याय ते नमो नमः ॥ ६८॥
महावैष्णवसन्नाम्ने गणानां पतये नमः ।
ब्रह्मिष्ठाय च शुक्रस्य पित्रे भूयो नमो नमः ॥ ६९॥
इति श्रीलक्ष्मीनारायणीयसंहितायाः द्वापरयुगसन्तानात्मकस्य तृतीयखण्डे
१००-अध्यायान्तर्गतं शुक्रकृतं शिवस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड ३। अध्याय १००/५८-६९॥
lakShmInArAyaNIyasaMhitA . khaNDa 3. adhyAya 100/58-69..
Proofread by PSA Easwaran