शुक्रकृतं ४ शिवस्तोत्रम्
नमोऽस्तु ब्रह्मरूपाय भक्तेच्छापूरकाय ते ।
नमः सद्यःप्रतुष्टाय चिरतुष्टाय ते नमः ॥ १॥
नमोऽस्तु नित्यतृप्ताय दिगम्बराय ते नमः ।
नमो भीमाय रुद्राय महादेवाय ते नमः ॥ २॥
नम उग्राय पिनाकधारिणे शम्भवे नमः ।
मृगव्याधाय यतये किराताय च ते नमः ॥ ३॥
नमस्त्रिचक्षुषे चन्द्रभालाय लिङ्गरूपिणे ।
सदाशिवाय शर्वाय भवेशाय नमो नमः ॥ ४॥
सौम्याय साक्षिणे सतीस्वामिने ते नमो नमः ।
नीलकण्ठाय चण्डाय सद्योजाताय शूलिने ॥ ५॥
ईशानाय पिशङ्गाय चर्माम्बराय ते नमः ।
पशूनां पतये तुभ्यं भूतानां पतये नमः ॥ ६॥
नमोऽष्टवर्ष्मणे कृष्णनारायणात्मने नमः ।
पार्वतीपतये प्रभास्वामिने ते नमो नमः ॥ ७॥
नमस्ते सर्वतः सर्वदिक्षु सर्वात्मसु प्रभो ।
फलदायानन्दकर्त्रे ते सर्वत्र नमो नमः ॥ ८॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने ४०७-अध्यायान्तर्गतं
शुक्रदेवकृतं शिवस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड १। अध्याय ४०७/६५-७२॥
lakShmInArAyaNIyasaMhitA . khaNDa 1. adhyAya 407/65-72..
Proofread by PSA Easwaran