शुक्रकृतं २ शिवस्तोत्रम्
शुक्र उवाच ।
बालोऽहं बालबुद्धिश्च बालचन्द्रधर प्रभो ।
नाहं जानामि ते किञ्चित्स्तुतिं कर्तुं नमोऽस्तु ते ॥ १८॥
परित्यक्तस्य गुरुणा न ममास्ति सुहृत्सखा ।
त्वं प्रभुः सर्वभावेन जगन्नाथ नमोऽस्तु ते ॥ १९॥
गुरुर्गुरुमतां देव महतां च महानसि ।
अहमल्पतरो बालो जगन्मय नमोऽस्तु ते ॥ २०॥
विद्यार्थं हि सुरेशान नाहं वेद्मि भवद्गतिम् ।
मां त्वं च कृपया पश्य लोकसाक्षिन्नमोऽस्तु ते ॥ २१॥
इति ब्रह्मपुराणे पञ्चनवतितमाध्यायान्तर्गतं
शुक्रकृतं शिवस्तोत्रं समाप्तम् ।
ब्रह्मपुराण । अध्याय ९५/१८-२१॥
brahmapurANa . adhyAya 95/18-21..
Proofread by PSA Easwaran